Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 31
________________ आप्तपरीक्षा । 'देहांतरादिना तावत्स्वदेहं जनयेद्यदि । तदा प्रकृतकार्येऽपि देहाधानमनर्थकं ॥ १८ ॥ देहांतरात्स्वदेहस्य विधाने चानवस्थितिः । तथाच प्रकृतं कार्यं कुर्यादीशो न जातुचित् ॥ १९ ॥ यदि हश्वरो देहांतराद्विनाऽपि स्वदेहमेनुध्यानमात्रादुत्पादयेत्तदाऽन्यदेहिनां निप्रहानुग्रहलक्षणं कार्यमपि प्रकृतं तथैव जनयेदिति तज्जनने देहाधानमनर्थकं स्यात् । यदि पुनर्देहांतरादेव स्वदेहं विदधीत तदा तदपि देहांतरमन्यस्माद्देहादित्यनवस्थितिः स्यात्, तथाचापरापरदेहनिर्माण एवोपक्षीणशक्तिकत्वात् न कदाचित्प्रकृतं कार्यं कुर्यादीश्वरः यथैव हि प्रकृतकार्यजननायापूर्व शरीरमीश्वरो निष्पादयति तथैव तच्छरीरनिष्पादनायापूर्व शरीरांतरं निष्पादयेदिति कथमनवस्था विनिवार्येत, न हि केषांचित्प्राणिनां निग्रहानुग्रहकरणात्पूर्व शरीरमीश्वरस्य प्रयुज्यते ततोऽपि पूर्व शरीरांतर प्रसंगात् । अनादिशरीरसंतति सिद्धेरशरीरत्वविरोधात् । न चैकेन निर्माणशरीरेण नानादिग्देशवर्तिप्राणिविशेषनिग्रहानुग्रह विधानमीश्वरस्य घटते, यतो युगपन्नानानिर्माणशरीराणि तस्य न स्युः तदभ्युपगमे च तन्निर्माणाय नानाशरीरांतराणि भवेयुरित्यनादिनानाशरीरसंततयः कथमीश्वरस्य न प्रसज्येरन् । यदि पुनरेकेन शरीरेण नाना स्वशरीराणि कुर्वीत युगपत्क्रमेण वा तदैकेनैव देहेन नानादिग्देशवर्तिप्राणिगणनिग्रहामहावपि तथैव कुर्वीत । तथा च कणाद्गजासुराद्यनुप्रहनिग्रहविधानाये। लूकादितदनुरूपशरीरनानात्वकथनं न युक्तिपथप्रस्थायि स्यात् । यदि पुनर्न देहांतराद्विना स्वदेहं जनयेत्, नापि देहांतरात्, स्वयमीश्वरस्य सवर्था देहाविधानादिति मदं तदपि दूषयन्नाह - स्वयं देहाविधाने तु तेनैव व्यभिचारिता । कार्यत्वादेः प्रयुक्तस्य हेतोरीश्वरसाधने ॥ २० ॥ यदि हश्वरो न स्वयं स्वदेहं विधत्ते तदाऽसौ तद्देहः किं नित्यः स्यादनित्यो वा न तावन्नित्यः `सावयवत्वात् । यत्सावयवं तदनित्यं दृष्टं यथा घटादि । सावयवश्वेश्वरेदहस्तस्मान्न नित्य इति वाधकस`द्भावात् । यदि पुनरनित्यः तदा कार्योऽसौ कुतः प्रादुर्भवेत् । महेश्वरधर्मविशेषादेवेति चेत् ता सर्व प्राणिनां शुभाशुभशरीरादिकार्य तद्धर्माधर्मेभ्य एव प्रादुर्भवेदिति किं कृतमीश्वरेण निमित्तकारणतया परिकल्पितेन । तथा च विवादापन्नं तनुकरणभुवनादिकं बुद्धिमन्निमित्तकं कार्यत्वात् स्वारंभकावयव 'सन्निवेशविशिष्टत्वादचेतनोपादानत्वादित्यादेर्हेतोरीश्वरसाधनाय प्रयुक्तस्येश्वरदेहेन व्यभिचारिता स्यात् तस्यानीश्वरनिमित्तत्वेऽपि कार्यत्वादिसिद्धेरिति ततो नेश्वरसिद्धिः संभाव्यते । सांप्रतं शंकरमतमाशंक्य दूषयन्नाह - यथाsनीशः स्वदेहस्य कर्ता देहांतरान्मतः । पूर्वस्मादित्यनादित्वान्नानवस्था प्रसज्यते ॥ २१ ॥ तथेशस्यापि पूर्वस्माद्देहाद्देहांतरोद्भवात् । नानवस्थेति यो ब्रूयात्तस्याऽनीशत्वमीशितुः ॥ २२ ॥ अनीशः कर्मदेहेनाऽनादिसंतानवर्तिना । यथैव हि सकर्मानस्तदन्न कथमीश्वरः ॥ २३ ॥ १७ १ चिंतनमात्रात् । ३

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182