Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 43
________________ आतपरीक्षा | २० युत सिद्धेर्लक्षणद्वयमव्यापि न स्यात् तस्य विभुद्रव्येष्वज संयोगेनानुमितायां युतसिद्धावभावात् । यदि पुनरेतल्लक्षणद्वयव्यतिक्रमेण संयोगहेतुर्युत सिद्धिरिति लणांतरसुररीक्रियते तदा कुंडबदर दिषु परमाण्वा काशादिषु परमाणुष्वात्ममनस्सू विभुद्रव्येषु च परस्परं युत सिद्धभावाल्लक्षणस्याव्याप्त्यतिव्याप्त्यसंभवदोष परिहारेऽपि कर्मापि युतसिद्धिं प्राप्नोति तस्यापि संयोगे हेतुत्वाददृष्टेश्वरकालादेरिवेति दुःशक्यातिव्याप्तिः परिहर्तु । संयोगस्यवहेतुरित्यवधारणाददोषोऽयमिति चेन्न । एवमपि हिमवद्विध्यदिानां युतसिद्धेः संयोगाहेतोरपि प्रसिद्धेर्लक्षणस्याव्याप्तिप्रसङ्गात् । दंतुरेव संयोगस्येत्यवधारणादयमपि न दोष इति चेन्न । एवमपि संयोगहेतोर्युतासिद्धेः प्रसंगात् ॥ संयोगस्यैव हेतुर्युतसिद्धिरित्यवधारणेऽपि विभागहेतुयुतसिद्धिः कथमिव व्यवस्थाप्यते । न च युतसिद्धानां संयोग एव विभागस्यापि भावात् संयोगो विभागहेतुरित्यपिवर्त । तस्य तद्विरोधिगुणत्वात् तद्विनाशहेतुणत्वात्। संयुक्तविषयत्वाद्विभागस्य संयोगोहेतुरिति चेन्न ताई विभक्तविषयत्वात्संयोगस्य विभागोहेतुरस्तु । कयोश्चित्विभक्तयोरप्युभयकर्मणाऽन्यतरकर्मणोऽवयवसंयोगस्य चापाये संयोगापायान्न विभागः संयोगहेतुरितिचेत् तर्हि संयुक्तयोरप्युभयकर्मणोऽन्यतरकर्मणोऽवयवविभागस्यचापाये विभागस्याभावात्संयोगो विभागस्यापि हेतुर्माभूत् । कथं च शश्वदवि भक्तानां विभुक्रव्यविशेषाणामजः संयोगः सिध्य विभागहेतुको व्यवस्थाप्यते । तत्र युतसिद्धिर्विभाग हेतुरपि कथमवस्थाप्यते इति चेत् सर्वस्य हेतोः कार्योत्पादना नियमदिति ब्रूमः । समर्थों हि हेतुः स्वकार्य सुत्पादयति नासमर्थ: सहकारिकारणानपेक्षोऽतिप्रसंगात् ॥ तेन यथा हिमवद्विध्यादीनां युतसिद्धि विद्यमानापि न संयोगमुपजनयति सहकारिकारणस्य कर्मादेरभावात् तथा विभुद्रव्यविशेषाणां शाश्वतिका युतसिद्धिः सत्यपि न विभाग, सहकारिकारणस्याऽन्यतरकर्मादेरभावादिति संयोगहेतुं युतसिद्धि सभ्यनुजानं तो विभागहेतुमपि तामभ्यनुजानतु सर्वथाविशेषाभावात् तथा च संयोगस्यैव हेतुर्युत सिद्धिरि त्यपिलक्षणं न व्यवर्तिष्ठत एव लक्षणाभावे च न युतसिद्धि: नापि युतसिध्द्यभावलक्षणा स्यादयुतसिद्धिः रिति युतसिध्धयुत सिद्धिद्धितयापाये व्याघातो दुरुत्तरः स्यात् सर्वत्र संयोगसमवाययोरभावात् संसरोहानेः सकलार्थहानिः स्यादित्याभिप्रायः । संयोगापाये तावदात्मांतःकरणसंयोगाद् बुद्ध्यादिगुणोत्पतिर्न भवेत् तदभावे च आत्मनोव्यवस्थापनोपायापायादात्मतत्वहानिः । एतेन भेरीदंडाद्याकाशसंयोगा सर्वत्रावयवसंयोगाभावात्तद्वि भावाच्छब्दस्यानुत्पत्तेराकाशव्यवस्थापनोपायासत्वादाकाशहानिरुक्ता भागस्याप्यनुपपत्तेस्तन्निमित्तस्यापि शब्दस्याभावात् । एतेन परमाणु संयोगाभावाद्व्यणुकादिप्रक्रमेणावयविनोऽनुत्पत्तेस्तत्र परापरादिप्रत्ययापायात् इदमतः पूर्वेणेत्यादिप्रत्ययापायाञ्च न कालो दिक् च व्यवतिष्ठत इत्युक्तं । तथा समवायासत्वे सकलसमवायिनामभावान्न मनःपरमाणवोऽपि संभाव्यते इति सकलद्रव्य पदार्थहानेस्तदाश्रयगुणकर्मसामान्यविशेषपदार्थहानिरपीति सकलपदार्थव्याघातात् 'दुरुत्तरोवैशेषिकमतस्य व्याघातः स्यात् तं परिजिहीर्षता युतसिद्धिः कुतश्चिव्यवस्थापनीया ॥ तत्रयुतप्रत्यय हेतुत्वादयुतसिद्धिरितीरणे विभुद्रव्यगुणादीनां युतसिद्धिः समागता ॥ ४८ ॥ यथैव हि कुंडवदरादिषु युतप्रत्यय उत्पद्यते कुंडादिभ्यो बदरादयेोयुता इति तथा विभुद्रव्यविशेषु प्रकृतेषु गुणगुणिषु क्रिया क्रियावत्सु सामान्यतद्वत्सु विशेषतद्वत्सु चावयवावयविषु च युतप्रत्ययो भवत्येवेति युतसिद्धिः समागता सर्वत्रायुतप्रत्ययस्याभावात् । देशभेदाभावात्तत्र न युतप्रत्यय इति चेन्न । वाताइतपादिषु युतप्रत्यय' नुत्पत्तिप्रसंगात् ॥ तेषां स्वावयवेषु भिन्नेषु देशेषु वृत्तेस्तत्र युतप्रत्यय इति चेत् कि मेवं तंतुपटादिषु पटरूपादिषु च युतप्रत्ययः प्रतिषिध्यते स्वाश्रयेषु भिन्नेषु वृत्तेरविशेषात् तथा च न तेषामयुतसिद्धिः । ततो न युतप्रत्ययहेतुत्वेन युतसिद्धिव्यवतिष्ठते । तदव्यवस्थानाच्च किंस्यादित्याह || यतो नायुतसिद्धिः स्यादित्यसिद्धं विशेषणं । तोर्विपक्षतस्तावद्यवच्छेदं न साधेयत् ॥ ४९ ॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182