Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
आप्तपरीक्षा। संगृह्यतेऽनताः पदार्थाः येन शब्देन स शब्दात्मा संग्रहः सिद्ध्यत्येवं । माभूच्छन्दात्मकः संग्रहः प्रत्ययात्मकस्त्वस्तु । संगृह्यते अर्था येन प्रत्ययेन स संग्रह इति व्याख्यानात्तेन तेषां संग्रहीतुं शक्यत्वादिति चेत् । कुतः पुनरसौ प्रत्ययः प्रत्यक्षादनुमानादागमाद्वा ? न तावदस्मदादिप्रत्यक्षात् । तस्यानंतद्रव्यादिभेवप्रभेदागोचरत्वात् । नापि योगिप्रत्यक्षात् । योगिन एव तत्संग्रहप्रसंगादस्मदादीनां तदयोगात् । न हि योगिप्रत्यक्षादस्मदादयः संप्रतियंति योगित्वप्रसंगात् । नाप्यनुमानादनंतद्रव्यादिभेदप्रभेदप्रतिबद्धानामेकशोऽनंतलिंगानामप्रतिपत्तेरस्मदाद्यप्रत्यक्षादनुमानांतरात्तल्लिंगप्रतिपत्तावनवस्थानुषंगात् प्रकृतानुमानोदयायोगात् । यदि पुनरागमात्संग्रहात्मकः प्रत्ययः स्यात्तदा युक्त्यानुगृहीतात्तयाऽननुगृहीताद्वा । न तावदाद्यः पक्षस्तत्र युक्तेरेवासंभवात् । नापि द्वितीयो युक्त्याऽननुगृहीतस्यागमस्य प्रामाण्यानिष्टेस्तदिष्टौ वाऽतिप्रसंगात् । न चाप्रमाणकः प्रत्ययः संग्रह स्तेन संगृहीतानामसंगृहीतकस्पनात् । यदि पुनरात्मकः संग्रहोऽभिधीयते तदा संग्रह्यत इति संग्रहः संग्रह्यमाणः सकलोऽर्थः स्यात् । स चासिद्ध एव तव्यवस्थापकप्रमाणाभावादिति कथं तस्य व्याख्थानं युज्यते यतः पदार्थधर्मसंग्रहः प्रवक्ष्यत इति प्रतिज्ञासाधीयसीष्यते । संग्रहाभावे च कस्य महोदयत्वं साध्यतेऽसिद्धस्य स्वयमन्यसाधनत्वोपपत्तेः । एतेन पदार्थधर्मसंग्रहः सम्यग्ज्ञानमिति व्याख्यानं प्रतिव्यूढं । तदभावस्य समर्थनान्महतो निःश्रेयसस्याभ्युदयस्य चोदयोऽस्मादिति महोदय इत्येतद्व्याख्यानं बंध्यासुतसौभाग्यादिव्यावर्णन मिव प्रेक्षावतामुपहासास्पदमाभासते । तदेवं द्रव्यादि पदार्थानां यथावस्थितार्थत्वाभावान्न तद्विषयं सम्यग्ज्ञानं नापि हेयोपादेयव्यवस्था । येनोपादेयेषूपादेयत्वेन हेयेषु च हेयत्वेन श्रद्धानं श्रद्धाविशेषस्तत्पूर्वकं च वैराग्यं तदभ्यासभावनानुष्ठानं निःश्रेयसकारणं सिध्येत् । तदसिद्धौ च कथमईदुपदेशादिवेश्वरोपदेशादप्यनुष्ठानं प्रतिष्ठितं स्यात् । ततस्तद्व्यवच्छेदादेव महात्मा निश्चेतव्यः । कपिलसुगतव्यवच्छेदादिवेति सूक्तमिदमन्ययोगव्यवच्छेदान्महात्मनि निश्चितं तदुपदेशसामर्थ्यादनुष्ठानप्रतिष्ठितं स्यादिति । एतेन 'प्रणम्यहेतुमीश्वरं मुनि कणादमन्वतः ' इति परापरगुरुनमस्कारकरणमपास्तमीश्वरकणादयोराप्तत्वव्यवच्छेदात् । तयोर्यथाव्यवस्थितार्थज्ञानाभावात्तदुपदेशाप्रामाण्यादित्यलं विस्तरेण । विश्वतत्त्वानां ज्ञातुः कर्मभूभृतां भेत्तुरेव मोक्षमार्गप्रणयनोपपत्तेराप्तत्वनिश्चयात् ॥४॥
तत्रासिद्धं मुनींद्रस्य भेत्तृत्वं कर्मभूभृतां ।
ये वदंति विपर्यासात्तान्प्रत्येवं प्रचक्ष्महे ॥ ५॥ तत्र तेषु मोक्षमार्गप्रणेतृत्वकर्मभूभृद्भत्तृत्वविश्वतत्त्वज्ञातृत्वेषु कर्मभूभृतांभेत्तृत्वमसिद्धं । मुनीद्रस्य विपर्यासात्तदभेत्तृत्वात् कर्मभूभृदसंभवात्सदाशिवस्य ये वदंति योगास्तान्प्रत्येवं वक्ष्यमाणप्रकारेण प्रवक्ष्महे प्रवदाम इत्यर्थः ॥५॥
प्रसिद्धः सर्वतत्त्वज्ञस्तेषां तावत्प्रमाणतः ।
सदाविध्वस्तनिःशेषबाधकात्स्वसुखादिवत् ॥ ६ ॥ यदि नाम विश्वतत्त्वज्ञः प्रमाणात्सर्वदा विध्वस्तबाधकादात्मसुखादिवत्प्रसिद्धो योगानां तथापि किमिष्टं भवतां सिद्धं भवेदित्याह
ज्ञाता यो विश्वतत्त्वानां स भेत्ता कर्मभूभृतां । भवत्येवान्यथा तस्य विश्वतत्त्वज्ञता कुतः ॥ ७ ॥ इति।

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182