________________
आप्तपरीक्षा ।
I
गमलक्षणं प्रतिपद्यमानास्तद्विनेयजना भगवत्परमेष्ठिनः प्रसादादस्माकं श्रेयोमार्गाधिगमः सम्पन्न इति समनुमन्यंते । ततः परमेष्ठिनः प्रसादात्सूत्रकाराणां श्रेयोमार्गस्य संसिद्धेर्युक्तं शास्त्रादौ परमेष्ठिगुणस्तोत्रं । मंगलार्थं तदित्येके । तेऽप्येवं प्रष्टव्याः । किं साक्षान्मंगलार्थ परमेष्ठिगुणस्तोत्रं परंपरया वा । न तावत्साक्षात्तदनंतरमेव मंगलप्रसंगात् । कस्यचिदपि मंगलानवाप्ययोगात् । परंपरया चेत् न किंचिदनिष्टं । परमेष्ठिगुण स्तोत्रादात्म विशुद्धिविशेषः प्रादुर्भवन् धर्मविशेषं स्तोतुः साधयत्येवाऽधर्मप्रध्वसं च । ततो मंगं सुखं समुत्पद्यत इति तद्गुणस्तोत्रं मंगलं मंगं लातीति मंगलमिति व्युत्पत्तेः । मढं गालयतीति मंगलमिति वा । मलस्याधर्मलक्षणस्य परंपरया तेन प्रध्वंसनात् । केवलं सत्पात्रदानजिनेंद्रार्चनादिकमप्येवं मंगलमिति न तद्गुणस्तोत्रमेव मंगलमिति नियमः सिद्ध्यति । स्यान्मतं मंग श्रेयोमार्गसंप्राप्तिननितं प्रशमसुखं तल्लात्यस्मात्परमेष्ठिगुणस्तोत्रात्तदराधक इति मंगलं परमेष्ठिगुणस्तोत्रं । मलं वा श्रेयोमार्गसंसिद्धौ विघ्ननिमित्तं पापं गालयतीति मंगलं तदिति । तदेतदनुकूलं नः परमेष्ठिगुणस्तोत्रस्य परममंगलत्वप्रतिज्ञानात् । तदुक्तं
" आदौ मध्येऽवसाने च मंगलं भाषितं बुधैः । तज्जिनेंद्रगुणस्तोत्रं तदविघ्नप्रसिद्धये " ।।
ननु चैवं भगवद्गुणस्तोत्रं स्वयं मंगलं न तु मंगलार्थमिति न मंतव्यं । स्वयं मंगलस्यापि मंगलार्थत्वोपपत्तेः । यदा हि मलगालनलक्षणं मंगलं तदा सुखादानलक्षणमंगलाय तद्भवतीति सिद्धं मंगला । यदापि सुखादानलक्षणं तन्मंगलं तदा पापगालनलक्षणमंगलाय प्रभवतीति कथं न मंगलार्थ । बदाप्येतदुभयलक्षणं मंगलं तदा तु मंगलांतरापेक्षया मंगलार्थं तदुपपद्यत एव आनिःश्रेयसप्राप्तेः परापरमंगलसंततिप्रसिद्धेरित्यलं विस्तरेण । शिष्टाचारपरिपालनार्थं नास्तिकतापरिहारार्थं निर्विघ्नतः शास्त्रपरिसमाप्त्यर्थं च परमेष्ठिगुणस्तोत्रमित्यन्ये । तेऽपि तदेव तथेति नियमयितुमसमर्था - एव । तपश्चरणादेरपि तथात्वप्रसिद्धेः । न हि तपश्चरणादिः शिष्टाचारपरिपालनाद्यर्थं न भवतीति शक्यं वक्तुं । यदि पुनरनियमेन भगवद्गुणसंस्तवनं शिष्टाचारपरिपालनाद्यर्थमभिधीयते तदा तदेव शास्त्रादौ शास्त्रकारैः कर्तव्यमिति नियमो न सिद्ध्यति । न च क्वचित्तन्न क्रियते इति वाच्यं । तस्य शास्त्रे निबद्धस्यानिबद्धस्य वा वाचिकस्य मानसस्य वा विस्तरतः संक्षेपतो वा शास्त्रकारैरवश्यं करणात् । तदकरणे तेषां तत्कृतोपकारविस्मरणादसाधुत्वप्रसंगात् । साधूनां कृतस्योपकारस्याविस्मरणप्रसिद्धेः । ‘न हि कृतमुपकारं साधवो विस्मरंति' इति वचनात् । यदि पुनः स्वगुरोः संस्मरणपूर्वकं शास्त्रकरणमेवोपकारस्तद्विनेयानामिति मतं । तदा सिद्धं परमेष्ठिगुणस्तोत्रं स्वगुरोरेव परमेष्ठित्वात् । तस्य गुरुत्वेन संस्मरणस्यैव तद्गुणस्तोत्रत्वसिद्धेरित्यलं विवादेन । किं पुनस्तत्परमेष्ठिनो गुणस्तोत्रं शास्त्रादौ सूत्रकाराः प्राहुरिति निगद्यते -
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृतां । ज्ञातारं विश्वतश्वानां वंदे तद्गुणलब्धये ॥ १॥
अत्र मोक्षमार्गादिपदानामर्थः पुरस्ताद्वक्ष्यते । वाक्यार्थस्तूच्यते । मोक्षमार्गस्य नेतारं कर्मभूभृतां भेत्तारं विश्वतत्त्वानां ज्ञातार महं वंदे तद्गुणलब्ध्यर्थित्वात् । यो यद्गुणलब्ध्यर्थी स वंदमानो दृष्टः । यथा शास्त्रविद्यादिगुणलब्ध्यर्थी शास्त्रविद्यादिविदं तत्प्रणेतारं च । तथा चाहं मोक्षमार्गप्रणेतृत्व कर्मभूभृद्भेतृत्वविश्व तत्त्वज्ञा तृत्वगुणलब्ध्यर्थी । तस्मान्मोक्षमार्गस्य नेतारं कर्मभूभृतां भेत्तारं विश्वतत्त्वानां ज्ञातारं वंदे इति शास्त्रकारः शास्त्रप्रारंभे श्रोता तस्य व्याख्याता वा भगवंतं परमेष्ठिनं परमपरं च मोक्षमार्गप्रणेतृत्वादिभिर्गुणैः संस्तौति । तत्प्रसादाच्छ्रेयोमार्गस्य संसिद्धेः समर्थनात् । किमर्थं पुनरिदं भगवतोऽसाधारणं विशेषणं मोक्षमार्गप्रणेतृत्वं कर्मभूभृद्भेतृत्वं विश्वस्वज्ञातृत्वं चात्र प्रोक्तं भगवद्भिरित्याह