________________
सनातनजमग्रंथमालासिद्धेऽपि समवायस्य समवायिषु दर्शनात् ।
इहेदमिति संवित्तेः साधनं व्यभिचारि तत् ५०॥ ___ सदेवमयुतसिद्धरसंभवे सत्यामयुतसिद्धाविति विशेषणं तावदसिद्धविपक्षादसमवायासंयोगादेय॑वच्छदं न साधयेत् संयोगादिना व्यभिचारस्याबाधितहदप्रत्ययस्य हतोर्दुःपरिहारत्वात् केवल मभ्युपगम्यायुत सिद्धत्वं विशेषण हेतोरनैकातिकत्वमुच्यते । सिद्धेऽपि विशेषणे साधनस्येहसमवायिषु समवायइत्ययुतसिद्धबाधितेहदंप्रत्येन साधनमेतत् व्यभिचारि कथ्यते । नमयमयुतसिद्धबधितहवं प्रत्ययः समवायहेतुक इति । नन्वबाधितत्वविशेषणमसिद्धमिति परमतमाशंक्याह ।।
समवायांन्तरादत्तौ समवायस्य तत्वतः । समवायिषु तस्यापि परस्मादित्यनिष्ठितिः ५१॥ तद्वाधाऽस्तीत्यबाधत्वं नाम नेह विशेषणं । हेतोःसिद्धमनकांतो यतोऽनेनेति ये विदुः ॥५२॥ तेषामिहति विज्ञानाद्विशेषणविशेष्यता। समवायस्य तद्वत्सु तत एव न सिध्यति ॥५३॥ विशेषणविशेष्यत्वसंबंधोऽप्यन्यतो यदि ।
स्वसंबंधिषु वर्तेत तदा बाधाऽनवस्थितिः ॥ ५४ ॥ इह समवायिषु समवाय इति समवायसमवायिनोरयुतसिद्धत्वे समवायस्य पृथगाश्रयाभावा स्प्रसिद्ध सतीहेदमिति संवित्तरबाधितत्वविशेषणस्याभावात् न तया साधनं व्याभिचरेत् तत्रान वस्थाया बाधिकायाः सद्भावात तथाहि समवायिषु समवयस्य वृत्तिः समवायांतराद्यदीप्यते तदा तस्यापि समवायांतरस्य समवायसमवायिषु स्वसंबंधिषु वृत्तिरपरापरसमवायरूपैषितव्या तथाचापरापरसमवायपरिकल्पनायामनिष्ठितिःस्यात् तथैक एव समवायस्तत्वं भावन व्याख्यातमिति सिद्धांतस्य चानिष्ठितिः सैवेहेदमिति प्रत्ययस्य बाधा ततोनाबाधत्वं नाम विशेषणं हेतोर्येनाऽनेकांतःस्यादिति ये वंदति तेषां विशेषणविशेष्यत्वसंबंधोऽपि समवायिषु समवाय इति प्रत्ययान सिध्यदनवस्थायाः सद्भावात् विशेषणविशेष्यभावो हि समवायसमवयिनां परिष्टः समवायस्य विशेषणत्वात् समवायिनां विशष्यत्वात् अन्यथा समवायप्रतिनियमानुपपत्तः ॥ सच समवायसमवायिभ्योऽर्थातरमेव न पुनरनातरं समवायस्यापि समवायिभ्याऽनर्थातरापत्तेः सचार्थातरभूताविशेषणविशेष्यभावः संबंधः खसंबंधिषु परस्मादव विशेषणविशेष्यभावात्प्रतिनियतःस्यात् नान्यथा तथाचापरापरबिशेपणविशष्यभावपरिकल्पनायामनवस्था वाधा तदबस्थैव ततस्तया सबाधादिहेदमिति प्रत्ययाविशेषण विशेष्यभावाऽपि न मिध्यदिति कुतःसमवायप्रतिनियमः कचिदेव समवयिषु परेषां स्यात् ॥
विशेषणविशेष्यत्वप्रत्यायादवगम्यते ।
बिशेषणविशेष्यत्वमित्यप्येतेन दूषितं ॥५५॥ यह समवायिषु समवाय इतीहंदंप्रत्ययादनवस्थया बाध्यमानात् समकायवद्विशेषणविशेव्यभावो न सिध्येदिति तथा विशेषणविशेष्यत्वप्रत्ययादप्यनवस्थया वाध्यमानत्वाविशेषात् ततोऽ नेनेहेदंप्रत्ययदूषणेन विशेषणविशेष्यत्वप्रत्ययोऽपि दूषित एव. तेनैव च तदूषणन विशेषणविशेध्यत्वं सर्वत्र दूषितमवगम्यतां ॥ अत्रानवस्थापरिहारं परेषामाशंक्य निराचष्टे ।।