________________
4
२
सनातन जैन ग्रंथमालायां ।
लक्षणस्य सकलास्तिकप्रसिद्धत्वात् तस्य च सद्भावे बहिरंगस्य सत्यंतरंगे द्रव्यक्रोधादिबंधे भावबंधस्य सद्भावः तदभावेचासद्भावः सिद्ध एवेति मिथ्यादर्शनहेतुको भावबंधः । तद्वदविरतिहेतुकश्च समुत्पन्नसम्यग्दर्शनस्याऽपि कस्यचिदप्रकृष्टो भावबंध: सत्यामविरतौ प्रतीयते एव ततोऽप्यप्रकृष्टो भावबंधः । प्रमादहेतुकः स्यादविरत्यभावेऽपि कस्यचिद्विरतस्य सति प्रमादे तदुपलब्धेः ततोऽप्यप्रकृष्टः । कषायहेतुकः सम्यग्दृष्टेर्विरतस्याऽप्रमत्तस्याऽपि कषायसद्भावे भावात् । ततोऽप्यप्रकृष्टवपुर ज्ञानलक्षणो, भावबंधो योगहेतुकः क्षीणकषायस्याऽपि योगसद्भावे तत्सद्भावात् । केवलिनस्तु योगसद्भावेऽपि न भावबंधः, तस्य जीवन्मुक्तत्वान्मोक्षप्रसिद्धेः । न चैवमेकैकहेतुक एव बंधः पूर्वस्मिन् पूर्वस्मिन्नुत्तरस्योत्तरस्य बंधहेतोः सद्भावात् । कषायहेतुको हि बंधो योगहेतुकोऽपि प्रमादहेतुकच योगकषायहेतुकोऽपेि । अविरतिहेतुकश्च योगकषायप्रमादहेतुकः प्रतीयते । मिथ्यादर्शनहेतुकश्च योगकषायप्रमादाविर तिहेतुकः सिद्ध इति मिथ्यादर्शन। दिपंचविधप्रत्ययसामर्थ्यान्मिथ्याज्ञानस्य बंधहेतोः प्रसिद्धेः षट्प्रत्ययोऽपि बंधोऽभिधीयते । न चायं भावबंधो द्रव्यबंधमंतरेण भवति, मुक्तस्यापि तत्प्रसंगादिति द्रव्यबंध: सिद्धः । सोऽपि भिध्यादर्शनाविरतिप्रमादकषाययोगहेतुक एव बंधत्वाद्भावबंधवदिति मिथ्यादर्शनादिबंधहेतुः सिद्धः । तदभावः कुतः सिद्धयेदिति चेत् तत्प्रतिपक्षभूतसम्यग्दर्शना दिसात्मीभावात् । सति हि सम्यग्दर्शने मिथ्यादर्शनं निवर्तते तद्विरुद्धत्वात् । यथोष्णस्पर्शे सति शीतस्पर्श इति प्रतीतं । तथैवाऽविरतिर्विरत्यां सत्यामपैति । प्रमादश्चाप्रमादपरिणतौ कषायोऽकषायतायां योगश्चायोगतायामिति बंधहेत्वभावः सिद्धोऽपूर्वकर्मणां आस्रवनिरोधः संवर, इति वचनात् । ननु च स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचरित्रेभ्यो भवतीति सूत्रकारमतं न पुनः सम्यग्दर्शनादिभ्य इति न मंतव्यं । गुप्त्यादीनां सम्यग्दर्शनाद्यात्मकत्वात् । न हि सम्यग्दर्शनरहिता गुप्त्यादयः संति सम्यग्ज्ञानरहिता वा तेषामपि विरत्यादिरूपत्वात् । चारित्रभेदा ह्येते प्रमादरहिताः कषायरहिताश्चायोगतामपि लभंते । ततो न कश्चिद्दोषः । कथमात्मनः पूर्वोपात्तकर्मणां निर्जरा सिद्ध्येदित्यभिधीयते । क्वचिदात्मनि कात्स्यर्नतः पूर्वोपात्तानि कर्माणि निर्जीर्यते तेषां विपाकांतत्वात् । यानि तु न निर्जीर्यते तानि न विपाकांत यथा कालादीनि, विपाकांतानि च कर्माणि तस्मान्निर्जीर्यते । विपाकांतत्वं नासिद्धं कर्मणां । तथा हि विपाकांतानि कर्माणि फलावसानत्वाद्वह्यादिवत् । तेषामन्यथा नित्यत्वानुषंगात् । न च नित्यानि कर्माणि नित्यं तत्फलानुभवन प्रसंगात् । यत्र चात्मविशेषे अनागतकर्मबंधहेत्वभावादपूर्वकमनुत्पत्तिस्तत्र पूर्वोपात्तकर्मणां यथाकालमुपक्रमाच्च फलदानात्कात्स्य्र्तेन निर्जरा प्रसिद्वैव । ततः कृत्स्नबंधहेत्वभावनिर्जरावत्त्वं साधनं प्रसिद्धं कृत्स्नकर्मविप्रमोक्षं साधयत्येव । ततस्तल्लक्षणं परं निःश्रेयसं व्यवतिष्ठते । तथाऽत्यलक्षणमपरं सुनिश्चितासंभवद्बाधकप्रमाणत्वात् सुखादिवदिति सर्वज्ञत्वसिद्धौ निर्णेष्यते । श्रेयसो मार्गः श्रेयोमार्गो निःश्रेयसोपायो वक्ष्यमाणलक्षणस्तस्य संसिद्धिः संप्राप्तिः सम्यग्ज्ञप्तिर्वा सा हि परमेष्ठिनः प्रसादाद्भवति मुनिपुंगवानां यस्मात्तस्मात्ते मुनिपुंगवाः सूत्रकारादयः शास्त्रस्यादौ तस्य परमेष्ठिनो गुणस्तोत्रमाहुरिति संबंध: । परमेष्ठी हि भगवान् परमोऽईन् तत्प्रसादात्परमागमार्थनिर्णयोपरस्य परमेष्ठिनो गणधरदेवादेः संपद्यते तस्माच्चापरपरमेष्ठिनः परमागमशब्दसंदर्भों द्वादशांग इति । परापरपरमेष्ठिभ्यां परमागमार्थशब्दशरीरसंसिद्धिस्तद्विनेयमुख्यानां तेभ्यश्च स्वशिष्याणामिति गुरुपूर्वक्रमात्सूत्रकाराणां परमेष्ठिनः प्रसादात्प्रधानभूतपरमार्थस्य श्रेयोमार्गस्य संसिद्धिरभिधीयते । प्रसादः पुनः परमेष्ठिनस्तद्विनेयानां प्रसन्न मनोविषयत्वमेव वीतरागाणां तुष्टिलक्षणप्रसादासंभवात्कोपासंभववत् । तदाराधकजनैस्तु प्रसन्नेन मनसोपास्यमानो भगवान् प्रसन्न इत्यभिधीयते रसायनवत् । यथैव हि प्रसन्नेन मनसा रसायनमासेव्य तत्फलमवाप्नुवंतः संतो रसायनप्रसादादिदमस्माकमारोग्यादिफलं समुत्पन्नमिति प्रतिपद्यते तथा प्रसन्नेन मनसा भगवंतं परमेष्ठिनमुपास्य तदुपासनफलं श्रेयोमार्गाधि