Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 37
________________ आप्तपरीक्षा । २३ पर्यायेभ्यो भंगुरेभ्यः कथंचिदनर्थातरभावात् कथंचिदनित्यत्वसिद्धेर्महेश्वरस्य तु वैशेषिकैः सर्वथा नित्यत्वप्रतिज्ञानात्तदन्वयव्यतिरेकानुकरणासंभवात्कार्याणामुत्पत्तेरयोगात् । पर्यायाणां च द्रव्यरूपेण नित्यत्वसिद्धेः कथंचिन्नित्यत्वात्सवर्था नित्यत्वानवधारणात् विशिष्टपर्यायसद्भावे कार्यस्योदयात्तदभावेचानुदयात् कार्यस्य तदन्वयव्यतिरेकानुकरणसिद्धेः । निरन्वयक्षणिकपर्यायाणामेव तदघटनात् तत्र कार्यकारणभावाव्यवस्थितेः । पर्यायार्थिकनयप्राधान्यादविरोधात् द्रव्यार्थिकनयप्राधान्येन तदविरोधवत् । प्रमाणार्पणया तु द्रव्यपर्यायात्मनि वस्तुनि सति कार्यस्य प्रसवनादसति वाऽप्रसवनात्तदन्वयव्यतिरेकानुविधानं सकलजनसाक्षिकं कार्यकारणभावं व्यवस्थापयेत् सर्वथैकांत कल्पनायां तदभावं विभावयतीति कृतमतिप्रसंगिन्या कथया । महेश्वरज्ञानस्य नित्यस्याव्यापिनोऽपि सर्वत्र कार्यकरणसमर्थस्य सर्वेषु देशेषु सर्वस्मिन्काले व्यतिरेकाप्रसिद्धेरन्वयस्यापि नियतस्य निश्चेतुमशक्तेस्तन्वादिकार्यं तद्धेतुकं कारणांतरापेक्षयापि न सिध्यत्येवेति स्थितं । कस्यचिभित्यव्यापीश्वरज्ञानाभ्युपगमेऽपि दूषणमतिदिशमाह - - एतेनैवेश्वरज्ञानं व्यापिनित्यमपाकृतं । तस्येशवत्सदा कार्यक्रम हेतुत्वहानितः ॥ ३५ ॥ एतेन व्यतिरेकाभावान्वय संदेह व्यवस्थापकवचनेन व्यापिनित्यमीश्वरज्ञानं तन्वादिकार्योत्पत्तिनिमित्तमपाकृतं वेदितव्यं तस्येश्वरवत्सर्वगतत्वेन कचिदेशे नित्यत्वेन कदाचित्काले व्यतिरेका भावनिश्वयात् तदन्वयमात्रस्य चात्मांतरवनिश्चेतुमशक्तेः तस्मिन्सति समर्थे युगपत्सर्वकार्याणामुत्पतिप्रसंगात् । सर्वदा कार्यक्रमहेतुत्वहानेः कालदेशकृतक्रमाभावात् ' सर्वथा स्वयं क्रमाभावात् ' क्रमवत्वे नित्यत्वसर्वगतत्वविरोधात् पावकादिवत् । स्यान्मतं प्रतिनियतदेशकालसहकारिकारण क्रममापेक्ष्य कार्यक्रमहेतुत्वं महेश्वरस्य च तद्विज्ञानस्यापि न विरुध्यते इति । तदप्यशक्यप्रतिष्ठं सहकारिकारणेषु क्रमवत्सु सत्सु तन्वादिकार्याणां प्रादुर्भवतां तेष्वसत्सु चानुत्पद्यमानानां तदन्वयव्यतिरे कानुविधानात् तद्धेतुकत्वस्यैव प्रसिद्धेर्महेश्वरज्ञानहेतुकत्वं दुरुपपादमापन पद्येत । यदि पुनः सकल सहकारिकारणानामनित्यानां क्रमजन्मनामपि चेतनत्वाभावाश्चेतनेनाधिष्ठितानां कार्यनिष्पादनाय प्रवृत्तेरनुत्पत्तेस्तुरीतंतुवेमशलाकादीनां कुविंदेनानधिष्ठितानां पटोत्पादनायाऽप्रवृत्तिवश्चेतनस्तदधिष्ठाता साध्यते । तथा हि विवादाध्यासितानि कारणांतराणि क्रमवर्तन्यिक्रमाणि च चेतनाधिष्ठितान्येव तन्वादिकार्याणि कुर्वेति स्वयमचेतनत्वात् यानि यानि अचेतनानि तानि तानि चेतनाधिष्ठितान्येव स्वकार्य कुर्वाणानि दृष्टानि यथा तुरीतं त्वादीनि पटकार्य, स्वयमचेतनानि च कारणांतराणि तस्मादेतनाधिष्ठितान्येव तन्वादिकार्याणि कुर्वति योऽसौ तेषामधिष्ठाता स महेश्वरः पुरुषविशेषः क्लेशकर्मविपाकाशयैरपरामृष्टः समस्तकारक शक्तिपरिज्ञानभाक् सिसृक्षाप्रयत्नविशेषवांश्च प्रभुर्विभाव्यते तद्विपरीतस्य समस्तकारकाधिष्ठातृत्वविरोधात् बहूनामपि समस्त कारकाधिष्ठायिनां पुरुषविशेषाणां प्रतिनियतज्ञानादिशक्तीनामेकेन महाप्रभुणाऽधिष्ठितानामेव प्रवृत्तिघटनात् सामंत महासामंतमंडलीकादीनामेकं चक्रवर्त्याधिष्ठितानां प्रवृत्तिवदिति महेश्वरसिद्धिः । तत्राचेतनत्वादिति हेतोर्वत्सविवृद्धिनिमित्तं प्रवर्त्तमानेन गोक्षीरेणानैकांतिकत्वमिति न शंकनीयं । तस्यापि चेतनेन वत्सेनादृष्टविशेषसहकारिणाधिष्ठि तस्यैव प्रवृत्तेः । अन्यथा मृते वत्से गोभक्तेनैव तस्य प्रवृत्तिविरोधात् । न च वत्सादृष्टविशेषवशात्प्रवृतावपि समानोऽयं दोष इति शक्यः तत्क्षीरोपभोक्तृजनादृष्टविशेष सहकारिणापि चेतनेनाधिष्ठितस्य प्रवृत्तिघटनात् सहकारिणामप्रतिनियमात् । यदपि कश्चिदुच्यते महेश्वरोऽपि चेतनांतराधिष्ठितः प्रवर्तते चेतनत्वाद्विशिष्टकर्मकरादिवदिति । तदपि न सत्यं तदधिष्ठापकस्यैव महेश्वरत्वात् । यो त्योऽधिष्टाता स्वतंत्रः स महेश्वरस्ततोऽन्यस्य महेश्वरत्वानुपपत्तेन चांत्योऽधिष्ठाता न व्यवतिष्ठते तन्वादिकार्याणामुम्यतिव्यवस्थानामभावप्रसंगात् । परापर महेश्वर प्रतीक्षायामेवोपक्षीणशक्तित्वात् ततो निरवद्यमिदं

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182