________________
सनातन जैन ग्रंथमालायां ।
1
व्यक्तिभेदप्रभेदानां संग्रहादेको द्रव्यपदार्थः गुण इत्यादिपदेन चैकेन गुणादिभेदप्रभेदानां संग्रहाद्गुणादिरप्येकैकपदार्थो व्यवतिष्ठते “ विस्तरेणोपदिष्टानामर्थानां तत्त्वसिद्धये । समासेनाभिधानं यत्सं तं विदुर्बुधाः" इति ॥ पदार्थधर्मसंग्रहः प्रवक्ष्यत इत्यत्र पदार्थसंग्रहस्य धर्मसंप्रहस्य चैवं व्याख्यानादस्त्येव तथाऽभिप्राय वैशेषिकाणामिति । तदप्यविचारितरम्यं । परमार्थतस्तथैकैकस्य द्रव्यादिपदार्थस्य प्रतिष्ठानुपपत्तेः । तस्यैकपदविषयत्वेनैकत्वोपचारात् । न चोपचरितपदार्थसंख्याव्यवस्थायां पारमार्थिकी पदार्थसंख्या समवतिष्ठतेऽतिप्रसंगात् । न चैकपदवाच्यत्वेन तात्त्विकमेकत्वं सिद्ध्यति व्यभिचारात्सेनावनादिपदेन हस्त्यादिधवादिपदार्थस्यानेकस्य वाच्यस्य प्रतीतेः । ननु सेनापदवाच्य एक एवार्थः प्रत्यासत्तिविशेषः संयुक्तसंयोगाल्पीयस्त्वलक्षणो हस्त्यादीनां प्रतीयते, वनशब्देन च धवादीनां तादृशप्रत्यासत्तिविशेष इत्येकपदवाच्यत्वं न तात्त्विकीमेकतां व्यभिचरति । तथा चैवमुच्यते द्रव्यमित्येकः पदार्थः एकपदवाच्यत्वात् यद्यदेकपदवाच्यं तत्तदेकपदार्थो यथा सेना वनादिस्तथा श्च द्रव्यमेकपदवाच्यं तस्मादेकः पदार्थः । एतेन गुणादिरप्येकः पदार्थः प्रसिद्धोदाहरणसाधर्म्यात्साधितो वेदितव्य इति कश्चित् सोऽपि न विपश्चित् । सेनाशब्दादनेकत्र हस्त्याद्यर्थे प्रतीतिप्रवृत्तिप्राप्तिसिद्धेः । वनशब्दाश्च धवखदिरपलाशादावनेकत्रार्थे । यत्र हि शब्दात्प्रतीतिप्रवृत्तिप्राप्तयः समधिगम्यते स शब्दस्यार्थः प्रसिद्धस्तथा वृद्धव्यवहारात् । न च सेनावनादिशब्दात्प्रत्यासत्तिविशेषे प्रतीतिप्रवृत्तिप्राप्रयोऽनुभूयते येन स तस्यार्थः स्यात् । प्रत्यासत्तिविशिष्टा हस्त्यादयो धवादयो वा सेनावनादिशब्दानामर्थ इति चेत्सिद्धस्तयैकपदवाच्योऽनेकार्थः । तेन च कथमेकपदवाच्यत्वं न व्यभिचरेत् । तथा गौरिति पदेनैकेन पश्वादेर्दश प्रकारस्यैकादशप्रकारस्य वा वाच्यस्य दर्शनाश्च व्यभिचारी हेतुः । कश्चिदाह न गौरित्येकमेव पदं पश्वादेरनेकस्यार्थस्य वाचकं तस्य प्रतिवाच्यभेदादन्य एव हि गौरिति शब्दः पशोर्वाचकोऽन्यश्च बिगादेः अर्थभेदाच्छब्द भेदव्यवस्थितेः । अन्यया सकलपदार्थस्यैकपदवाच्यत्वप्रसंगादिति । तस्याप्यनिष्टानुषंगः स्यात् । द्रव्यमिति पदस्याप्यनेकत्वप्रसंगात् । पृथिव्याद्यनेकार्थवाचकत्वात् अन्यदेव हि पृथिव्यां द्रव्यमिति पदं प्रवर्तते । अन्यदेवाप्सु तेजसि वाय्वाकाशे काले दिश्यात्मनि मनसि चेत्येकपदवाच्यत्वं द्रव्यपदार्थस्यासिद्धं स्यात् । ननु द्रव्यत्वाभिसंबंध एको द्रव्यपदस्यार्थो नानेकः पृथिव्यादिः तस्य पृथिव्यादिशब्दवाच्यत्वात् । तत एकमेव द्रव्यपदं नानेकमिति चेत् । किमिदानीं द्रव्यत्वाभिसंबंधो द्रव्यपदार्थः स्यात् ? न चासौ द्रव्यपदार्थस्तस्य द्रव्यत्वोपलक्षितसमवायपदार्थत्वात् । एतेन गुणत्वाभिसंबंधो गुणपदस्यार्थः कर्मत्वाभिसंबंध: कर्मपदस्येत्येतप्रतिव्यूढं गुणत्वाभिसंबंधस्य गुणत्वोपलक्षितसमवायपदार्थत्वात् कर्मत्वाभिसंबंधस्य च कर्मत्वोपलक्षितसमवायपदार्थस्य कथनात् । न चैवं सामान्यादिपदार्थः सिद्धयति । सामान्यादिषु सामान्यांतराभिसंबंधस्यासंभवादित्युक्तं प्राक् । एतेन पृथिवीत्वाद्यभिसंबंधात्पृथिवत्यिादिशब्दार्थस्य व्याख्यानं प्रत्यादयासं । न हि पृथिवीत्वाभिसंबंधः पृथिवीशब्दवाच्यः । पृथिवीत्वोपलक्षितस्य समवायस्य पृथिवीत्वाभिसंबंधस्य पृथिवीशब्देनावचनात् । द्रव्यविशेषस्य पृथिवीशब्देनाभिधानाददोष इति चेत् । कः पुनरसौ वृक्षक्षुपादिपृथिवभेदव्यतिरिक्तः पृथिवीद्रव्यविशेषः । पृथिवीति पदेन संगृह्यमाण इति चेत् । कथं पुनः पृथिवीपदेनैकेनानेकार्थः संगृह्यते ? द्रव्यादिपदेनैवेति दुःरवबोधं । कश्चार्य संग्रहो नाम ? शब्दात्मकः प्रत्ययात्मकोऽर्थात्मको वा । न तावच्छब्दात्मकः शब्देनानंतानां द्रव्यादिभेदप्रभेदानां वा संग्रहीतुमशक्यत्वात् । तत्र संकेतस्य कर्तुमशक्यत्वादस्मदादेस्तदप्रत्यक्षत्वात् । क्रमेण युगपद्वा अननुमेयत्वाच्च । न चाप्रत्यक्षेऽननुमेये वा सर्वथाप्यप्रतिपन्नेऽर्थे संकेत: शक्यक्रियोऽस्ति । सर्वज्ञस्तत्र संकेतयितुं समर्थोऽपि नाऽसर्वज्ञान संकेतं प्राहयितुमलमिति कुतः संकेतः । न चासंकेतितेऽर्थे शब्दः प्रवर्तते यतः