Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 25
________________ ११ आप्तपरीक्षा। घटनात् । न च यावत्सु देशेषु यावंति कार्याणि संभूष्णूनि तावत्यः सिसृक्षास्तस्येश्वरस्य सकृदुपजायंत इति वक्तुं शक्यं युगपदनेकेच्छाप्रादुर्भावविरोधादस्मदादिवत् । यदि पुनरेकैव महेश्वरसिमृक्षा युगपन्नानादेशकार्ये जननाय प्रजायत इतीप्यते तदा क्रमतोऽनेकतन्वादिकार्योत्पत्तिविरोधस्तादच्छायाः शश्वदभावात् । अथ मतमेतत् यत्र यदा यथा यत् कार्यमुत्पित्सु तत्र तदा तथा तदुत्पादनेच्छा महेश्वरस्यैकैव तादृशी समुत्पद्यते ततो नानादेशेष्वेकदशे च क्रमेण युगपच्च तादृशमन्यादृशं च तन्वादिकार्य प्रादुर्भवन्नविरुध्यत इति तदप्यसंभाव्यं कचिदकत्र प्रदेशे समुत्पन्नायाः सिमृक्षाया दविष्टदेशेषु विभिन्नेषु नानाविधेषु नानाकार्यजनकत्वविरोधात् अन्यथा तदसर्वगतत्वेऽपि देशव्यतिरेकानुपपत्तेः । यदि हि यद्दशा सिसृक्षा तद्देशमेव कार्यजन्म नाऽन्यदेशमिति व्यवस्था स्यात्नदा देशव्यतिरेक: सिद्ध्येनान्यथेति सिसृक्षाया न व्यतिरेकोपलंभो महश्वरवत् । व्यतिरेकाभावे च नान्वयनिश्चयः शक्यः कर्तु सतीश्वरे तन्वादिकार्याणां जन्मत्यन्वयो हि पुरुषांतरेष्वपि समानः । तेष्वपि सत्सु तन्वादिकार्योत्पत्तिसिद्धेः । न च तेषां सर्वकार्यात्पत्ती निमित्तकारणत्वं दिक्क लाकाशानामिव संमतं । परेषां सिद्धांत विरोधान्महेश्वरनिमित्तकारणत्ववैयर्थ्याच्च । यदि पुनस्तेषु पुरुषांतरषु सत्स्वपि कदाचित्तन्वादिकार्यानुत्पत्तिदर्शनान्न तन्निमित्तकारणत्वं तदन्वयाभावश्चति मतं तदेश्वरे सत्यपि कदाचित्तन्वादिकार्यानुत्पतेरीश्वरस्यापि तन्निमित्तकारणत्वं माभूत् । तदन्वयासिद्धिश्च तद्वदायाता । एतेनेश्वरसिसृक्षायां नित्यायांसत्यामपि तन्वादिकार्याजन्मदर्शनादन्वयाभावः साधितः । कालादीनां च तेषु सत्स्वपि सर्वकार्यानुत्पत्तेः । स्यान्मतं सामग्रीजनिका कार्यस्य नैकं कारणं ततस्तदन्वयव्यतिरेकावेव कार्यस्यान्वेषणीयौ नैकेश्वरान्वयव्यतिरेको सामग्री च तन्वादिकार्योत्पत्तौ तत्समवायिकारणमसमवायिकारणं निमित्तकारणं चेति । तेषु सत्सु कार्योत्पत्तिदर्शनादसत्सुचादर्शनादिति सत्यमेतत् । केवलं यथा समवाय्य समवायिकारणानामनित्यानां धर्मादीनां च निमित्त कारणानामन्वयव्यतिरेको प्रसिद्धौ कार्यजन्मनि तथा नेश्वरस्य नित्यसर्वगतस्य तदिच्छाया वा नित्यैकस्वभावाया इति तदन्वयव्यतिरेकानुपलंभः प्रसि. द्धएव । न हि सामग्येकदेशस्यान्वयव्यतिरेकसिद्धौ कार्यजन्मनि सर्वसामग्यास्तदन्वव्यतिरेकसिद्धिरिति शक्यं वक्तुं । प्रत्येकं सामग्येकदेशानां कार्योत्पत्तावन्वयव्यतिरेकनिश्चयस्य प्रेक्षापूर्वकारिभिरन्वेषणात् । पटाद्युत्पत्ती कुविंदादिसामग्येकदेशवत् । यथैव हि तंतुतुरीवेमशलाकादीनामन्वयव्यतिरेकाभ्यां पटस्योत्पत्तिदृष्टा तथा कुविंदान्वयव्यतिरेकाभ्यामपि । तदुपभोक्तृजनादृष्टान्वयव्यतिरेकाभ्यामिवेति सुप्रतीतं । ननु सर्वकार्योत्पत्ता दिक्कालाकाशादिसामग्यन्वयव्यतिरेकानुविधानवदीश्वरादिसामग्यन्वयव्यतिरकानुविधानस्य सिद्धेनं व्यापकानुपलंभः सिद्ध इति चेत् न दिक्कालाकाशादीनामपि नित्यसर्वगतनिरवयवत्वे क्वचिदन्वयव्य तरेकानुविधानायोग दुदाहरणवैषम्यात् तेषामपि हि परिणामित्वे सप्रदेशत्वे च परमार्थतः स्वकार्येत्पत्ती निमित्तत्वसिद्धेः । नन्वेवमीश्वरस्यापि बुद्ध्यादिपरिणामैः स्वतोऽर्थातरभूतैः परिणामित्वात् सकृत्सवमूर्तमद्र्व्यसंयोगनिबंधनप्रदेशसिद्धेश्च तन्व:दिकार्योत्पत्ती निमित्तकारणत्वं युक्तं तदन्वयव्यतिरेकानुबिधानस्य तन्वादेरुपषन्नत्वात् । स्वतो. नीतरभूतैरेव हि ज्ञानादिपरिणामैरीश्वरस्य परिणामित्वं नेष्यते स्वारंभकावयवैश्च सावयवत्वं निराक्रियते । न पुनरन्यथा, विरोधाभावान्न चैवमनिष्टप्रसंगः द्रव्यांतरपरिणामैरपि परिणामित्वाप्रसंगात् तेषां तत्रासमवायात् । ये हि यत्र समवायंति परिणामास्तैरेव तस्य परिणामित्वं । परमाणोश्च स्वारंभकावयवाभावेऽपि सप्रदेशत्वप्रसंगा नानिष्टापत्तये नैयायिकानां । परमाण्वंतरसंयोगनिबंधनस्यैकस्य प्रदेशस्य परमाणोरपीष्टत्वात् । न चोपचरितप्रदेशप्रतिज्ञा आत्मादिष्वेवं विरुद्ध्यते स्वारंभकावयवलक्षणानां प्रदेशानां तत्रोपचरितत्वप्रतिज्ञानात् । मूर्तिमद्व्यसंयोगनिबंधनानां तु तेषां पारमार्थिकत्वात् अन्यथा सर्वमूर्तिमद्व्यसंयोगानां युगपद्भ विनामुपचरितत्वप्रसगात् विभुद्रव्याणां सर्वगतत्वमप्यु

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182