________________
सनातन जैन ग्रंथमालायां
समवायः प्रसज्येतायुतसिद्धौ परस्परं । तेषां तद्वितयासत्वे स्याद्व्याघातो दुरुत्तरः ॥४७॥
ननु च पृथगाश्रयवृत्तित्वं युतसिद्धिः ' पृथगाश्रयाश्रयित्वं युतसिद्धिः ' इति वचनात् । पृथगा श्रयसमवायोयुतासद्धिरिति वदतां समवायस्य विवादाध्यासितत्वाल्लक्षणासिद्धिप्रसंगान् । लक्षणस्या कारकत्वेन ज्ञापकत्वेऽपि तेन सिद्धेन भवितव्यं । असिद्धस्य विवादाध्यासितस्य संदिग्धत्वात् तल्लक्षणस्वायोगात् । सिद्धं हि कस्यचिद्भेदकं लक्षणमुपपद्यते नान्यथेति लक्ष्यलक्षण भावविदो विभावयति । तत्र युतसिद्धत्वमीश्वरज्ञानयोर्नास्त्येव महेश्वरस्य विभुत्वान्नित्यत्वाश्चान्यद्रव्यवृत्तित्वाभावान्महश्वरादन्यत्र तद्विज्ञानत्वस्याप्रवृत्तेः पृथगाश्रयवृतित्वाभावात् । कुंडस्य हि कुंडावयवेषु वृत्तिर्दनश्च दध्यवयवेष्विति कुंडावयवद्ध्यवयवाख्यौ पृथग्भूतावाश्रयौ तयोश्च कुंडस्य दनश्च वृत्तिरिति पृथगाश्रयवृतित्वं तयोरभिधीयते । न चैवंविधं पृथगाश्वयाश्रयित्वं समवायिनोः संभवति तंतूनां स्वावयवेष्वंशुषु यथा वृत्तिः न तथा पटस्य तंतुव्यतिरिक्त क्वचिदाश्रये नह्यत्र चत्वारोऽर्थाः प्रतीयते । द्वावाश्रयो पृथग्भूतौ द्वौ चाश्रयिणाविति ततोरेव स्वावयवापेक्षया श्रयित्वात्पापेक्षया वाश्रयत्वा त्रयाणामेवार्थानां प्रसिद्धेः पृथ: गाश्रयाश्रयित्वस्य युतसिद्धिलक्षणस्याभावादयुतसिद्धत्वं शास्त्रीयं समवायिनोः सिद्धमेव ततोऽयुतसिद्धत्वविशेषणं साध्वेवासिद्धत्वाभावात् । लौकिक्ययुतसिद्धत्वं तु प्रतीतिबाधितं नाभ्युपगम्यत एवं ततः सविशेषणाद्धेतोः समवायसिद्धिरिति येऽपि समादधते विदग्धवैशेषिकास्तांश्च पर्यनुयुज्महे । विभुद्रव्यविशेषाणामात्माकाशादीनां कथं तु युतसिद्धिः परिकल्पते भवद्भिस्तेषामन्याश्रयविरहात् । पृथगाश्रयाश्रायत्वासंभवात् । नित्यानां च पृथग्गतिमत्वं युतसिद्धिरित्यपि न विभुद्रव्येषु संभवति तद्धि पृथग्गतिमत्वं द्विधाभिधीयते कैश्चित् । अन्यतरपृथग्गतिमत्वं उभयपृथग्गतिमत्वं चेति । तत्र परमाणाविभुद्रव्ययोरन्यतरपृथग्ग्रतिमत्वं परमाणोरेव गतिमत्वात् । विभुद्रव्यस्य तु निः क्रियत्वेन गतिमत्वाभा - वात्, परभाणूनां तु परस्परमुभयपृथग्गतिमत्वमुभयोरपि परमाण्वोः पृथक् पृथग्गतिमत्वसंभवात् । नचैतद्वितयमपि परस्परं विभुद्रव्यविशेषाणां संभवति । तथैकद्रव्याश्रयाणां गुणकर्मसामान्यानां च परस्परं पृथगायवृत्तेरभावात् युतसिद्धिः कथं नु स्यादिति वितर्कयंतु भवंतः । तेषां युनसिध्यभावे च युत सिद्धौ सत्यां समत्रायोऽन्योन्यं प्रसज्येत स च नेष्टः तेषामाश्रयाश्रयिभाव भावात् । अत्र केचिद्विभुद्रव्य, . विशेषाणामन्योन्यं नित्यसंयोगमा संचक्षते तस्य कुतश्चिदजातत्वात् । नह्ययमन्यनरकर्मजो यथा स्थाणोः . श्येनेन । विभूनां च मूर्तेः, नाप्युभयकर्मजो यथा मेषयोर्मल्लयोर्वा । न च संयोगजो यथा द्वितंतुक वीरणयोः शरीराराकाशयोर्वा । स्वावयवसंयोगपूर्वको ह्यवयविनः केनचित्संयोगः प्रसिद्धः । न वाकाशादीनामवयवाःसंति निरवयवत्वात् ततो न तत्संयोगपूर्वकः परस्परं संयोगो यतः संयोगजःस्यात् प्राप्तिस्तु तेषां सर्वदाऽस्तीति तल्लक्षणसंयोग:, अजएवाभ्युपगतव्यः । तत्सिद्धेश्च युतसिद्धिस्तेषां प्रतिज्ञातव्या । युतसिद्धानामेव संयोगस्य निश्चयात् । नचैवं ये ये युतसिद्धास्तेषां सह्यहिमवदादीनामपि संयोगः प्रसज्यते तथाव्याप्तेरभावात् संयोगन हि युतसिद्धत्वं व्याप्तं न युतसिद्धत्वेन संयोगः ततो यत्र यन्त्र संयोगस्तंषां तत्र तत्र युतसिद्धिरित्यनुमीयते कुंडबदरादिवत् । एवं चैकद्रव्याश्रयाणां गुणादीनां संयोगस्यासंभवान्न युतसिद्धिः तस्य गुणत्वेन द्रव्य श्रयत्वात् तदभावान्न युतसिद्धिः नाप्ययुत सिद्धिरस्तीति समवायः प्राप्नुयात् तस्येहेदं प्रत्ययलिंगत्वादाधार्याधारभूतपदार्थविषयत्वाच्च । नचैते परस्परमाधार्याधा रभूताःस्वाश्नयेण द्रव्येण सहाधार्याधारभावात् । नचैहेदमिति प्रत्ययस्तत्राबाधितः संभवति यलिंग: संबंधः समवायो व्यवस्थाप्यते । न हीहर से रूपं कर्मेतिचाबाधितः प्रत्ययोऽस्ति नापीह सामान्ये कर्म गुणोवेति न ततः समवायः स्यात् नहि यत्र यत्रायुतसिद्धिस्तत्रतत्र समवाय इति व्याप्तिरस्ति यत्र यत्र समवायस्तत्र तत्रायुतसिद्धिरिति व्याप्तेः संप्रत्ययादिति सर्व निरवद्यं परोक्तदूषणानवकाशात् इति त एवं वदतः शंकरादयोऽपि पर्यनुयोज्याः कथं पृथगाश्रयाश्रयित्वं युतसिद्धिः नित्यानां च पृथग्गतिमत्वमितिः
२८