________________
आतपरीक्षा |
२० युत सिद्धेर्लक्षणद्वयमव्यापि न स्यात् तस्य विभुद्रव्येष्वज संयोगेनानुमितायां युतसिद्धावभावात् । यदि पुनरेतल्लक्षणद्वयव्यतिक्रमेण संयोगहेतुर्युत सिद्धिरिति लणांतरसुररीक्रियते तदा कुंडबदर दिषु परमाण्वा काशादिषु परमाणुष्वात्ममनस्सू विभुद्रव्येषु च परस्परं युत सिद्धभावाल्लक्षणस्याव्याप्त्यतिव्याप्त्यसंभवदोष परिहारेऽपि कर्मापि युतसिद्धिं प्राप्नोति तस्यापि संयोगे हेतुत्वाददृष्टेश्वरकालादेरिवेति दुःशक्यातिव्याप्तिः परिहर्तु । संयोगस्यवहेतुरित्यवधारणाददोषोऽयमिति चेन्न । एवमपि हिमवद्विध्यदिानां युतसिद्धेः संयोगाहेतोरपि प्रसिद्धेर्लक्षणस्याव्याप्तिप्रसङ्गात् । दंतुरेव संयोगस्येत्यवधारणादयमपि न दोष इति चेन्न । एवमपि संयोगहेतोर्युतासिद्धेः प्रसंगात् ॥ संयोगस्यैव हेतुर्युतसिद्धिरित्यवधारणेऽपि विभागहेतुयुतसिद्धिः कथमिव व्यवस्थाप्यते । न च युतसिद्धानां संयोग एव विभागस्यापि भावात् संयोगो विभागहेतुरित्यपिवर्त । तस्य तद्विरोधिगुणत्वात् तद्विनाशहेतुणत्वात्। संयुक्तविषयत्वाद्विभागस्य संयोगोहेतुरिति चेन्न ताई विभक्तविषयत्वात्संयोगस्य विभागोहेतुरस्तु । कयोश्चित्विभक्तयोरप्युभयकर्मणाऽन्यतरकर्मणोऽवयवसंयोगस्य चापाये संयोगापायान्न विभागः संयोगहेतुरितिचेत् तर्हि संयुक्तयोरप्युभयकर्मणोऽन्यतरकर्मणोऽवयवविभागस्यचापाये विभागस्याभावात्संयोगो विभागस्यापि हेतुर्माभूत् । कथं च शश्वदवि भक्तानां विभुक्रव्यविशेषाणामजः संयोगः सिध्य विभागहेतुको व्यवस्थाप्यते । तत्र युतसिद्धिर्विभाग हेतुरपि कथमवस्थाप्यते इति चेत् सर्वस्य हेतोः कार्योत्पादना नियमदिति ब्रूमः । समर्थों हि हेतुः स्वकार्य सुत्पादयति नासमर्थ: सहकारिकारणानपेक्षोऽतिप्रसंगात् ॥ तेन यथा हिमवद्विध्यादीनां युतसिद्धि विद्यमानापि न संयोगमुपजनयति सहकारिकारणस्य कर्मादेरभावात् तथा विभुद्रव्यविशेषाणां शाश्वतिका युतसिद्धिः सत्यपि न विभाग, सहकारिकारणस्याऽन्यतरकर्मादेरभावादिति संयोगहेतुं युतसिद्धि सभ्यनुजानं तो विभागहेतुमपि तामभ्यनुजानतु सर्वथाविशेषाभावात् तथा च संयोगस्यैव हेतुर्युत सिद्धिरि त्यपिलक्षणं न व्यवर्तिष्ठत एव लक्षणाभावे च न युतसिद्धि: नापि युतसिध्द्यभावलक्षणा स्यादयुतसिद्धिः रिति युतसिध्धयुत सिद्धिद्धितयापाये व्याघातो दुरुत्तरः स्यात् सर्वत्र संयोगसमवाययोरभावात् संसरोहानेः सकलार्थहानिः स्यादित्याभिप्रायः । संयोगापाये तावदात्मांतःकरणसंयोगाद् बुद्ध्यादिगुणोत्पतिर्न भवेत् तदभावे च आत्मनोव्यवस्थापनोपायापायादात्मतत्वहानिः । एतेन भेरीदंडाद्याकाशसंयोगा सर्वत्रावयवसंयोगाभावात्तद्वि
भावाच्छब्दस्यानुत्पत्तेराकाशव्यवस्थापनोपायासत्वादाकाशहानिरुक्ता
भागस्याप्यनुपपत्तेस्तन्निमित्तस्यापि शब्दस्याभावात् । एतेन परमाणु संयोगाभावाद्व्यणुकादिप्रक्रमेणावयविनोऽनुत्पत्तेस्तत्र परापरादिप्रत्ययापायात् इदमतः पूर्वेणेत्यादिप्रत्ययापायाञ्च न कालो दिक् च व्यवतिष्ठत इत्युक्तं । तथा समवायासत्वे सकलसमवायिनामभावान्न मनःपरमाणवोऽपि संभाव्यते इति सकलद्रव्य पदार्थहानेस्तदाश्रयगुणकर्मसामान्यविशेषपदार्थहानिरपीति सकलपदार्थव्याघातात् 'दुरुत्तरोवैशेषिकमतस्य व्याघातः स्यात् तं परिजिहीर्षता युतसिद्धिः कुतश्चिव्यवस्थापनीया ॥ तत्रयुतप्रत्यय हेतुत्वादयुतसिद्धिरितीरणे
विभुद्रव्यगुणादीनां युतसिद्धिः समागता ॥ ४८ ॥
यथैव हि कुंडवदरादिषु युतप्रत्यय उत्पद्यते कुंडादिभ्यो बदरादयेोयुता इति तथा विभुद्रव्यविशेषु प्रकृतेषु गुणगुणिषु क्रिया क्रियावत्सु सामान्यतद्वत्सु विशेषतद्वत्सु चावयवावयविषु च युतप्रत्ययो भवत्येवेति युतसिद्धिः समागता सर्वत्रायुतप्रत्ययस्याभावात् । देशभेदाभावात्तत्र न युतप्रत्यय इति चेन्न । वाताइतपादिषु युतप्रत्यय' नुत्पत्तिप्रसंगात् ॥ तेषां स्वावयवेषु भिन्नेषु देशेषु वृत्तेस्तत्र युतप्रत्यय इति चेत् कि मेवं तंतुपटादिषु पटरूपादिषु च युतप्रत्ययः प्रतिषिध्यते स्वाश्रयेषु भिन्नेषु वृत्तेरविशेषात् तथा च न तेषामयुतसिद्धिः । ततो न युतप्रत्ययहेतुत्वेन युतसिद्धिव्यवतिष्ठते । तदव्यवस्थानाच्च किंस्यादित्याह ||
यतो नायुतसिद्धिः स्यादित्यसिद्धं विशेषणं । तोर्विपक्षतस्तावद्यवच्छेदं न साधेयत् ॥ ४९ ॥