________________
नमः सिद्धेभ्यः । सनातनजैनग्रंथमाला।
आचार्यप्रवरश्रीविद्यानंदिस्वामिविरचिता
आप्तपरीक्षा।
प्रबुद्धाशेषतत्त्वार्थबोधदीधितिमालिने ।
नमः श्रीजिनचंद्राय मोहध्वांतप्रभेदिने ॥१॥ कस्मात्पुनः परमेष्ठिनः स्तोत्रं शास्त्रादौ शास्त्रकाराः प्राहुरित्यभिधीयते
श्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः ।
इत्याहुस्तद्गुणस्तोत्रं शास्त्रादौ मुनिपुंगवाः ॥२॥ श्रेयो निःश्रेयस परमपरं च । तत्र परं सकलकर्मविप्रमोक्षलक्षणं बंधहेत्वभावनिर्जराभ्यां कृत्कर्मविप्रमोक्षो मोक्ष इति वचनात् । ततोऽपरमाहत्यलक्षणं घातिकर्मक्षयादनंतचतुष्टयस्वरूपलाभस्यापरनिःश्रेयसत्वात् । न चाऽत्रकस्य चिदात्मावशेषस्य कृत्स्नकर्मविप्रमोक्षोऽसिद्धः साधकप्रमाणसद्भावात् । तथाहि । कश्चिदात्मविशेषः कृत्स्नकर्मभिर्विप्रमुच्यते कृत्स्नबंधहेत्वभावनिर्जरावत्त्वात् । यस्तु न कृत्स्नकर्मभिर्विप्रमुच्यते स न कृत्स्नबंधहेत्वभावनिर्जरावान् यथा संसारी कृत्स्नबंधहेत्वभावनिर्जरावांश्च कश्चिदात्मविशेषस्तस्मात्कृत्स्नकर्मभिर्विप्रमुच्यते । ननु बंध एवात्मनोऽसिद्धस्तद्धेतुश्चेति कुतो बंधहेत्वभाववत्त्वं, प्रतिषेधस्य विधिपूर्वकत्वात् । बंधाभावे च कस्य निर्जरा, बंधफलानुभवनं हि निर्जरा बंधाभावे तु कुतस्तत्फलानुभवनमतः कृत्स्नकर्मनिर्जरावत्त्वमप्यसिद्धं । न चासिद्धं माधनं साध्यसाध. नायालमिति कश्चित्, सोऽप्यनालोचिततत्त्वः प्रमाणतो बंधस्य प्रसिद्धेः । तथा हि । विवादाध्यासितः संसारी बंधवान् परतंत्रत्वादालानस्तंभागतहस्तिवत् । परतंत्रोऽसौ हीनस्थानपरिग्रहवत्त्वात् कामोद्रेकपरतंत्रवेश्यागृहपरिग्रहवच्छोत्रियब्राह्मणवत् । हीनस्थानं हि शरीरं तत्परिग्रहवांश्च संसारी प्रसिद्ध एव । कथं पुनः शरीरं हीनस्थानमात्मन इत्युच्यते । हीनस्थानं शरीरमात्मनो दुःखहेतुत्वात् कस्य चित्कारागृहवत् । ननु देवशरीरस्य दुःखहेतुत्वाभावात् पक्षाव्यापको हेतुरिति चेत् न । तस्यापि मरणे दःखहेतत्वसिद्धेः पक्षव्यापकत्वव्यवस्थानात । तदेवं संक्षेपतो बंधस्य प्रसिद्ध तदेतरपि सिद्धस्तस्याहेतुकत्वे नित्यत्वप्रसंगात् । सतो हेतुरहितस्य नित्यत्वव्यवस्थितेः ‘सदकारणवन्नित्यमिति' परैरभिधानात । तद्धतश्च मिथ्यादर्शनाविरतिप्रमादकषाययोगविकल्पापंचविधः स्यात । बंधो हि संक्षेपतो द्वेधा भावबंधो द्रव्यबंधश्चेति । तत्र भावबंधःक्रोधाद्यात्मकस्तस्य हेतुर्मिथ्यादर्शनं, तद्भावे भावाभावे चाभावात् । कचिदक्रोधादिविषये हि क्रोधादिविषयत्वश्रद्धानं मिथ्यादर्शनं तस्य विपरीताभिनिवेश