________________
आप्तपरीक्षा। लक्ष्याणि क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणं यदि प्रतिज्ञायते । तदानेकत्र लक्ष्ये लक्षणं कथमेकमेव प्रयुज्यते तस्य प्रतिव्यक्तिभेदात् । न हि यदेव पृथिम्यां द्रव्यलक्षणं तदेवोदकादिष्वस्ति वस्यासाधारणरूपत्वात् । यदि पुनद्रव्यलक्षणं पृथिव्यादीनां गुणादिभ्यो व्यवच्छेदकतया तावदसाधारणो धर्मःपृथिव्यादिषु नवस्खपि सद्भावात्साधारणः कथमन्यथातिव्याप्त्यव्याप्ती लक्षणस्य निराक्रियेते सकललक्ष्यवस्तुषु हि व्यापकस्य लक्षणस्याव्याप्तिपरिहारस्तदलक्ष्येभ्यश्च व्यावृत्तस्यातिव्याप्तिपरिहारः । सकलैर्लक्ष्यलक्षणहरभिधीयते नान्यथेति मतिः । तदापि नैको द्रव्यपदार्थः सिद्ध्यति । द्रव्यलक्षणादन्यस्य लक्ष्यस्य द्रव्यस्यैकस्यासंभवात् । नवापि पृथिव्यादीनि द्रव्याण्येकलक्षणयोगादेको द्रव्यपदार्थ इति चेत् न । तथोपचारमात्रप्रसंगात् । पुरुषो यष्टिरिति यथा यष्टिसाहचर्याद्धि पुरुषो यष्टिरिति कथ्यते न पुनः स्वयं यष्टिरित्युपचारः प्रसिद्ध एव तथा पृथिव्यादिरनेकोऽपि स्वयमेकलक्षणयोगादेक उपचर्यते न तु स्वयमेक इत्यायातं । न च लक्षणमप्येकं पृथिव्यादिषु पंचसु क्रियावत्स्वेव क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणस्य भावात् निःक्रियेष्वाकाशकालदिगात्मसु क्रियावत्त्वस्याभावात् । गुणवत्समवायिकारणमित्येतावन्मात्रस्य ततोऽन्यस्य द्रव्यलक्षणस्य सद्भावात् लक्षणद्वयस्य प्रसिद्धः । तथा च द्रव्यलक्षणद्वययोगात् द्वावेव द्रव्यपदार्थों स्यातां । यदि पुनईयोरपि द्रव्यलक्षणयोर्द्रव्यलक्षणत्वाविशेषादेकं द्रव्यलक्षणमित्युच्यते तदापि किं तद्रव्यलक्षणयोर्द्रव्यलक्षणत्वमेकं न तावत्सामान्य तस्य द्रव्यगुणकर्माश्रयत्वात् । न चैते द्रव्यलक्षणे । द्रव्ये खेष्टविघातात् । नापि गुणौ। द्रव्याश्रयी अगुणवान् संयोगविभागेष्वप्यकारणमनपेक्ष इति गुणलक्षणाभावात् । प्रत्ययात्मकत्वात्तयोर्गुणत्वमिति चेत् न । प्रत्ययात्मनोर्लक्षणयोः पृथिव्यादिष्वसंभवात् । तयोस्तदसाधारणधर्मत्वासंभवादेतेनाभिधानात्मनोईव्यलक्षणयोर्गुणत्वं प्रत्याख्यातं । नापि ते कर्मणी । परिस्पंदात्मकत्वासंभवादेकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणस्याभावाच्च । तयोरेकद्रव्यत्वे नवविधत्वप्रसंगाद्व्यलक्षणस्य कुतो द्वित्वमेकत्वं वा व्यवतिष्ठते। यतो द्रव्यलक्षणत्वमेकं तत्र प्रवर्तमानमेकत्वं व्यवस्थापयेत्तथोपचरितोपचारप्रसंगश्च द्रव्यलक्षणत्वेनैकेन योगाव्यलक्षणयोरेकत्वादेकं द्रव्यलक्षणं तेन चोपचरितेन द्रव्यलक्षणेनैकेन योगात्पृथिव्यादीन्येको द्रव्यपदार्थ इति कुतः पारमार्थिको द्रव्यपदार्थः कश्चिदेकः सिद्ध्येत् । यदप्यभ्यधायि वैशेषिकैः पृथिव्यादीनां नवानां द्रव्यत्वेनैकेनाभिसंबंधादेकत्वमिति द्रव्यं नामैकः पदार्थ इति तदपि न युक्तं । परमार्थतो द्रव्यपदार्थस्यै कस्यासिद्धेः तस्योपचारादेव प्रसिद्धः । एतेन चतुर्विशतिगुणानां गुणत्वेनैकेनाभिसंबंधादेको गुणपदार्थः, पंचानां च कर्मणां कर्मत्वेनैकेनाभिसंबंधादेकः कर्मपदार्थ इत्येतत्प्रत्याख्यातं । तथा वास्तवगुणकर्मपदार्थाव्यवस्थितेः कथं चैवं सामान्यपदार्थ एकः सिद्धयेद्विशेषपदार्थो वा समवायपदार्थो वा। परापरसामान्ययोः सामान्यांतरेणैकेनाभिसंबंधायोगाद्विशेषाणां घेति समवाय एवैकः पदार्थः स्यात् । यदि पुनर्यथेहेदमिति प्रत्ययाविशेषाद्विशेषप्रत्ययाभावादेकः समवायः तथा द्रव्यमिति प्रत्ययाविशेषादेको द्रव्यपदार्थः स्यात् गुण इति प्रत्ययाविशेषाद्गुणपदार्थः । कर्मेति प्रत्ययाविशेषाकर्मपदार्थः सामान्यमिति प्रत्ययाविशेषात्सामान्यपदार्थः विशेष इति प्रत्ययाविशेषाद्विशेषपदार्थ इत्यभिधीयते, तथापि वैशेषिकतंत्रव्याघातो दुःशक्यः परिहतु स्याद्वादिमतस्यैवं प्रसिद्धेः । स्याद्वदिनां हि शुद्ध संग्रहनयात्सत्प्रत्ययाविशेषाद्विशेषलिंगाभावादेकं सन्मानं तत्त्वं शुद्धं द्रव्यमिति मतं । तथैवाशुद्धसंग्रहनयादेकं द्रव्यमेको गुणादिरिति, व्यवहारनयात्तु यत्सत्तद् द्रव्यं पर्यायो वेति भेदः । यद्रव्यं तज्जीवद्रव्यमजीवद्रव्यं च यश्च पर्यायः सोऽपि परिस्पंदात्मकोऽपरिस्पंदात्मकश्चेति सोऽपि सामान्यात्मको विशेष त्मकश्चेति । स च द्रव्यादविष्वग्भूतो विष्वग्भूतो वेति यथा प्रतीतिनिश्वीयते सर्वथा बाधकाभावात् । वैशेषिकाणां तु तथाऽभ्युपगमो व्याहत एव तंत्रविरोधात् । न हि तत्तंत्रे सन्मात्रमेव तत्त्वं सकलपदार्थानां तत्रैवांतर्भावादिति नयोऽस्ति । स्यान्मतं । द्रव्यपदेन सकलद्रव्य