________________
सनातनजैनग्रंथमालायां । इत्यसाधारणं प्रोक्तं विशेषणमशेषतः ।
परसंकल्पिताप्तानां व्यवच्छेदप्रसिद्धये ॥३॥ परैवैशेषिकादिभिः संकल्पिताः परसंकल्पितास्ते च ते आप्ताश्च परसंकल्पिताप्ता महेश्वरादयः तेषामशेषतो व्यवच्छेदप्रसिद्ध्यर्थ यथोक्तमसाधारणं विशेषणमाचार्यैः प्रोक्तमिति वाक्यार्थः । न हीदमीश्वरकपिलसुगतादिषु संभवति बाधकप्रमाणसद्भावात् । भगवत्यहत्येव तत्सद्भावसाधनाचासाधारणविशेषणमिति वक्ष्यामः । ननु चेश्वरादीनामप्याप्तत्वे किं दूषणं येन तद्व्यवच्छेदार्थमसाधा रणं विशेषणं प्रोच्यते किं वान्ययोगव्यवच्छेदान्महात्मनि परमेष्ठिनि निश्चिते प्रतिष्ठितं स्यादित्यारेकायामिदमाह--
अन्ययोगव्यवच्छेदानिश्चिते हि महात्मनि ।
तस्योपदेशसामर्थ्यादनुष्ठानं प्रतिष्ठितं ॥४॥ ___ भवेदिति क्रियाध्याहारः । ननु चात्रान्येषामन्ययोगव्यवच्छेदाभावेऽपि भगवतः परमेष्टिनस्तत्वोपदेशादनुष्ठानं प्रतिष्ठामियत्येव तेषामविरुद्धभाषित्वादिति चेत् न । परस्परविरुद्धसमयप्रणयनात् तत्त्वनिश्चयायोगात् तदन्यतमस्याप्युपदेशप्रामाण्यानिश्चयादनुष्ठानप्रतिष्ठानुपपत्तेः । ननु मोक्षोपायानुष्ठानोपदेशमाने नेश्वरादयो विप्रपद्यते ततोऽहंदुपदेशादिवेश्वराद्युपदेशादपि नानुष्ठानप्रतिष्ठानुपपना यतस्तव्यवच्छेदेन परमेष्ठी निश्चीयत इति कश्चित् । सोऽपि न विशेषज्ञः सम्यग्मिथ्योपदेशविशेषाभावप्रसंगात् । स्यान्मतं । वैशेषिकैरभिमतस्याप्तस्य निःश्रेयसोपायानुष्ठानोपदेशस्तावत्समीचीन एव बाधकप्रमाणाभावात् । श्रद्धाविशेषोपगृहीतं हि सम्यग्ज्ञानं वैराग्यनिमित्तं परां काष्ठामापनमंत्यनिःश्रेयसहेतुरित्युपदेशः । तत्र श्रद्धाविशेषस्तावदुपादेयेषूपादेयतया हेयेषु हेयतयैव श्रद्धानं । सम्यग्ज्ञानं पुनर्यथावस्थितार्थाधिगमलक्षणं, तद्धेतुकं च वैराग्यं रागद्वेषप्रक्षयः एतदनुष्ठानं च तद्भावनाभ्यासस्तस्यैतस्य निःश्रेयसोपायानुष्ठानस्योपदेशो न प्रत्यक्षेण बाध्यते । जीवन्मुक्तेस्तत एव प्रत्यक्षतः कश्चित् (केषांचित्) स्वयं संवेदनात् । परैः संहर्षायासविमुक्तेरनुमीयमानत्वात् । जीवन्नेव हि विद्वान् संहर्षायासाभ्यां विमुच्यत इत्युपदेशाच्च नानुमानागमाभ्यां बाध्यते जीवन्मुक्तिवत् । परममुक्तेरप्यत एवानुष्ठानात् संभावनोपपत्तेः । नचान्यत्प्रमाणं बाधकं तदुपदेशस्य तद्विपरीतार्थव्यवस्थापकत्वाभावादिति । तदपि न विचारक्षम । श्रद्धादिविशेषविषयाणां पदार्थानां यथावस्थितार्थत्वासंभवात् । द्रव्यादयो हि षट्पदार्थास्तावदुपादेयाः सदात्मानः प्रागभावादयश्चासदात्मानस्ते च यथा वैशेषिकैावर्ण्यते तथा न यथार्थतया व्यवतिष्ठते तद्ग्राहकप्रमाणाभावात् । द्रव्यं हि गुणादिभ्यो भिन्नमेकं, गुणश्चेतरेभ्यो भिन्न एकः, कर्म चैकमितरेभ्यो भिन्नं, सामान्यं चकं, विशेषश्चैक: पदार्थः समवायवत् यद्यभ्युपगम्यते तदा द्रव्यादयः षट्पदार्थाः सिद्ध्येयुः । न च द्रव्यपदस्यैकोऽर्थः परैरिष्यते गुणपदस्य कर्मपदस्य सामान्यपदस्य विशेषपदस्य च, यथा समवायपदस्यैकः समवायोऽर्थः इति कथं षट्पदार्थव्यवस्थितिः । स्यान्मतं । पृथिव्यप्तेजावाय्वाकाशकालादगात्ममनांसि नव द्रव्याणि द्रव्यपदस्यार्थ इति कथमेको द्रव्यपदार्थः ? सामान्यसंज्ञाभिधानादिति चेत् न । सामान्यसंज्ञायाः सामान्यवद्विषयत्वात् । तदर्थस्य सामाम्यपदार्थत्वे ततो विशेषेष्वप्रवृत्तिप्रसंगात् । * द्रव्यपदार्थस्यैकस्यासिद्धेश्च । पृथिव्यादिषु हि द्रव्यामिति संज्ञा द्रव्यत्वसामान्यसंबंधनिमित्ता। तत्र द्रव्यत्वमेकं न द्रव्यं किंचिदेकमस्ति । द्रव्यलक्षणमेकमिति प्रेत् तत्किमिदानी द्रव्यपदार्थोऽस्तु न चैतद्युक्तं लक्ष्यस्य द्रव्यस्याभावे तल्लक्षणानुपपत्तेः । पृथिव्यादीनि
* सामान्यरूप-द्रव्यपदार्थ