Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521029/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः २९ वि.सं. २०६८ Jain Educatioायणाम् कल्पतरुर्नन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।। शासनसम्राजामिह समुदाये मेरुपर्वतोपम्ये । सङ्कलनम् : कीर्तिelibrary.org Page #2 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः २९ वि.सं. २०६८ उत्तरायणम् शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुर्नन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ सङ्कलनम् : कीर्तित्रयी Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः २९ सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात || वि.सं. २०६८, ई.सं. २०१२ मूल्यम् : रू. १००/ जालपुटसङ्केतः प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष: 079-26622465, 09408637714 सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः" Clo. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 079-26574981 M. 9979852135 email : sheelchandrasuri_darshan@yahoo.com मुद्रणम् : 'क्रिष्ना ग्राफिक्स' नारणपुरा जूना गाम, अमदावाद-३८००१३ दूरभाष : 079 - 27494393 Page #4 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः कीर्तित्रयीभ्यो नमः, २८ तमेऽङ्के मुखपृष्ठस्थां श्रुतदेवताप्रतिकृति विलोक्य, तदनु च तद्विषयकं लेखं पठित्वाऽऽवजितं मे मनः । सादरमनुमोदयामि भवदीयां सूक्ष्मेक्षिकाम् । अज्ञानस्य विश्वकोशः, अनुभूतिः, भोपालवायुदुर्घटना चैते त्रयोऽपि लेखाः चयनेन, प्रस्तुत्या, अनुवादेन च भवतां सम्पादनकौशल्यं अभिव्यञ्जन्ति । भूयो भूयः साधुवादानर्पयन् विरमति वैराग्यरतिविजयः * * * मान्याः सम्पादकवर्याः, सादरं प्रणतयः । सप्तविंशतितमी शाखा विलम्बेनाऽधिगता । अत्र 'प्रास्ताविके' सत्यमभिधीयते । लेखनेऽपि समुत्कृष्टतायाः कोऽपि विवेकः स्यात् । अत्र डा. रामकिशोरमिश्र-अभिराजराजेन्द्रमिश्रादीनां रचनाः प्रसादयन्ति । कलियुगस्य गुणदोषवर्णनं श्रीएच्. वि. नागराजरावस्य 'कलिविमर्शनशतके' विराजते । सर्वथा लज्जां विहाय या नार्यः स्वानि गोपनीयान्यङ्गानि प्रदर्शयन्ति, ता एव तरुणजनानां देवताः । बाला वृद्धाश्चाऽपि तत्सदृशानि दृश्यानि द्रष्टुं वाञ्छन्ति । अतोऽधिकं समाजस्य पतनं किं स्यात् ? 'वयसि गते कः कामविकारः ?' इति शङ्कराचार्यस्य सरस्वती त्वद्य मृषैव भाति । 'न्याय्यात् पथः प्रविचलन्ति पदं न धीराः' - इत्यादयः कथाः सर्वथा पठनीयाः सन्ति । एतासु कथासु नैतिकजीवनस्योत्कृष्टो मानदण्डो विद्यते । एता: कथाः सर्वान् नूतनजीवितस्य प्रेरणां प्रयच्छन्ति । डॉ. रूपनारायणपाण्डेयः प्रयागः Page #5 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः सम्मान्याः, सादरं नमो नमः । भवद्भिः करुणावरुणालयैः प्रेषितो नन्दनवनकल्पतरोः २८तमोऽङ्कोऽद्यैव सम्प्राप्तः । भृशमनुगृहीतोऽस्मि । नूनमयमनेकमनोहरस्तम्भमण्डितदेवप्रासाद इव तत्सेविनां सुमनसां मनांसि सुखयत्याह्लादयति च, तत्र नास्ति मे मनसि शङ्कालेश इति विरमामि । - किशोरचन्द्रपाठकः अमरेली * * * गुरुपदपद्मे रता मान्या कीर्तित्रयी, नमो नमः । 'नन्दनवनकल्पतरुः' प्रेरयति नवं नवं सारस्वतं कर्तुम्। आनन्दश्चाऽनुभूयते तेन। सरस्वत्याः प्रसादेन भवद्भिः क्रियते मुदा । संस्कृतस्य वरा सेवा इत्यतः प्रणता वयम् ॥ अस्तु सातत्यम् । सादरमभिनन्दनानि ॥ डॉ. वासुदेवः पाठकः 'वागर्थः' अमदावाद Page #6 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः नन्दनवनं नन्दयति ।। नूनं नन्दनवनं नन्दयति हृद्यं कृत्वा हृन्मण्डयति ।। - नूनं - ॥ संस्कृतभावान् पोषयति अभद्रभावान् शोषयति, सतां मनांसि तोषयति नन्दनवनमानन्दयति । – नूनं – । प्रीत्या प्रियं प्रसारयति कार्यं करोति, कारयति, दुःखोद्वेगान् दारयति नन्दनवनमानन्दयति । - नूनं – ।। संस्कृत-शुद्धं स्मारयति, संस्कारान् सन्तोषयति, धर्मामृतमप्यर्पयति नन्दनवनमानन्दयति । – नूनं - ॥ स्वदेशसेवां सूचयति विश्वधर्ममपि धारयति, नयं नु नीत्या प्रेरयति, नन्दनवनमानन्दयति । - नूनं - ॥ चित्ते चिन्त्यं चेतयति नन्दनन्दनं गीतयति, जनमङ्गलं विकासयति नन्दनवनमानन्दयति । - नूनं - ॥ डॉ० वासुदेवः पाठकः 'वागर्थः' अमदावाद १. नन्दनवनम्-नन्दनवनकल्पतरुः २. कार्यम् - (१) करणीयं, कर्तव्यं (२) कर्म. Page #7 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् शरीरी च निरामयः । . प्रायेण न हि दृश्यते ॥ (त्रिषष्टिशलाकापुरुषचरिते) प्रपञ्चेऽस्मिन् विद्यमाना लोका बहुधा रोगग्रस्तदेहा वरीवृत्त्यन्ते । सर्वेषामपि जनानां देहे एको वाऽपि रोगो भवत्येव प्रायशः । सर्वथा नीरोगो निरामयो वा देहो बह्वधिकपुण्यैरेव यदि परं लभ्यः । तत्राऽपि साम्प्रते काले तु यत्र यत्र दृष्टिं प्रसारयेम तत्र तत्र हृद्रोगः, मस्तिष्करोगः, अर्बुदरोगः, कर्कटरोगः, मधुप्रमेहः, रक्तसम्मर्दः, सन्धिवात:, कुष्ठरोग:,... अहो ! रोगाणामावल्या अन्त एव न दृश्यते । बहवस्तादृशा रोगा अपि सन्ति येषां नामाऽमि कदाचिदस्माभिः श्रुतचरं न स्यात् । आधुनिकतन्त्रज्ञानेन सह नूतना रोगा अप बहव आविष्कृता इवेति प्रतिभाति । आधुनिकाश्चिकित्सका निष्णाताश्च रोगाणामेतेषां विविधानि कारणानि प्रस्तुवन्ति, तत्र च तेषां मुख्यः स्वरसः शारीरिकेषु बाह्येष्वेव च कारणेषु प्रकटीभवति । इतो द्विसहस्रवर्षेभ्यः पूर्वमेवाऽस्माकमायुर्वेदाचार्यैश्चरक-सुश्रुतप्रमुखैः स्वीयेष्वायुर्वेदशास्त्रग्रन्थेषु नैकेषां रोगाणां निदानमधिकृत्य विशदचर्चा कृताऽस्ति, यत्र चोपरि समुल्लिखितानां रोगाणामपि समावेशो भवति । किन्तु तस्याश्चर्चाया मुख्यो ध्वनिः शारीरिककारणानि बाह्यनिमित्तानि चाऽतिरिच्याऽधिकतया मानसिककारणानि प्रत्येवाऽङ्गुलिनिर्देशं करोति । ते हि कथयन्ति यन्मानसे समुद्भूताः क्रोध-द्वेषेर्ष्यामात्सर्याहङ्कार-‍ र- माया- कपट-गार्थ्यासक्त्यादयो दोषा एव शारीराणां रोगाणां प्रमुखं कारणम् । तत्राऽपि ये निरन्तरमेतादृशैर्दोषैः पीड्यमाना भवन्ति तेषां शरीराणि तु रोगाणां खनिरेव भवति । एतद्वैपरीत्येन च ये सौम्याः स्वस्था: शान्तचित्ताः अल्पकोपादिदोषाश्च भवन्ति तेषां शरीराणि ह्याजीवनं नीरोगाणि स्वल्परोगाणि वा भवन्ति, नात्र शङ्कालेशोऽपीति । विधानमेतत् किलाऽऽधुनिकमानसरोगतज्ज्ञैरपि समर्थ्यतेऽद्यत्वे । यदि तत् सम्यक् चिन्त्यते तदा तस्य सत्यत्वं याथार्थ्यं च प्रतीयत एव । दृश्यत एव यज्जनाः स्वजीवनस्य महान्तं कालं प्रायस्तादृशानां दोषाणां सेवनेनैव गमयन्ति, फलतश्च व्यतीते यौवनसामर्थ्ये तेषां शरीराणि रोगाक्रान्तानि भवन्त्येव । तच्चिकित्सार्थं च जना विविधानां चिकित्सकानां विमर्शं गृहीत्वा प्रभूतधनव्ययं च कृत्वौषधादीनामासेवनं तदन्यां चिकित्सां च कुर्वन्ति । एतेन कदाचिद्रोगशान्तिर्भवति कदाचिच्च नैव भवति, सर्वथा तदुन्मूलनं तु नैव भवति । ततश्च शरीरं सर्वथा जर्जरीभूय प्रान्ते विनश्यति । एवंस्थितेऽपि जना न कदाचिदपि मानसिकदोषाणां निर्मूलनेऽल्पीकरणे वा प्रवर्तन्ते, न चापि स्वस्थचित्ताः सौम्याः शान्ता वा भवन्ति । यद्येतदर्थं प्रयत्नः क्रियेत तदा विनैव धनव्ययं क्लेशं च सर्वदा नीरोगत्वं निरामयत्वं च हस्तगतमेव स्यात् । अथैतद्विषये विशदं चिन्तनं कृत्वा वयमपि निजं चित्तं स्वस्थं स्वच्छं शान्तं सौम्यं च कुर्याम दोषमुक्ताश्च भूत्वा निरन्तरं निरामया नीरोगाश्च वर्तेमहि खलु !! आश्विन शुक्ला प्रतिपत् वि.सं. २०६८, भावनगरम् कीर्तित्रयी 6 Page #8 -------------------------------------------------------------------------- ________________ अनुक्रमः कृतिः अकारान्तप्रथमान्तपदैः श्रीमहावीरस्तोत्रम् पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकम् भगवत्पार्श्वनाथस्तवः ब्रह्मोपदेशः शिवपार्वतीचरितम् ऋतुगीतानि बम्लहरीगीतम् (यक्षगानम्) हाईकुकाव्यानि काव्यत्रयी कर्ता प्रवर्तकमुनिश्रीयशोविजयः प्रवर्तकमुनिश्रीयशोविजयः डॉ. आचार्यरामकिशोरमिश्रः डॉ. आचार्यरामकिशोरमिश्रः डॉ. आचार्यरामकिशोरमिश्रः मुनिधुरन्धरविजयः प्रा. अभिराजराजेन्द्रमिश्रः डॉ. हर्षदेवमाधवः डॉ. कौशलतिवारी बालकाव्यम् चटकाया जन्मदिवसः कलहप्रियः चम्पकचटकः आस्वादः पशु-पक्षिणां स्मरणशक्तिः डॉ. हर्षदेवमाधवः डॉ. हर्षदेवमाधवः निद्रा अन्तर्भाववादस्य प्रथमोदाहरणम् मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः यल्लापुरकृष्णशर्मा मुनिधर्मकीर्तिविजयः पत्रम् ललितकथा छन्दश्छटाचमत्काराः देवर्षिकलानाथशास्त्री ग्रन्थसमीक्षा अभिराजगीता डा. रूपनारायणपाण्डेयः नूतनग्रन्थपरिचयः वागीश्वरीकण्ठसूत्रम् ग्रन्थचतुष्टयी कीर्तित्रयी कीर्तित्रयी Page #9 -------------------------------------------------------------------------- ________________ विचारणम् १. धारास्थ-वाग्देवीमूर्तिमधिकृत्य २. भोजसारस्वतम् ३. भोजराजस्य सरस्वती मननम् परलोकवि-देशयात्रा प्रा.अभिराजराजेन्द्रमिश्रः अरैयश्रीरामशर्मा रेवाप्रसाद-द्विवेदी डॉ. हर्षदेवमाधवः डो. वासुदेवः वि. पाठकः मुनिधर्मकीर्तिविजयः डॉ. वासुदेवः पाठकः 'वागर्थ' मुनिन्यायरत्नविजयः मुनिकल्याणकीर्तिविजयः काव्यानुवादः मुक्तकानुवाद-द्वयी अनुवादः सर्वमपि सुखरूपं भविष्यति साम्प्रतम् संस्कृतेन संस्कृताः संस्कृते समुन्नताः अहो आश्चर्यम् ! मर्म गभीरम् कथा चौर्यम् वाचः फलम् परबुद्धिविनाशाय मुख्यमन्त्रिणे सिद्धज्जेन समर्पिता विज्ञप्तिः विनोदकथा चित्रम् काष्ठच्छिदः कथा मर्म नर्म प्राकृतविभागः मुनिधर्मकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिअक्षयरत्नविजयः एच्. वि. नागराजराव् मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः कीर्तित्रयी कथा पाइयविन्नाणकहा सज्जणसंगो आ.श्रीविजयकस्तूरसूरिः मुनिकल्याणकीर्तिविजयः Page #10 -------------------------------------------------------------------------- ________________ अकारान्तप्रथमान्तपदैः श्रीमहावीरस्तोत्रम् आचार्यश्रीविजयनेमिसूरीश्वरशिष्यः प्रवर्तकमुनिश्रीयशोविजयः (उपजातिश्छन्दः) देवरस चिन्तामणि-देववृक्षजैत्रप्रणामश्शमवारिधारः । चामीकरोद्योतशरीरभासः श्रीवीरनाथो भवहानिदोऽस्तु ॥१॥ प्रौढप्रभावो भुवनैकपूज्यः कन्दर्पदापहदेहभासः । संसारकान्तारगतिश्रमघ्नः श्रीवीरनाथो भवहानिदोऽस्तु ॥२॥ कामोन्मदिष्णुद्विपदर्पघातपञ्चाननो विश्वजनप्रपूज्यः । प्रौढप्रतापप्रविराजमानः श्रीवीरनाथो भवहानिदोऽस्तु ॥३॥ मिथ्यात्वरात्रिप्रबलप्रघातसूर्यायमाणः शिवदानशौण्डः । धीरत्वजेयाचलवंशनाथः श्रीवीरनाथो भवहानिदोऽस्तु ॥४॥ दुःखान्धुमग्नाखिललोककाम्य-रज्जूयमाणातुलवाग्विलासः । संसारनीरेश्वरपोतपाद: श्रीवीरनाथो भवहानिदोऽस्तु ॥५॥ सर्वोपसर्गग्रहदोषघातो ध्यातोऽपि संसोढमहोपसर्गः । यश्चित्रचारित्रधरो जिनेन्द्रः श्रीवीरनाथो भवहानिदोऽस्तु ॥६॥ अप्रार्थितार्थप्रदताविलासहीणामरागोऽसमपुण्यदानः । श्रीकेवलालोकविभातलोकः श्रीवीरनाथो भवहानिदोऽस्तु ॥७॥ श्रोत्रामृतास्वादमहाप्रपाभदेवासुरासेव्यवपुःप्रभावः । संसारतर्षापहवाग्विलासः श्रीवीरनाथो भवहानिदोऽस्तु ॥९॥ इतिश्रीश्रमणजनमनश्चमत्कारिचरणकरणचातुरीकाचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरपादपद्मेन्दिन्दिरायमाण विनेयप्रवर्तक यशोविजयविरचितं प्रथमान्तपदकदम्बमयश्रीमहावीराष्टकं समाप्तम् । Page #11 -------------------------------------------------------------------------- ________________ पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकम् आचार्यश्रीविजयनेमिसूरीश्वरशिष्यः प्रवर्तकमुनिश्रीयशोविजयः पञ्चेन्द्रियदमं देव्यं पञ्चज्ञानोपदेशकं पञ्चवर्गविनिर्मुक्तं स्तोष्ये वीरं जिनेश्वरम् ॥१॥ अव विश्वाश्रयो वीर ! शिवावासः सुरेश्वर ! श्रीषूष ! शिष्यशासाय स्वास्य ! श्रिया विलालस ! ॥२॥ श्रीवर: श्रेयसे साररावास्यः स सुरेश्वरः सर्वेषां लालसाहासः शीलशाली शिवावहः ॥३॥ वरैश्चर्येव विश्वस्य सर्वाय सहसा वर । श्रीवीरेशसुरावि उल्लासय शिवश्रियम् ॥४॥ सुरासुरसुसेव्याहिं सूरिं शूररवं वरम् । सरलं सुरवं सस्यं सुरं सेवे ऋषीश्वरम् ॥५॥ यस्येश्वरस्य सारस्य सर्वाशाविलसं यशः । श्रेयःसुरसुवल्ली वः सोऽयं वीर: शिवाय वै ॥६॥ सर्वांहससुसंहारं सर्वावं सुरवेश्वरम् ।। अरुषं संश्रये वीरं शशिलेश्यं वशीश्वरम् ॥७॥ सुरसः सुरवो यस्य वीर: सेव्यः शिवाय वः । स्वेरीशाश्रेयलासाहिः सोवार्यवीर्यशाल्ययम् ॥८॥ सर्वसारं न वीरं सूर्यलासं सुरेश्वरम् । हेयाहेयसुशासेशं संश्रये सावशोऽवशः ॥९॥ इतिश्रीसकलसुरासुरेन्द्ररेन्द्रविवन्द्यपादारविन्दाचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरशिष्यप्रवर्तक यशोविजयविरचितं पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकं समाप्तम् ॥ Page #12 -------------------------------------------------------------------------- ________________ (१) वरग्रामः भगवत्पार्श्वनाथस्तवः डॉ. आचार्यरामकिशोरमिश्रः बड़ागाँव खेकड़ायां वैरग्रामे पार्श्वनाथस्य मन्दिरम् । तस्य श्रीपार्श्वनाथस्य करोमि मनसा स्तवम् ॥१॥ वन्दे जिनं जगति जैनसमाजपूज्यं, ज्ञानप्रदं च जनताशुभचिन्तकं च । यं जैनदेवमधुना हृदये भजामि । तं पार्श्वनाथमथ साधुवरं नमामि ॥२॥ भाषोपदेशक वराय समत्वदाय, साधारणादिजनशर्मसमीक्षकाय, विप्रादिशूद्रजनतासमताप्रदाय, तस्मै नमो भगवते महते जिनाय ॥३॥ अध्यापका यमवदञ्च कुशाग्रबुद्धिम्, विद्यार्थिजीवनदिनेषु च सन्मतिं तम् । यः साधनासमयकष्टसहस्रभोगी, तं पार्श्वनाथमथ जैनमुनिं नमामि ॥४॥ यः कर्मणा च मनसा च हृदा च वाचा, जीवस्य पीडनविराम इहेत्यहिंसा । तत्पालकं यमथ शर्मकरं स्मरामि, तं पार्श्वनाथमथ जैनमुनिं नमामि ॥५॥ सिद्धो महापुरुष आत्मपरो मुनिर्यः, ज्योतिर्मयश्च जिनराडथ योगिमान्यः । निर्वाणलाभमकरोदिह साधुचितं तं पार्श्वनाथभगवन्तमहं नमामि ॥६॥ ३ Page #13 -------------------------------------------------------------------------- ________________ ब्रह्मोपदेश: डॉ. आचार्यरामकिशोरमिश्रः अङ्गिरामुनिनेतृत्वे ब्रह्मोवाच गतानृषीन् । दिनस्यान्तोऽस्ति सूर्यास्तो निशान्तो भास्करोदयः ॥१॥ दुःखागमः सुखान्तश्च दुःखान्तश्च सुखोदयः । सङ्ग्रहान्तो विनाशश्च विनाशान्तश्च सङ्ग्रहः ॥२॥ संयोगान्तो वियोगश्च वियोगान्तो द्विमेलनम् । मृत्युश्च जीवनस्यान्तो मरणान्तश्च जीवनम् ॥३॥ अहिंसा चाऽत्र हिंसान्तस्त्वहिंसा च कृपोदयः । सर्वस्याऽन्तोऽस्ति संसारे ज्ञानमनन्तमुच्यते ॥४॥ ४ Page #14 -------------------------------------------------------------------------- ________________ जगतोऽन्तः प्रलयोऽस्ति प्रलयान्तो जीवोदयः । यज्ञदानादिसर्वान्तो ज्ञानमनन्तमुच्यते ॥५॥ कोऽमर: कोडजरो विश्वे मुनिना पृष्टः सोऽब्रवीत् । य आत्मा स परमात्मा य आत्मज्ञानी सोडमरः ॥६॥ शक्तिमानस्ति को लोके ? स ईश: सर्वशक्तिमान् । यः सविताऽस्य जगतः स भर्ताऽस्ति हर्ता च सः ॥७॥ सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियच नाऽनृतं ब्रूयादीशाप्तौ न व्यथा भवेत् ॥८॥ भक्षयाडल्पं वदेश्वाऽल्पं मिलेश्चाऽल्पं जनान् सदा । स्वपिहि चाऽल्पं लोकेऽस्मिन् ईशभक्तिं सदा कुरु ॥॥ यस्तर्केणाऽनुसन्धत्ते स धर्मं वेद नेतरः । ईश्वरः सर्वभूतेषु, एष धर्मः सनातनः ॥१०॥ धनादिसम्पदां ज्ञानं सर्वश्रेष्ठमुदुच्यते । ज्ञानाच्चाउनेश्वरस्याऽपि प्राप्तिर्भवति निश्चिता ॥११॥ कोऽस्ति कर्ता कोऽस्ति भर्ता संहर्ता जगतश्च कः ? ब्रह्मा कर्ता विष्णुर्भर्ता हर्ता च शिवशङ्करः ॥१२॥ मूर्तित्रयं सदीशस्य ब्रह्मा विष्णुः सदाशिवः । भजते यस्त्रयानेतान् कल्याणं तस्य निश्चितम् ॥१३॥ ऐश्वर्यवैभवाभ्यां च तृप्ति व हि प्राप्यते । सुखं शान्ति च ज्ञानेन सदैव लभते नरः ॥१४॥ ज्ञानादृते च मुक्तिर्न न च मोक्षो जनादिह । प्रोक्ता ज्ञानमेव विद्या सा विद्या या विमुक्तये ॥१५॥ तस्माज्ज्ञानमेव धार्यं हृदये मनसा सदा । ज्ञानेन भगवत्प्राप्तिर्भविष्यति न संशयः ॥१६॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१ Page #15 -------------------------------------------------------------------------- ________________ शिवपार्वतीचरितम् डॉ. आचार्यरामकिशोरमिश्रः ईश: शिवः सतीशोऽस्ति पार्वतीशो वृषध्वजः । भरमलिप्तो भूतनाथः पातु युष्मान् हि शङ्करः ॥१॥ सती दुहिता दक्षस्य शिवस्य प्रेमिकाऽभवत् । तयोः प्रेमविवाहोऽभूद् येन रुष्टः प्रजापतिः ॥२॥ कैलासाद्रिस्तयोर्वासः पर्वतेषु हिमालये । शिवोऽवसत्समाधिस्थ: सत्या व्यवस्था वै कूता ॥३॥ रूपं संधार्य सीताया रामपार्वं ययौ सती । सती पप्रच्छ श्रीरामः शिवः क्व ? स्पष्टमेव तु ॥४॥ Page #16 -------------------------------------------------------------------------- ________________ ततः सती लज्जिता सा शङ्करपार्श्वमागता । पृष्टोवाच सा - भगवन् ! तं प्राणमं भवानिव ॥५॥ पुनः शिवो नाऽवदत्तां स्वत्यागं जानती सती । गच्छाम्यहं पितुर्यज्ञे कथयित्वा जगाम सा ॥६॥ शिवभागं नाव दृष्ट्वा यज्ञस्याऽग्नौ पपात सा । ज्ञात्वा शिवो वीरभद्रं संप्रेष्य यज्ञमध्वसत् ॥७॥ स्वयं गत्वा त्रिशूलेन दक्षस्य शीर्षमच्छिदत् । पुनः श्वश्रूप्रार्थनेन त्वजमुण्डमयोजयत् ॥८॥ ततः सत्या जन्म लेभे मैनाहिमवतोहे । पितृभ्यां पार्वती सोक्ता हर्षो जातो हिमालये ॥॥ विवाहोऽस्याः शङ्करेण भविता नारदोऽवदत् । तपसा स प्रसन्नः स्यादतः पुत्रि ! तपः कुरु ॥१०॥ पित्रोराज्ञां गृहीत्वा सा तपसे पर्वतं गता।। ततो देवाः समाधिस्थं शिवमागत्य प्रार्थयन् ॥११॥ तारकासुरं पुत्रस्ते प्रभो ! युद्धे हनिष्यति । विवाहं कुरु पार्वत्या समाधित्यागतो द्रुतम् ॥१२॥ प्रसल: शङ्करोऽवादीद् गच्छ पार्वति ! स्वगृहम् । वरयात्रां गृहीत्वाऽऽशु परिणेष्यामि त्वामहम् ॥१३॥ हिमालयं ततो गत्वा विवाहे देवकारिते । तयोः पुत्रः कार्तिकेयस्त्ववधीत्तारकासुरम् ॥१४॥ नमः शिवपार्वतीभ्यां श्रीकार्तिकेयाय मे नमः । ब्रह्मणा विष्णुना सार्धं प्रसन्नाः सर्वदेवताः ॥१५॥ पीताहालाहलं शम्भु नीलकण्ठं त्रिशूलिनम् । गङ्गाधरं चन्द्रमौलिं नमामि पार्वती-पतिम् ॥१६॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१ Page #17 -------------------------------------------------------------------------- ________________ ऋतुगीतानि मुनिधुरन्धरविजयः (१) वसन्तः विहरति मलयपवनलहरी कुसुमितकुञ्जनिकुञ्जनिवासी, कुसुमधनुःप्रहरी........... कोकिलकुलकलकूजितकलिते मञ्जुलगुञ्जारवसंवलिते मञ्जरिपिञ्जरिताम्रसुललिते, विरचितचारुचरी....... मधुनिःष्यन्दरचितमधुपर्कः उन्मदसुरभिहताखिलतः विकसितसुमसौरभसम्पर्कैः, सुरभितशैलदरी.......... नीलनवलतरुदलधूतवसना भ्रमराकुलसुमराजीरसना धवलकुन्दकुसुमस्फुटदशना, किं वसन्तशबरी ?...... कः स्वामी को वा न्विह भृत्यः ? मधुरसपानविस्मृतनिजकृत्यः विलसति नगरजनः कृतनृत्यः, उन्मदचित्तकरी....... विहरति मलयपवनलहरी.... Page #18 -------------------------------------------------------------------------- ________________ (२) ग्रीष्मः ग्रीष्मे भीष्मतपप्रसर: सिकतानिचयो ज्वलदङ्गारः शैलसमूहो गतशृङ्गारः शोषितसलिलो जलभृङ्गारः, प्रखरोऽतुहिनकर:..... अनिलोऽनलमिव वपुषि विभाति स्विन्नतनुर्जलधरतां याति शुचिता तनु-वसनानि जहाति, लोको मलिनतर:..... ऊर्ध्वमधो वायोः परिवर्त्तः धूलिसमूहस्तेन ननर्त सम इव जात: शैलो गर्त्तः, अन्धो दिक्विसरः...... उष्णो दिवसस्तथैव दोषा तप्तः पुरुषस्तप्ता योषा कूपाः पुष्करिणी गतशोषा, नद्यां धूलिभर............ जलयवस्य जले विचरन्ते तालवृन्तकैः धर्म हरन्ते कुञ्ज-बनीषु भूशं विहरन्ते, स्थिरो न जननिकर:..... शीतलपेयास्वादसमी सुरभितजलशीकरसन्ती मधुररसालास्वादविसी, ग्रीष्मः सौख्यकर:........ ग्रीष्मे भीष्मस्तपप्रसर..... Page #19 -------------------------------------------------------------------------- ________________ (३) वर्षा प्रावृषि वर्षति वारिधरः श्यामघटा घनघोरा गर्जति दशदिशि विद्युद्वलयः स्फूर्जति, रविरपि निहतकर:..... नृत्यति बर्हिगणस्तनुलोलं पिबति चातको जलकल्लोलं, पूर्णजलं च सर:..... टप-टप् पतति जललवनिकर: सम्-सम् झिल्लीरवोऽतिमुखरः, सान्द्रस्तिमिरभरः..... नभसि समुड्डयतेऽत्र बलाका आश्रयमीक्षन्तेऽथ वराकाः, वायुः शीततरः..... प्रियपथमीक्षन्ते विरहिण्यः विगलदश्रुसलिलाक्षिगृहिण्यः, दारुणदुःखकर:..... कृषीवलाः समुपात्ता तुष्टिं लब्ध्वा सजलघनाघनवृष्टि, दुर्भिक्षेतिहर:..... कुरुते काञ्चनवृष्टि जलदः जगति जन्तुगणजीवनफलदः, तर्पितसकलधर:..... प्रावृषि वर्षति वारिधरः १० Page #20 -------------------------------------------------------------------------- ________________ (४) शरत् विलसति शरदिह घनमलरहिता धवलजलधिफेनोज्ज्वलनिर्जल-मेघाडम्बरभरिता..... जलवाहिन्यो निर्मलसलिलाः मार्गाः शोषितकर्दमकलिलाः, प्रखरदिवसकरसहिता..... गोपीमण्डलरासकरावा तृप्तविहङ्गममधुरारावा, कर्षकगोकुलसुहिता..... निष्पादितबहुविधशुभशस्या विकसितकमलवनेन प्रशस्या, यया धरित्री विहिता..... निर्झरदसमसुधारसगाच्या शशधरमण्डितराकारात्र्या, तप्तिर्यस्याः पिहिता..... निर्मलनीलाकाशविलसिना पूर्णकलोदितशारदशशिना, भुवि रसधारा निहिता..... विलसति शरदिह घनमलरहिता..... Page #21 -------------------------------------------------------------------------- ________________ (५) शीतः दहति शीतलजलधारा हेमन्ते सुखदा सूर्यातप-वातरहितकारा..... थर....थर....थर...थरकम्पितकाया दुःखदायिशीतलतरुछाया शीतौ कीदृशीयं माया गाढालिङ्गन-वह्निसेवन-तप्तिः सुखकारा..... दग्धतॄणाकुरपल्लवजातः भवति कदाचिद् हिमकणपातः दीनानाथमनुजगणघातः सम्भवन्ति शीता वेवं निर्बलसंहाराः..... शीतास्त्यिक्ताखिलयात्राः श्यामलकम्बलसंवृतगात्राः दुर्बलिनो लीयन्ते रात्रावतिशयालवो लयनं शयने निद्रासुखसाराः..... तैलसुतर्पितसुन्दरदेहाः पौष्टिकपाकैर्वासितगेहाः प्रणयिजनेषु प्रबलस्नेहाः विदग्धनागराः शीतत्तौ किल प्रगाढप्रणयाचाराः..... उष्णं भोज्यम् उष्णं स्नानं दुग्धं प्रवरं सर्पिः स्त्यानं बहुपढ्यिं बहुसम्मानं पुण्यवतामिह सुखसमृद्धिः शीतत्तौ सारा..... दहति शीतलजलधारा..... १२ Page #22 -------------------------------------------------------------------------- ________________ (६) शिशिरः शिशिर: सरति शीततरः शीतलहर्यः प्रसरन्त्यभितः हिमकणनिचिताः अवनी-सरितः श्यामीभूता वन्यो हरितः, स्त्यानीभूतसरः..... प्रवहति वेगिलशीतसमीर: भ्रमितमनुजवद् निभूतमधीर: कम्पितनिर्बलजन्तुशरीरः, स्वच्छन्देन चर..... पतति पतत्रिणमिव तरुपर्णः कलुषितकोमलकायापर्णः मर्मररवपूरितजनकर्णः, प्रबलस्नेहहर:..... विरलीभूतसघनतरुकुञ्जः मूकीभूतमधुकरमधुगुञ्जः वायुप्रेरितकचवरपुञ्जः, बहुमालिन्यकर...... मञ्जरीपिञ्जरिताम्रवनीकः कोकिलकलकूजनकमनीकः कलरवमुखरचलज्जलनीकः, मोहितजननिकर:..... शालिवने कर्षकजनगीतं गोधूमस्य क्षेत्रं पीतं खलभूमौ धान्यं चाऽऽनीतं, कृषिकस्तोषधरः..... शिशिर: सरति शीततर:....... Page #23 -------------------------------------------------------------------------- ________________ बम्लहरीगीतम् (यक्षगानम्) प्रा. अभिराजराजेन्द्रमिश्रः (हुडुक्कां वादयन्तो द्वौ गायकौ) शृणुत शृणुत नवकथाप्रबन्धम् । विशदीकृतजनजनसम्बन्धम् ॥ नवसरुचिरं मङ्गलमूलम् । श्रितहरि धृतकालिन्दीकूलम् ॥ कलियुगसंस्कृतिदर्शनदक्षम् । स्वनयनदृष्टं किञ्च समक्षम् ॥ नाऽत्र किमपि कल्पितमतिगूढम् । सर्वमहो सर्वैर्नियूंढम् ॥ अतिविलक्षणा नवयुगगाथा । जनता यां विज्ञाय सनाथा ॥ तामभिराजक विस्सन्धत्ते । आत्मानं कृतिनं नु विधत्ते ॥ भागवतीयं रागवतीयं सरस्वतीयं प्रियङ्करी । बबं बबंबं बं लहरी !! शिवगाथेयं शिवकरी ॥ १ धुवा ॥ गृहे - गृहेऽद्य वसति कैकेयी । मन्थरया हृतधीरविनेयी ॥ कुलिशहृदयदारिणी नृशंसा । कूतरघुपतिवनवासाशंसा ॥ स्वतनयसुखसाधनमोहान्धा । परसुतसौख्यसमुद्ववन्ध्या ॥ राघवहृदयपरिचितौ मूढा । हतभाग्या प्रहेलिका गूढा ॥ सजलजलदवर्षाऽशनिपाता । मङ्गलसन्ततिजनितनिपाता ॥ यौवराज्यवृत्तं लघयन्ती । ऋजुहृदयं दयितं छलयन्ती ॥ योऽभूद् रामकथापथशूला । प्रावूट्सरिदिव भक्षितकूला ॥ तत्सन्ततिरद्याऽपि कृतघ्नी । गृहे-गृहे लक्ष्यते शतघ्नी ॥ क्लृप्तविपत्तिर्हृतसम्पत्तिर्दुर्विज्ञप्तिर्लयङ्करी बबं बबंबं बं लहरी ! शिवगाथेयं शिवङ्करी ॥ २ ॥ नैव रोचते देशी शिक्षा । महिता जाता महतां भिक्षा ॥ पब्लिकविद्यालये पठन्तः । भारतीयभावनां हसन्तः ॥ गले सलीबाकृतिं दधन्तः । आङ्ग्ली भाषां द्रुतं लपन्तः ॥ मङ्गल-बुध-गुरु-शुक्र-शनिज्ञाः । नैव चैत्र-वैशाखादिकविज्ञाः ॥ १४ Page #24 -------------------------------------------------------------------------- ________________ सण्डे-मण्डेऽध्वनि विहरन्तः । अप्रिल-मे-जूना जानन्तः ॥ कुलाचारनिजसंस्कृतिशून्याः । प्रसंस्कारार्जनैश्च धन्याः ॥ नीलवर्णजम्बुका नवीनाः । युवका हन्त युवत्यो दीनाः ॥ नाम्नैवाऽद्य भारते जाताः । भारतीयसंस्कृतेर्विघाताः ॥ रामायणनामाऽश्रुतवन्तः । सीरियलेन च परिचिन्वन्तः ॥ नो विदति भारताभिधानम् । कौरव-पाण्डवयुद्धविधानम् ॥ को नु हरिश्चन्द्रो मान्धाता । को नु शिवश्शरणागतत्राता ॥ के नल-राम-युधिष्ठिरसंज्ञाः । विक्रम-हर्ष-भोजसुनयज्ञाः ॥ को नु शिशुस्सम्प्रति निजदेशे । रतिमानैतिोऽथ परेशे ॥ कुक्कुटाण्डभक्षणैकवीराः । मदिराचषकविपन्लशरीराः ॥ अश्वन्तः पिशितं नु पिशाचाः । भासन्ते निर्मुखनाराचाः ॥ . गतिमतिदीनाश्छलप्रवीणाः कथा नु तेषां श्रुतिम्भरी ! बबं बबंबं बं लहरी ! शिवगाथेयं शिवकरी ॥३॥ रोदिति विलपति संस्कृतभाषा । साक्षात्कारे भवति तमाशा ॥ पृच्छति बुधो लतापदरूपम् । किमिव तात, भाषतेऽपरुपम् ॥ यथा पिता पितरौ पितरश्च । तथा लता लतरौ लतरश्च ॥ यथा च रामः रामौ रामाः । तथैव नामः नामौ नामाः ॥ यथा च दधि दधिनी च दधीनि । तथैव मति मतिनी च मतीनि ॥ श्रुत्वा जातवेपथुर्दीनः । ताम्यति विद्वान् निर्जलमीनः ॥ साधु साधु साध्विति ब्रुवाण: । नवरसविरसो वक्ति ग्लानः ॥ भवता तात ! रक्षिता वाणी । देवानामधुना कल्याणी ॥ विलक्षणं व्याकरणज्ञानम् । विलक्षणं प्रस्तुतप्रमाणम् ॥ दाक्षीसुतः पाणिनिर्धन्यः । भवता कात्यायनोऽप्यनन्य: ॥ त्वमसि पतञ्जलिभाष्याधारः । शेषस्याऽभिनवोऽप्यवतार: ॥ पुनरसंस्कृता संस्कृतभाषा । त्वया तात ! जनिता परिभाषा ॥ चिरञ्जीव भव जगज्जयी त्वम् । ननु वर्धस्व तात ! सततं त्वम् ॥ क्वचिद् भविष्यसि यदा नियुक्तः । शतसहसशिष्यैः संयुक्तः ॥ प्रतिभायास्ते तदेन्द्रजालम् । द्रक्ष्यन्त्येव जनाश्च ‘कमालम् ॥ मया जीवने त्वादृशबुद्धिः । सम्प्रेक्षितो न वाऽक्षतसिद्धिः ॥ Page #25 -------------------------------------------------------------------------- ________________ ग्रामेऽन्विष्टं नगरेऽन्विष्टं शैलेऽन्विष्टा दरी-दरी ! बबं बबंबं बं लहरी ! शिवगाथेयं शिवङ्करी ॥ ४॥ पैनलविद्वद्भिः कुलपतयः । अन्विष्यन्ते स्म बृहस्पतयः ॥ अन्ताराष्ट्रियकीर्तिमण्डिताः । विविधविषयसम्मान्यपण्डिताः ॥ विद्याविनयपारगा दक्षाः । स्वच्छच्छवयोऽपक्षविपक्षाः ॥ प्रावृषेण्यजलदाः समवर्षाः । सन्तुलितानभ्युदयनहर्षाः ॥ तैश्च विश्वविद्यालयकीर्तिः । स्फीताऽभूदवदाताऽधीतिः ॥ विपरिवर्तितं संविधानकम् । प्रत्नमल्लके नवं पानकम् ॥ गणिकानृत्येऽस्मिन् पाखण्डाः । मध्ये कूर्दितवन्तो भण्डाः ॥ सर्वेषामिह नग्नः स्वार्थः । तस्माद् विकलोऽभूत्परमार्थः ॥ आर्यो वाञ्छति निजं समाजम् । अर्हं मनुतेऽन्योऽप्यभिराजम् ॥ लालाटिकं वरयते मन्त्री । स्वविटमेव वृणुते षड्यन्त्री ॥ उदासीनतां भजति कुटुम्बः । कोऽपि नृपोऽस्तु को नु मे लम्भः ॥ निर्घोणस्य यथाऽऽसीत् सत्त्वम् । अन्धस्याऽपि तथा नेतृत्वम् ॥ त्रुटिता ननु शारदा विपञ्ची । कुलपो जातो यतः प्रपञ्ची ॥ महनीयोच्चशिक्षणं नष्टम् । तद् दृष्ट्वा वाङ्मातुः कष्टम् ॥ कुलपतयो ज्ञानोदधिकल्पाः । ये पञ्चषा अजातविकल्पाः ॥ शासनाय नो ते रोचन्ते । यतो न तत्परितो हिण्डन्ते ॥ किं करणीयं किं वरणीयं स्मरणीयौ वा रुद्र-हरी बबं बबंबं बं लहरी ! शिवगाथेयं शिवङ्करी ॥ ५ ॥ दिल्ल्यां लटकमेलकं जातम् । नेतृगृहे मङ्गलप्रभातम् ॥ शासनपक्षेऽथवा विपक्षे । नेतुः स्वर्गः स्वस्मिन् कक्षे ॥ भोजनचाहनसेवक सौख्यम् । आजीवनमिह यात्रासौख्यम् ॥ स्वर्णं दग्ध्वा यथा निर्मितम् । स्वर्णभस्म तच्चौषधं स्मृतम् ॥ जनतां दग्ध्वा तथा कल्पितम् । जनताभस्म नेतृभिस्सततम् ॥ तज्जनताभस्मना विवृद्धाः । एते भान्ति कुबेरसमृद्धाः ॥ विस्मृतदुस्सहदण्डाघातः । यथा गृहे श्वा पुनरपि भ्रातः ॥ न्यक्कृतथूत्कृतधिक्कृतकायाः । कारादण्डितनेतृनिकायाः ॥ १६ Page #26 -------------------------------------------------------------------------- ________________ तथाऽखिलं लीलया सहन्तः । दृश्यन्ते कृमयो विलसन्तः ॥ जयाजयौ वा लाभालाभौ । सम्पद्विपदौ हर्षविषादौ ॥ निजागार-कारागृहवासौ । शासनतवाद् व्याससमासौ ॥ उभयं समीकृत्य जीवन्तः । विलपन्तोऽन्तर्मुखैर्हसन्तः ॥ सत्यमेव योगिनस्तटस्थाः । नेतारो विषमे समवस्थाः ॥ परधनसुखिनोऽजगरजीवनाः । कृत्वाऽकिञ्चित्सकलसाधनाः ॥ लोकतवगरुडस्कन्धस्थाः । साक्षाल्लक्ष्मीपतिप्रतिष्ठाः ॥ जनता सुखिनी न स्यादेभ्यः । सुखिनस्त्विमे किन्तु जनताभ्यः ॥ कर्कटमहारोग इव नेता । जनताप्राणहरस्सुखभेत्ता ॥ तस्य न किमप्यौषधं दृष्टम् । शासनतवान्तरं न चेष्टम् ॥ वरमासीदाङ्ग्लप्रशासनम् । श्रेष्ठक्षमकोविदसमर्थकम् ॥ धिगुपवनं तद्यत्र नु काकाः । शास्तारः स्युः पिका वराकाः ॥ किमत्र कुर्मः किमत्र शृण्मः तरणीयेयं कथं तरी ? बबं बबंबं बं लहरी ! शिवगाथेयं शिवकरी ॥ ६ ॥ जनता जागरयति निर्भीकः । अभिराजो भारतावनीकः ॥ केषाञ्चिन्मुष्टौ जनतवम् । बद्धं जातं विपत्तितत्रम् ॥ जीर्णं शीर्णं गलितं पलितम् । त्याज्यमिदं क्रन्दनसंवलितम् ॥ रोदिति जनता हसति सांसदः । जीर्यति जनता नटति सांसदः ॥ जनताब्धौ नेता वडवाग्निः । जनतारण्ये नेता वह्निः ॥ क्षुद्रजनोदयमन्दरकल्पम् । धिगजनतवं निहतविकल्पम् ॥ करणीयं जनताब्धिमन्थनम् । पुनरपि भूयोऽप्यमृतनिमित्तम् ॥ येभ्योऽन्यथा खलेभ्यो मुक्तम् । राष्ट्र स्यात्तैः पुनर्नु भुक्तम् ॥ उत्तिष्ठत् जाग्रत प्रवीराः । भारतपुत्राः ! रणभुवि धीराः ॥ प्रागभवन् रिपवः परकीयाः । शातयन्ति सम्प्रति स्वकीयाः ॥ त्वामाह्वयति भारती माता । रक्ष राष्ट्रभूमिं त्वं त्राता !! भ्रष्टतत्रमिह दुष्टजनं जहि सिंहस्त्वमसितीक्ष्णनखरी ! बबं बबंबं बं लहरी ! शिवगाथेयं शिवकरी ॥ ६ ॥ Sunrise Villa, Lower Summer Hill, SHIMLA (H.P.) १७ Page #27 -------------------------------------------------------------------------- ________________ हाइकुकाव्यानि डॉ. हर्षदेवमाधवः - कुर्वन्ति कति निर्जला एकादश्यस्तूषार्ता वृक्षाः ? ॥ चटकाः ! शान्ता लावाद्रवाः । कुर्वन्तु नीडरचनाम् 9 अन्नं न प्राप्तम् । एकादश्युपवासः शुने दशम्याम् ॥ - सर्वेऽपि मार्गाः प्रतिनिवर्तन्ते नु श्रान्ताः स्वगेहम् ॥ - अतिथिर्भूत्वा नववत्सरानन्दः आगतो गृहम् ॥ 0 लघुके बिले पिपीलिका-निर्मितं ब्रह्माण्डसुखम् ॥ - निद्रां हरति मधूकपुष्पगन्धः पिक-स्प्रेण ॥ 8, RajTilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-380058 १८ Page #28 -------------------------------------------------------------------------- ________________ काव्यत्रयी डॉ. कौशल तिवारी १. मार्गः २. समरक्षेत्रम् मार्गा न गच्छति कुत्राऽपि स स्थितः सदैव स्वस्थान एवं विना दूषणं विना महत्त्वाकांक्षाम्, अहमेव चलामि तस्मिन् विना श्रान्ति विना विश्राम लक्ष्यस्येच्छायाम्, भ्रमामि सततं त्यक्त्वा सहपथिकान् सार्थस्याऽग्रतः, विस्मरामि यत् मार्गो न गच्छति कुत्रापि ॥ अन्धतमसम् एकलोऽहं नैकै ते समरक्षेत्रम्, अस्त्रैः शस्त्रैः सुसज्जितास्ते निःशस्त्रः कवचहीनोऽहम्, बलेन गर्वितास्ते निर्बलो भयभीतोऽहम्, जिगीषवस्ते प्रहारकामुकाः जीवनकृते प्रयासरतोऽहम्, अकस्मात् त्रुटिता निद्रा स्वप्ना भग्नाः तथाऽपि सैव कथा, अन्धतमसम् एकलोऽहं नैकै ते समक्षेत्रम् ॥ Page #29 -------------------------------------------------------------------------- ________________ ३. पुत्तलिका बाल्यकाले क्रीडिता मया पुतलिकाक्रीडा, इदानीमहमपि पुत्तलिकीभूता, आत्महिता प्रणयरहिता सुखदुःखयोः समभावा सङ्केतैः नृत्यरता सदैव कृत्रिमस्मितयुक्ता ॥ . यदा जागरिष्यन्ति पुत्तलिकाः तदा नंक्ष्यन्ति सर्वे सूत्रधाराः स्वसूत्रैः सह ॥ 0 चित्रिताः पुत्तलिकाः सर्वा भवन्ति मनसा वर्णहीनाः ॥ 0 पुत्तलिका नृत्यति सूत्रं विनाऽपि कदाचिदेकान्ते ॥ मालादेवी महोल्ला वार्ड नं. ३१, बारां (जि. बारां, राजस्थान) ३२५२०५ Page #30 -------------------------------------------------------------------------- ________________ बालकाव्यम् चटकाया: जन्मदिवसः डॉ. हर्षदेव माधवः 'जोली' चटका प्रातःकाले - यदा प्रबुद्धा जाता। स्वप्नं त्यक्त्वा दृष्ट्वा सर्वं ___ परं विस्मयं प्राप्ता। 'चोकलेट' पुष्पाणि सन्ति फलैः मिष्टिकाः सन्ति । 'बिस्किटानि' पर्णानां स्थाने पतङ्गिकाः नृत्यन्ति । Page #31 -------------------------------------------------------------------------- ________________ पयोहिमैः श्वेता वृक्षाः, तान् __ लेढि ननु मार्जारी मेघधनोः खण्डाः शारवासु नृत्यति तले मयूरी । नैव लेखनी, नैव पुस्तकं गृहकार्यं नहि स्यूते । अवकाशः शालायां नूनम् __ अद्य कोकिलः ब्रूते । तदैव सरला चटका माता कथयति तां सानन्दम् । “जाते ! जन्मदिनं तव अद्य __ क्रीडतु दिनपर्यन्तम् ॥ जन्मदिने किं सुखं केवलं नैव दु:खं नहि पठनम् । खानं पानं तथा नर्तनं ___ पुष्पैः सार्धं भ्रमणम् । प्रतिदिवसं ननु जन्मदिनं हि भवेत् तदा न हि चिन्ता । माता विहसति कथयति बाले । त्वं तु प्रमत्ता मुग्धा । जन्मदिनं तु प्रतिवर्षं भोः । एकवारमायाति । पुनः प्रतीक्षां कृत्वा कृत्वा वर्षं पुनरपि याति ॥ बालाः ! पठनं सदैव कार्य ___ लाभः पठन-श्रमेण । साफल्यं प्राप्तव्यं नूनं महता परिश्रमेण ॥ 8, RajTilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-380058 २२ Page #32 -------------------------------------------------------------------------- ________________ बालकाव्यम् कलहप्रिय: चम्पकचटकः डॉ. हर्षदेव माधवः चम्पकचटकः कलहप्रियोऽस्ति दिवसे कुरुते निद्राम् । संलापे ब्रूते अनृतं च ___ कुरुते सदैव निन्दाम् ॥ परिहासे क्रुद्धो भूत्वा ननु परुषं कथयति शीघ्रम् । वक्रो भूत्वा व्यवहारेषु सदा दुनोति स्वमित्रम् ॥ वीक्ष्य दर्पणे स्वप्रतिबिम्बं करोति चचप्रहारम् । पिशुनः कथयति किमपि रहस्यं सुहृदो विना विचारम् ॥ शुको नवीनो मिता सारिका श्रवणः काकः चपलः । मनीषा नाम कपोती सन्ध्या काकी भेकः विमल: ॥ सर्वे मिलिताः अहो कीदृशी ! चम्पकस्य दुर्जनता ! अधुना तेन न मैत्री शक्या तरिमन् नाऽस्ति सुजनता ॥ सर्वैः अधुना कृता प्रतिज्ञाः संलापो न हि तेन । नैव च क्रीडा, नैव भोजनम् । अलं तेन गमनेन ॥ 'इट्टाकिट्टा' वयं त्वया सह मैत्री नहि करवाम। २३ Page #33 -------------------------------------------------------------------------- ________________ उक्तं सर्वैः विमुखैः चम्पक ! तब न सुहृदो न भवाम ॥ कोऽपि न वदति, कोऽपि न लपति चम्पक एष उदासः । नैव च क्रीडा, कोऽपि न विहसति नास्ति कथा-परिहासः ॥ मातुः पाश्र्चे गतः चम्पकः मात्रा ज्ञातं सर्वम् । चम्पकस्य दोषान् निर्दिश्य मात्रा कथितं सत्यम् ॥ 'वत्स ! न कलहः कर्तव्यश्च अनृतं नहि वक्तव्यम् । नैवैकेन यदुक्तं कस्मै कदापि तत् कथनीयम् ॥ मित्रैः सह सौहार्द कार्य मिष्टभाषया वाच्यम् । क्रोधः शत्रुः क्रुधा भाषणं पषं वाक्यं त्याज्यम् ॥ चम्पकेन गत्वा मित्रेभ्यः क्षमा प्रार्थिता सद्यः । ऋजुतायुक्तां मैत्री तैः सह कर्तुं गृहीतः शपथः ॥ अधुना सर्वे चम्पकेन सह स्निग्धतया भाषन्ते । क्रीडामग्नाः सर्वे वृक्षे हर्षयुताः वर्तन्ते ॥ त्यक्त्वा अनृतं मैत्र्यां नित्यं पैशुन्यं खलु त्यक्त्वा वदन्तु प्रियवाणी क्रीडन्तु प्रसलहृदयाः भूत्वा ॥ 8, RajTilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-380058 २४ Page #34 -------------------------------------------------------------------------- ________________ आस्वादः पशु-पक्षिणां स्मरणशक्तिः मुनिकल्याणकीर्तिविजयः एकस्य प्रश्नस्योत्तरं केवलमनुमानेन दीयताम् । किञ्चाऽस्य प्रश्नस्य वास्तविकमुत्तरं तु वैज्ञानिका अपि नैव जानन्ति, केवलमनुमिन्वन्त्येव ते । अत उक्तं - केवलं तर्कबलेनैव प्रत्युत्तरयन्तु – सङ्गणकयन्त्रस्य स्मृतेः (Memory) सन्दर्भ मनुष्यमस्तिष्कस्य स्मृतिक्षमता कियत्यस्ति ? अर्थात् मनुष्यस्य स्मरणशक्तिः कियतां मेगाबाइटानां(MB) गिगाबाइटानां(GB) वा सङ्ग्रहं कर्तुं समर्था ? यद्यप्येतादृशं साम्यमत्र कर्तुं सर्वथाऽशक्यमेव, यतः सङ्गणकयन्त्रं तावत् स्वीयस्मृतौ सर्वामपि सामग्री शून्यमेकश्चेत्यङ्कद्वयरूपेणैव सङ्ग्रह्णाति, मस्तिष्कं तु स्मरणसामग्री रासायणिकसङ्केतरूपेण सगृह्णाति । एवं सत्यपि रोबर्ट-बर्जनामकेनाऽमेरिकीयरसायणशास्त्रिणा स्मृतिक्षमतायाः परीक्षणं कृत्वाऽनुमानबलेन निर्धारितं यद् वयस्कस्य सामान्यमनुष्यस्य मस्तिष्कं प्रायः १०००गिगाबाइटमितां स्मरणसामग्री सङ्ग्रहीतुं समर्थमिति, अर्थात् मस्तिष्कस्य क्षमता ०-१ तुल्यानां ८०,००,००,००,००,००० अङ्कानां (नाम तन्मितायाः सामग्रयाः) सङ्ग्रहं यावन्नैव क्षीयते । बहूनां संशोधकानां त्वियं सङ्ख्याऽल्पा प्रतिभाति । मानवमस्तिष्कस्य प्रत्येकं कोषः द्वौ वा त्रीन् वाऽङ्कान् सङ्ग्रहीतुं क्षमोऽस्ति, अतस्तत्क्षमता ३०००गिगाबाइटमिताऽवधारणीयेति । ___अथो भवतु नाम मनुष्यमस्तिष्कस्य सङ्ग्रहक्षमता या काऽपि, अस्माभिरत्र चिन्तनीयो विषयस्तु पशु-पक्षिणां स्मृतिशक्तिमधिकृत्याऽस्ति । अस्माकं प्रश्नोऽप्ययमेवाऽस्ति यत् - मनुष्यस्य स्मृतिशक्तेस्तुलनायां पशु-पक्षिणां स्मृतिः कियती कीदृशी चाऽस्ति ? - इति । अथ च यदा पशु-पक्षिणां स्मृतिविषये विचारयेम तदाऽस्माकं स्मृतौ सर्वप्रथम दृष्टान्तं हस्तिन एवाऽवतरति, यतो हस्तिनः स्मृतिविषये यावत्यः किंवदन्त्यो जनश्रुतयश्च सन्ति तावत्यो न कस्याऽपि पशोः पक्षिणो वा विषये सन्ति । यद्यपि तासु बह्वयोऽवितथैव सन्ति, वैज्ञानिकाश्चाऽपि ता अनुमन्वते, यतः सर्वेषामपि भूचर-सजीवानां मनुष्यसहितानामपेक्षया हस्तिनो मस्तिष्कं बृहत्तममस्ति । आफ्रिकीयहस्तिनो मस्तिष्कं सार्धषट्किलोग्राममितमस्ति एशियाखण्डीयगजस्य च मस्तिष्कं सार्धपञ्चकिलोग्राममितं भवति महत्तमतया । (हस्तिनोऽपेक्षया नैकगुणभारयुतस्य व्हेलमत्स्यस्य मस्तिष्कं केवलं किलोग्रामद्वयमितमेव भवति ।) तथा मस्तिष्केपि यत्र चिरकालीनानि स्मरणानि सगृह्यन्ते स temporal lobes - इत्याख्यो विभागोऽपि गजविषये सुविकसितोऽस्ति । अतः स्मर्तव्यान् शुभाशुभाननुभवान् सामान्योऽपि गजो न मासान् यावदपि तु वर्षाणि यावन्नैव विस्मरति । उदाहरणमेकं पश्यामः – जर्मनीदेशस्य ड्रेस्डेननगरस्थे प्राणिसङ्ग्रहालये जम्बोनामाऽऽफ्रिकीयो हस्ती द्वाभ्यां हस्तिनीभ्यां सह संवासित आसीत् । अथैकदा तस्याऽन्त्रे कश्चन रोग उत्पन्नः । ततश्च तेनाऽऽहारग्रहणं स्थगितम् । कर्मचारिभिस्तस्य बहव उपचाराः कृताः परन्तु नैष्फल्यमेवाऽर्जितम् । अन्ततो २५ Page #35 -------------------------------------------------------------------------- ________________ गत्वा तैर्म्युनिकनगरस्य निपुणः पशुचिकित्सक आहूतः । तेनाऽप्यागत्य हस्ती परीक्षितस्तस्मै च रोगनाशकमौषधं प्रदत्तम् । किन्तु तेन तन्नैव स्वीकृतम् । अनुभविना चिकित्सकेन निरीक्षणाज्ज्ञातं यत् समीपस्थायै हस्तिन्यै यो भोजनग्रासो दीयते स्म तमयं हस्ती कदाचिद् बलादाच्छिद्य स्वयमेव खादति स्मेति । एतदपि च प्रायः स्वयं भोजनं त्यक्तवति तयोर्भोजनकरणं तस्मै नैव रोचते स्मेति कारणात् । ततश्च चिकित्सकेन सुस्वादौ भोजनकवले तदौषधं निक्षिप्य स कवलो हस्तिन्यै प्रदत्तः । तद् दृष्ट्वा कुपितेन हस्तिना तं कवलमाच्छिद्य स्वमुखे निक्षिप्तः । किन्तु कवलं मुखे निक्षिप्तवतैव तेन चिकित्सककृता वञ्चना ज्ञाता तदौषधस्वादमभिज्ञाय । अतः सोऽतीव क्रुद्धो जातो निकटे स्थितं पाषाणखण्डं च शुण्डया गृहीत्वा चिकित्सकं प्रति प्रक्षिप्तवान् । दिष्ट्या चिकित्सको रक्षितोऽभवत् । किन्तु कुपितस्य हस्तिनस्ताण्डवं चिराय प्रवृत्तम् । वृत्तस्याऽस्य घटनानन्तरं सप्त वर्षाण्यतीतानि । तावता च नैकवारमपि स चिकित्सको ड्रेस्डेननगरे प्राणिसङ्ग्रहालयं गतवान् । तत एकदा स्वीयौ द्वौ पौत्रौ प्राणिसङ्ग्रहालयं दर्शयितुं तत्राऽपि विशेषतो जम्बोहस्तिनः खेलां दर्शयितुं नीतवान् सः । तदानीं तस्य वेषोऽपि बहुभिन्न आसीत्, शिरस्यपि च तेन शिरस्त्रं धारितमासीत्, कालबलाच्च तस्य देहोऽपि किञ्चिदिव परावर्तित आसीत् । सहैव सपौत्रः स सार्धशतमनुष्याणां समूहे स्थित आसीत् । एवं सत्यपि जम्बोहस्ती तं क्षणार्धेनैव प्रत्यभिज्ञातवान् तमाक्रान्तुं चाऽभिधावितवान् | वर्षसप्तकपूर्वं जातमनुभवमितोऽपि जम्बो नैव विस्मृतवानासीत् नाऽपि च तस्मिन्ननुभवे तेन सह कपटाचरणं कृतवन्तं चिकित्सकम् । एतादृश्या दृढायाः स्मरणशक्तेः कुप्रभावं बहुभ्यो वर्षेभ्यो युगाण्डादेशीया जना सम्यक्तयाऽनुभवन्तः सन्ति । तत्र हि देशे बहव आखेटका हस्तिनां दन्तयोः प्राप्त्यर्थं निर्मर्यादतया हस्तिनो घ्नन्ति । यूथमध्ये स्थितः कश्चन करी यदा समेषामपि यूथीयानां समक्षमेव हन्येत तदा ते करिणः कदाऽपि तामाघातजनिकां घटनां नैव विस्मरेयुः । हस्तिनो न कदाऽपि विस्मरन्ति नाऽपि क्षमन्ते ( Elephants never forget and cannot forgive) इत्युक्त्यनुसारं ते रात्रौ मनुष्याणां ग्रामाणि गत्वा गृहाणि क्षेत्रादिकं च सर्वमपि समाक्रम्य विनाशयन्ति, ये केऽपि च मनुष्यास्तन्मध्ये दृश्यन्ते तानपि निर्दयं घ्नन्ति । आफ्रिकीयवन्यजीवनाभ्यासकाः कथयन्ति यन्नैते हस्तिन एतत् सर्वमाहारार्थं कुर्वन्त्यपि तु मनुष्याणां धृष्टताया: प्रतीकारार्थमेव कुर्वन्ति । - इदमिदानीमेव संशोधकानां दृष्टिपथे हस्तिनां स्मृतिविषये नूतनमेकं वृत्तं समागतमस्ति । I आफ्रिकीये देशे बोट्सवानानामनि सावुतीचेनलाभिधा प्रणाली (canal) विद्यते । त्रिंशतो वर्षेभ्यः पूर्वं साऽत्यन्तं जलसमृद्धाऽऽसीत्, हस्तिसहितानां नैक पशु-पक्षिणां कृते सा विश्रान्तिदायिन्याश्रयस्थानं चाऽऽसीत् । अथाऽकस्मात् केनचिदज्ञातेन कारणेन तत्र स्थितं जलं शनैः शनैर्हीयमानं जातम्, अल्पेनैव च कालेन सा सर्वथा निर्जला जाता । ततश्च हस्तिनोऽन्ये च प्राणिनस्तत्राऽऽगमनान्निवृत्ता अभवन् । अधुना किल त्रिंशद्वर्षानन्तरं पुनरपि केनचित् कारणेन सा प्रणाली पुनरपि जलसमृद्धा जाताऽस्ति । भूस्तरशास्त्रिणामनुसारं भूगर्भे जातानां केषाञ्चिद् भूस्तरीयपरिवर्तनानां कारणादेवं जातमस्ति । भवतु तत्, २६ Page #36 -------------------------------------------------------------------------- ________________ किन्तु दूरवर्तिप्रदेशेषु वसतां हस्तिनामपि प्रणाल्या जलसमृद्धत्वस्य समाचारः प्राप्तः स्यादितीव नैके हस्तिनो विभिन्नेभ्यः प्रदेशेभ्यः शतशः किलोमीटराणां प्रवासं कृत्वा तत्र समागताः सन्ति । एष च प्रवासस्तैः कुत्राऽपि मार्गभ्रंशमप्राप्य निर्विघ्नतया कथं कृतः खलु ? यदि स्मृतौ सावुतीप्रणाल्या मानचित्र(map)मङ्कितं स्यात् तदैवैतत् सम्भवेत् किल ! आश्चर्यं त्वेतद् यत् प्रायो वर्षाणां सार्धद्वयदशकादारभ्य न कोऽपि हस्ती तत्र प्रणाल्यां समागतचरः। एवं स्थितेऽपि तेषां स्मृतिपटे एतन्मानचित्रमक्षुण्णं वर्तते । एतदेव दर्शयति यद् - जननानन्तरं हस्ती यमपि प्रदेशं गच्छति तस्य मानचित्रं तत्स्मृतिपटेऽङ्कितं भवति, यावज्जीवं च तत् स नैव विस्मरति । परमत्र प्रश्नस्त्वेष एव यत् त्रिंशद्वर्षानन्तरं प्रणाल्यां जलं समागतमिति तु हस्तिभिः कथं ज्ञातं किल ? एतदुत्तरं ज्ञातुमस्माभिः प्रतीक्षा कर्तव्या, संशोधनं प्रवर्तमानमस्ति । हस्तिनामेतादृशस्याऽऽचरणस्याऽयमेव भावार्थो यत् तन्मस्तिष्कं त्रिधा सामर्थ्यं धारयति, यथा - १. यं कमपि जातमनुभवं स्मृतिस्थं कर्तुं तत् समर्थम् । २. धारणास्वरूपेण तेऽनुभवास्तत्राऽवस्थिता भवन्ति । ३. यदा कदाऽपि च समये हस्ती ताननुभवान् पुनरुद्बोधयितुं समर्थोऽस्ति । एवं च हस्तिनस्तीवां स्मरणशक्तिमाश्रित्य नैके उदाहरणाः प्राप्यन्ते, किन्तु, इतोऽन्येऽपि बहवः पशु-पक्षिणः सन्ति येषां स्मृतिरनन्यसाधारणतया तीव्रा सत्यपि बहुप्रसिद्धिं नैव प्राप्तवत्यस्ति । इतः पादोनशतवर्षेभ्यः पूर्वमपि प्रकृतिविद एतदपि सम्यक्तया न जानन्ति स्म यन्मनुष्येतराणां सजीवानां मस्तिष्के स्मरणक्षमता विद्यते न वेति । ततः १९३५ तमे वर्षे ओस्ट्रियादेशीयेन विश्रुतेन जीवविज्ञानिना कोनराडलोरेन्सेनैदम्प्राथम्येनैतद्दिशि रसप्रदं संशोधनं समारब्धम् । विविधान् प्रयोगान् कृत्वा तेन दर्शितं यज्जन्मकाले पक्षिशावकानां मस्तिष्कमरञ्जितपटवत् सर्वथा स्वच्छं भवति, प्रथमापाते तस्मिन् यदपि स्मरणमब्यते तच्चिराय तत्राऽवस्थितं भवति । अयं च स्मरणप्रकारस्तेन विज्ञानिना मुद्राङ्कन(imprinting)रूपेण वणितः । लोरेन्सेन स्वीयाः प्रयोगा हंसशावकोपरि कृताः । तेन दृष्टं यद् - यदाऽण्डकवचं भित्त्वा शावको बहिरागच्छति तदा सामान्यतया स यत्किमपि गतिमद् वस्तु सचेतनं वा पश्यति तस्याऽऽकारं स्वीये मस्तिष्केऽङ्कयति, ततश्च तं स्वमातरं मत्वा स सदाऽपि तमेवाऽनुसरति । स्वीयप्रयोगकरणकाले बहुशः स स्वयमेव परिपक्वानामण्डानां समक्षमुपस्थितो भवति स्म, येन यदाऽण्डकवचं भित्त्वा शावका बहिरागच्छेयुस्तदा सर्वप्रथमतया ते तमेव पश्येयुः । यदा चैवं भवति स्म तदा ते शावकास्तमेव स्वीयं मातरं मत्वा तमेवाऽनुसरन्ति स्म । अथैकदा लोरेन्सो हंस्याः काष्ठमयीमाकृतिं तत्रोल्लम्बितवान् तन्तुसाहाय्येन च गतिमती तां कृतवान् । ततश्च यदा शावका अण्डेभ्यो विनिर्गतास्तदा ते तामाकृतिं दृष्ट्वा तामेवाऽन्वसरन्त । लोरेन्सेनैतदपि निरीक्षितं यदेतेषां शावकानां स्मृतिपटे यदिदं प्रथममङ्कनं भवति तदतीव चिरस्थायि भवति, तच्च नह्यल्पकालेनाऽपगच्छति । एवं च लोरेन्सस्य प्रयोगैमनुष्येतरजीवेष्वपि स्मरणशक्तेः सत्त्वं प्रमाणितं जातमैदम्प्राथम्येन । अङ्कनं भवतीत्येव ज्ञापयति यज्जन्मकालीनोऽनुभवो मस्तिष्कस्य कस्मिंश्चित् कोणेऽवस्थितोऽस्तीति, तन्नाम च २७ Page #37 -------------------------------------------------------------------------- ________________ मस्तिष्केऽनुभवं स्मृतिस्थं कर्तुं सामर्थ्यमस्तीति - अर्थात् पशु-पक्षिणामपि स्मरणशक्तिरस्त्येवेति । एतस्मिंश्च प्रमाणिते जातेऽन्यः प्रश्न उत्थितः संशोधकानां समक्षं यत् - पक्षिणां मस्तिष्केऽनुभवाङ्कनस्येयं प्रक्रिया केन हेतुना प्रवेशिता प्रकृत्या ? एतस्य तार्किकमुत्तरं चिन्त्यते चेत्तर्हि ज्ञायते यत् - स्पर्धापूर्णायां वन्यसृष्टौ पदे पदे मरणभीतौ सत्यां स्वस्य रक्षणार्थमवस्थानार्थं ( survival) च शावकेन स्वीयमातुः सान्निध्य एवोषितव्यं, वियोगे तु मरणमेव स्यादतो जननान्तरमेव शावकस्य मस्तिष्के मातुराकारस्य मुद्राङ्कनं भवति यच्चाऽदृश्यरूपेण तस्य स्वीयमात्रा सह बन्धनं रचयति । अस्य बन्धनस्य च वशंवदः स शावकः सततं मातरमेवाऽनुसरन् तत्सान्निध्य एव वसति न किन्तु यत्र कुत्राऽपि गच्छति । एवं च स्मृतिपटे जातमिदं मुद्राङ्कनं शावकस्य कृते एका दृढा रक्षणव्यवस्था सिद्धा भवति । मुख्यतया च हंससदृशानां पक्षिणां विषये इयं व्यवस्थाऽतीव महत्त्वपूर्णा भवेद्यतस्तेषां पक्षिणां प्रायः सप्ताष्टाः शावकास्तु भवन्त्येव, तथाऽऽखेटकाः प्राणिनस्तान् दृष्टमात्रानेव हन्तुं प्रयतन्ते, किन्तु यदा ते स्वीयमातुः सान्निध्ये भवन्ति तदाऽऽखेटकादीनां भयं सर्वथाऽल्पीभवति । ततश्च बहूनां मासानामनन्तरं यदा वयस्कस्य शावकस्य स्वमात्रा सह सम्पर्क आकस्मिकतया सर्वथा च विच्छिन्नो भवेत् तदैव तन्मुद्राङ्कनं शनैः शनैरपमृज्यते तत्स्थाने च वन्यजीवनस्य विविधा अनुभवाः स्मरणस्था भवन्ति ये च तस्य पक्षिणो जीवनं रक्षितुं सहायका भवन्ति । एतादृशामनुभवानां साहाय्येन स पक्षी स्वीयं वर्तनं तथा परिवर्त्तयति यथा तस्याऽवस्थानस्य (survival) अवसरा अवकाशाश्चाऽधिका भवन्ति । स्मरणशक्तेः प्राबल्यस्याऽन्यदुदाहरणं चाष (Jay) पक्षिणोऽस्ति । स्वस्याऽऽहारार्थं बहूनि भक्ष्यवस्तूनि वृक्षकोटरेषु भृगूनामधस्तात् शुषिरेषु, पाषाणानां च रन्ध्रेषु भविष्यत्कृते गोपायति स: । यदा चाऽऽहारसङ्कटं भवति तदा स क्रमश एकैकं स्थानं गत्वा सञ्चितमाहारं निष्कास्योदरसात् करोति । एतेषां चाषाणां वर्षषट्कं यावदभ्यासार्थं निरीक्षणं कुर्वाणेन निकोला - क्लेटनाभिधेन जीवविज्ञानिनाऽवलोकनकाले लक्षितं यत् चाषेण सञ्चितो गोपितश्च सर्वोऽप्याहारो रक्षितो नैव तिष्ठति । चौर्यस्य कैतवस्य च बहवः प्रसङ्गा भवन्त्येव तच्छत्रुकृता यदा कदाऽपि । कस्मिन् स्थाने गोपितं भक्ष्यं चोरितमिति तु कदाचित् चाषो द्वित्रमासानन्तरमेव ज्ञातुं प्रभवति । नूतनाहारगोपनकालस्तु ततोऽपि द्वित्रमासानन्तरमुपतिष्ठति । अरण्ये च तस्य गोपनस्थानान्यपि प्रायो शतद्वयादप्यधिकानि भवन्ति । एवं स्थितेऽपि पञ्चषमासेभ्यः पूर्वं कतमात् स्थानादाहारश्चोरितो जात इति तु सम्यक् स्मृत्वा स पक्षी पुनरपि तस्मिन् स्थाने आहारगोपनं नैव करोति । एकवारं वञ्चितो विप्रलब्धश्च स पुनरपि तादृशं स्खलनं नैव करोति । स नूतनानि स्थानान्यन्विष्य तेषामभिज्ञानं स्वीये स्मृतिपुटे सङ्गृह्णाति । एवं च प्रतिवर्षं स्थानानि परावर्त्यन्त एव, तानि च शतशो भवन्ति । किन्तु चाषः सर्वाण्यपि तानि पुराणानि नूतनानि च स्मरत्येव । तत्र नूतनानि तावत् तत्राऽऽहारो गोपितोऽस्तीत्यतः, पुराणानि तु तत्र कदाऽप्याहारसञ्चयः भविष्यत्यपि न कर्तव्य इति ! - - एतादृश्येव कदाचिच्चेतोऽप्यधिका स्मरणशक्तिः प्राणिजगति बहूनां जीविनां भवति । तदुदाहरणानि त्वागामिन्यां शाखायां चर्चयिष्यामः । ( आधार : गूर्जरभाषीयं विज्ञानसामयिकं सफारी) * २८ Page #38 -------------------------------------------------------------------------- ________________ आस्वादः निद्रा मुनिकल्याणकीर्तिविजयः अस्मिन् जगति विद्यमानानां प्रत्येकं जीवानां सामान्यं साधारणं च सुखं किं नाम ? - इति प्रश्नस्यैकेनैव शब्देनोत्तरं दातव्यमिति यदि कथ्येत तदा तदुत्तरमस्ति - निद्रा । आबाल-वृद्धानां समेषामप्ययमनुभवोऽस्ति यत् - श्रमानन्तरं, भोजनानन्तरं, पठनानन्तरं यावद् दुःखानुभवानन्तरमपि सर्वेषां निद्रव शरणं भवति । निद्रायाश्च समाश्रयणेन सर्वोऽपि श्रमः, सर्वोऽप्यायासः, यावत् सर्वमपि दुःखं विस्मर्यते, प्राणी च नितरां सुखानुभवलीनो भवत्यानिद्राकालम् । एवं च सर्वेषामपि प्राणिनां साधारणं सुखमस्ति निद्रा, निद्रात्यागानन्तरं तु भवतु नाम दुःखं वा शोको वा । एनमेवाऽर्थं मनसि निधाय गूर्जरादिभाषासु किञ्चनाऽऽभाणकमप्यस्ति यथा "सूतां त्यारे समाधि, जाग्या त्यारथी उपाधि-" (सुप्तावेव समाधिः, जागरणे तूपाधिः !!) कर्मशास्त्रेषु तु यद्यपि निद्रा दर्शनावरणकर्मणो भेदतया प्रतिपाद्यते, यतो निद्रया जीवस्य दर्शनशक्तिरावियते; तथा निद्रारतो जीवो जागृतिहीनो भवति, अजागृतस्य च कुतः पुण्यसम्भव इति निद्रा पापकर्मतयाऽपि परिगण्यते । एवं सत्यपि निद्राया अवगणना कर्तुं न शक्यते, यतः कैवल्यप्राप्तेरुपान्त्यसमय एव सा क्षयं याति । ततश्च यथाशक्यं तां निगृह्य, सत्कृत्य च साधको जेतुं प्रयतते, जागृतो भवितुं चाऽऽरभते । २९ Page #39 -------------------------------------------------------------------------- ________________ यद्यपि निद्रा सर्वथा दुर्जयाऽस्ति, सम्पूर्णतया जागरणरत एव साधकः कदाचित् तां जयति, अन्ये तु तां जेतुं प्रयतमानाः कदा तया जिता भवन्ति तदपि नैव ज्ञायते । अतो योगाभ्यासारम्भकानां कृते ऐदम्प्राथम्येन गुरूणामियमेव शिक्षा भवति यद् – यदि सम्यक्तया योगाभ्यासं कर्तुमिच्छुकास्तहि सम्यगाहारं सम्यविहारं सम्यनिद्रां चाऽऽद्रियध्वमन्यथा यदा कदाऽपि योगाभ्यासभ्रष्टा भविष्यथ । एवमेव त्यागिवृन्देष्वपि एतादृश्येव हितशिक्षा दीयमाना श्रूयते यद् - आहारो निद्रा च यथा यथा वय॑ते तथा तथा वृद्धिङ्गतौ भवतः, यथा यथा च न्यूनीक्रियेते तथा तथाऽपचिनुतः - इति । अथ च साधकानां लाभार्थं निद्रां विषयीकृत्य महापुरुषेण विनोबाभावे-इत्यनेन केचन विचाराः प्रस्तुताः सन्ति तेऽत्र समुल्लिख्यन्ते - यद्यपि निद्रा प्रमादोऽस्ति तथाऽपि यदि लाभालाभदृष्ट्या चिन्त्यते तदा निद्रैका सर्वथाऽऽवश्यकी परिस्थितिरस्ति । निर्दोषा गाढा च निद्राऽतीव पवित्राऽस्ति । साधूनां सत्पुरुषाणां च निद्राऽपि कश्चनोत्तमो योगाभ्यास एव । तेषामिव शान्तां गाढां च निद्रां कश्चन भाग्यशाल्येव प्राप्नोति । गाढनिद्रातुल्या न काऽपि भगवत्प्रार्थना, वस्तुतस्तु च गाढनिद्रैव समाधिरस्ति योगग्रन्थवणिता । निद्रां त्यक्त्वा यदि कश्चन भगवत्प्रार्थना कर्तुमिच्छति तर्हि न तदुचितं, यतस्तथा कुर्वतस्तस्य निद्रा प्रार्थना चेति द्वयमपि विनश्यति । अपि च भगवांस्त्वस्ति जननीतुल्यः, स तु न कदाऽपीच्छति यत् तस्य भक्तो निद्रां त्यक्त्वा प्रार्थनां कुर्यादिति । किञ्च, निद्राया महत्ता केवलं दैर्येण न स्वीक्रियतेऽपि तु स्तोकाऽपि सा यदि गाढा गभीरा चाऽस्ति तदाऽतीव महत्त्वपूर्णा फलप्रदा च । एकाग्रेण मनसा कृतं मुहूर्तमात्रमप्यध्ययनं चाञ्चल्येन कृतात् प्रहरमितादध्ययनादपि प्रभूतं फलं यथा प्रदत्ते तथैव निद्राविषयेऽपि तत् सत्यमस्ति । स्वस्थनिद्रायास्त्रीणि लक्षणानि सन्ति - उत्साहवृद्धिः, विकारशमनं, ज्ञानपरितोषश्च । एतत्प्राप्तये च गाढा निःस्वप्ना च निद्राऽऽवश्यकी । तत्कृते च आदिनं यदपि क्रियेत तत् तथा कर्तव्यं यथा तद् न निद्रां वा प्रभावितं कुर्यात् न वा स्वप्नस्य च कारणं भवेत् । यस्मिन् विषयेऽस्माकमासक्तिरप्रीतिर्वाऽस्ति तद्विषयका एव स्वप्नाः प्रायशो भवन्ति, अर्थाद् रागविषयका द्वेषविषयका वैव स्वप्नाः दृश्यन्ते । अतः सावधानतया तथा वर्तितव्यं यथा जागृतावेवाऽल्पाल्पौ राग-द्वेषौ स्यातां, तथा याऽपि क्रिया स्वप्नं प्रभावयेत् सा क्रिया झटित्येव स्थगनीया । मम मतेन तु स्वप्नदर्शनमेवाऽयोग्यमस्ति । अतो यदि भगवान् स्वयमेवाऽपि स्वप्ने समागत्याऽस्माकं किञ्चन सूचनं दद्यात् तदा भगवते निवेदनीयं यद् यदि परं जागृतावेव सर्वसमक्षं सूचनीयोऽहं, न पुनश्चौर्येणैवं स्वप्नेषु-इति । मम स्वकीयोऽनुभवोऽस्ति यद् गाढया स्वप्नरहितया निर्दोषया च निद्रया विचाराणां यादृग् विकासो भवति तादृक् तु निर्विकल्पसमाधिनैव यदि परं भवति नाऽन्यया कयाचिदपि परिस्थित्या । शयनात् पूर्वं सर्वोत्तमा विचाराः कर्तव्या येन चिन्तने तेषां बीजान्युप्येरन्, ततो गाढनिद्रारूपया मृत्तिकया तान्याच्छाद्येरन्, तदा तेषां बीजानामत्युत्तमो विकासो भविष्यति । ३० Page #40 -------------------------------------------------------------------------- ________________ मम मतेन तु स एव स्ववशोऽस्ति यः स्वेच्छया निद्रां कर्तुं शक्तः स्यात् । महान् सेनापतिर्नेपोलियनस्येयं क्षमताऽऽसीद् यत् स यदेच्छेत् तदा - युद्धे प्रवर्त्तमानेऽपि निद्रातुं समर्थ आसीत् । ईदृशीं क्षमतां यदि वयमपि साधयेम तदा महान्ति कार्याण्यपि लीलया कुर्याम । निद्रामनुभवन्ति सर्वेऽपि किन्तु सा कथमायाति कथं चाऽस्मान् स्ववशे गृह्णाति - इति तु न केऽपि जानन्ति । योगशास्त्रानुसारं तु सैका वृत्तिरस्ति यस्याऽऽधारोऽभावात्मिकाऽनुभूतिरस्ति, यदुक्तम् अभावप्रत्ययावलम्बनावृत्तिर्निद्रा || प्रायशो हि जना व्यग्रा एव भवन्ति, न कुत्रचिदपि समाधानं लभन्ते । यदि निद्रा नाऽभविष्यत् तदा तु ते सर्वदा व्यग्रा एवाऽस्वस्थाश्चैवाऽभविष्यन् न च कुत्राऽपि शान्तिं लभेरत् । किन्तु निद्राऽऽगत्याऽशान्तेभ्यो व्याकुलेभ्यश्च जनेभ्यः समाधिं प्रदत्ते । तत्राऽपि गाढा निःस्वप्ना च निद्राऽपूर्वामेव शान्ति प्रसारयति चित्ते । प्रश्नस्त्वयमेवाऽस्ति यत् तादृशी निद्रा कथं लभ्येत ? मया दीर्घकालिकेनाऽनुभवेनाऽत्राऽर्थे प्रक्रियेयं चिन्तिताऽस्ति — (१) आदिनं परिश्रमं कुर्वतो जनस्य शरीरं श्रान्तं भवति । तदनु शयनानन्तरमेव गाढा निद्रा समागच्छेत् । (२) मम चिन्तितं सर्वमपि कार्यं परिपूर्णं जातमिति तृप्तिः परितोषश्च शान्तनिद्राया आवाहकौ स्याताम्। (३) शयनकाले गृहीता दीर्घश्वासोच्छ्वासा विचारचक्रं शान्तं कुर्वन्ति, काम-क्रोधादीन् विकारांश्च शमयन्ति । ततश्च निद्रा स्वयमेव शान्ता गाढा च भवति । (४) भगवन्नामस्मरणे रतं चित्तमपि सारल्येन निद्राधीनं भवति । (५) भोजनानन्तरं कञ्चित् कालमतिवाह्यैव शयनीयं, यत उदरे आहारपरिपाकस्य प्रक्रियायां जायमानायां निर्विघ्ना निद्रा नैव भवति । गाढनिद्रायाः किमित्येतावन्महत्त्वमिति प्रश्नस्येदमुत्तरं - गाढनिद्रायां सर्वमपि शान्तं भवति, कर्णौ किमपि न शृणुतः, अक्षिणी नैव पश्यतः, इन्द्रियाणि शाम्यन्ति, मनो विलीनमिव भवति, एवं शनैः शनैः सर्वमपि शान्तं भवति, केवलं स्वयं साक्षिरूपेण तिष्ठामो वयम् । एष एव नाम समाधिः | अभ्यासे च जाते यन्निद्रायामनुभूयते तज्जागृतावप्यनुभूयते । साधकस्य कृते सर्वश्रेष्ठं साधनं सर्वोत्तमं च कर्म समाधिरेव स च समाधिर्गाढया पूर्णया निःस्वप्नया च निद्रयाऽपि सिध्यति । यतः समाधिर्नाम मनो-बुद्ध्योः परमात्मनि लयः, आत्मिकशक्तेश्च प्रादुर्भावः । यद्यस्माकं यथोक्ता निद्रा स्वसात् स्यात् तदा वयमपि परमात्मनो नैकट्यं प्राप्य स्वात्मशक्तेः पूर्णं विकासं कर्तुं समर्था भवेम । एवं च प्रमादरूपायाः कर्मोदयस्वरूपायाश्च निद्रायाः सकाशादपि वयं श्रेष्ठमात्मिकलाभं प्राप्तुं शक्ता यदि जागृतिमभ्यासं चाऽनुवर्तेमहि । O ३१ Page #41 -------------------------------------------------------------------------- ________________ आस्वादः अन्तर्भाववादस्य प्रथमोदाहरणम् । यल्लापुरकृष्णशर्मा भारतीयकाव्यमीमांसाया इतिहासे श्रीमदानन्दवर्धनो विशेषेण उल्लेखमर्हति । क्रिस्तीयनवमशतकस्य अन्ते काश्मीरेषु स ध्वन्यालोकनामकमेकं प्रौढं काव्यमीमांसाग्रन्थमग्रथ्नादित्यवगम्यते । आनन्दवर्धनो ध्वन्याख्यस्य काव्यतत्त्वविशेषस्य आविष्कर्ता इति प्रथते । आलङ्कारिकजगति ध्वनिप्रस्थानप्रवर्तक इत्यपि विख्यातः सः । क्रिस्तीयनवमशतकस्याऽन्ते (क्रिस्तशक ९०० - ९०१) काव्यमीमांसकेषु ध्वनेर्व्यवहार आरब्ध इति तर्कयन्ति । ध्वन्यालोकग्रन्थरचनावसरे ध्वनिविरोधो नाम्नाऽपि नाऽऽसीत् । केवलं सम्भावनया कांश्चिद् विरोधान् "भाक्तमाहुस्तमन्ये" इत्यादिनोदलिखत् ग्रन्थकारो ध्वनि नैव विरुणद्धि - इत्यपि केचित् । सत्यम् । ध्वनिविरोधो नाम व्यञ्जनाविषयकं काव्यं काव्यमीमांसकानां केषाञ्चित् अस्वरस एव । ध्वनिप्रस्थानाभिमतं वस्त्वलङ्काररसादिरूपं काव्यार्थं तु न कोऽपि सहदयो विरुणद्धि । अन्तर्भाववादिनामपि व्यञ्जनाविषये केवलं विवादः । ध्वन्यलोकरचनासमकालं ध्वनिविरोधो नाऽऽसीदेवेति तु सम्भाव्यते । ध्वन्यालोकरचनादुत्तरं तु "नूतनेयं व्यञ्जना शास्त्रकारैरननुज्ञाता'' इतिकृत्वा व्यञ्जनावृत्तिविषये केषाञ्चिदरुचिः सम्भाव्यते । क्रिस्तीयदशमशतकस्याऽऽदिभागे उद्भटस्य काव्यालङ्कारसारसङ्ग्रहस्य लघुवृत्तौ प्रतीहारेन्दुराजः केषुचिदलङ्कारेषु ध्वनिमन्तरभावयत् । तथा प्रतीहारेन्दुराजस्य समकालिकः सिंहलीयो बौद्धपण्डितः रत्नश्रीज्ञाननामा काव्या ३२ Page #42 -------------------------------------------------------------------------- ________________ दर्शव्याख्याने रत्नश्रीनामके समासोक्तिप्रकरणे - इयमेव चाऽन्यैः ध्वनिरिति कथ्यते - इत्युक्त्या ध्वनिमलङ्कारेष्वन्तर्भावयति । इमौ प्रतीहारेन्दुराज-रत्नश्रीज्ञानौ आनन्दवर्धनात् परवर्तिनावित्यवगम्यते । कर्णाटकेषु कन्नडभाषायां कविराजमार्गनाम्नो ग्रन्थस्य रचयिता श्रीविजयाख्यः कविपण्डितः प्रथते । राष्ट्रकूटवंशस्य नृपतुङ्गस्य राज्ञ आश्रये क्रिस्तीयनवमशतकस्योत्तरार्धे श्रीविजयः कविराजमार्गमारचयदिति (माकिं क्रिस्तशक ८७५) सम्भाव्यते । कविराजमार्गग्रन्थरचनाकाले ध्वन्यालोकग्रन्थस्य रचनाकार्य नाऽवसितमासीदिति च तर्कयन्त्यालोचकाः । परं काव्यतत्त्वविशेषार्थकस्य ध्वनिशब्दस्य उल्लेखः कविराजमार्गे दृश्यते । कथमिदं समपद्यतेति विदुषामाश्चर्यं जागति । ध्वन्यालोकस्योदपात्पूर्वं "ध्वनिकारिका"नाम्नी काचन लघुकाया कृतिराविरासीदालङ्कारिकजगति इति किंवदन्ती तु प्रचलति । परन्तु विद्वांसस्तां न विश्वसन्ति । ध्वन्यालोकात्पूर्वं ध्वनिकारिकाख्यायाः कृतेः सम्भावना नैव युज्यते । ध्वन्यालोके विद्यमानानां कारिकाणामेव ध्वनिकारिका इति व्यवहार आलङ्कारिकजगति - इति विदुषामाशयः । अत एव कविराजमार्गे विद्यमानस्य ध्वनिशब्दस्य काव्यतत्त्वविशेषरूपोऽर्थो नैव घटते । अपि तु लोकव्यवहारे यथा भेरीध्वनिः, वीणाध्वनिः, सोपानमार्गे पतितं तु पात्रं ध्वनि टठं ठं तनुते यथैवेतिवत् केवलं निनाद इत्येवाऽर्थो ग्राह्य इति केषाञ्चित् कन्नडविदुषामाग्रहः । ध्वन्यालोकात् पूर्वमालङ्कारिकजगति काव्यतत्त्वविशेषार्थकस्य ध्वनिशब्दस्य व्यवहारो नाऽऽसीदेवेत्यत्र यद्यस्ति स्पष्टं प्रमाणं तर्हि कविराजमार्गस्थं ध्वनिशब्दघटितं कन्दपद्यं प्रक्षिप्तं ध्वन्यालोकात् परस्तादिति अङ्गीकर्तुमुचितम् । तद्विहाय ध्वनिशब्दस्य अर्थापलापो न युज्यते इति नम्रा निवेदना विदुषामग्रे । काव्यमीमांसका विद्वांसो विदांकुर्वन्तु प्रथमं ध्वनिलक्षणकारिकामनन्तरं च कविराजमार्गस्थं कन्नड भाषानिबद्धं कन्दपद्यम्। यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ । व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥ - ध्वन्यालोकः । (रचना-क्रिस्तशक ९००) ध्वनियेंबुदळंकारं ध्वनियिसुगुं शब्ददिंदमर्थदे दूष्यम् । नेनेवुदिदनिंतु कमलदोळनिमिषपुगमोप्पितोदिंतिदु चोद्यम् । - कविराजमार्गः ३-२०९. (रचना क्रिस्तशक ८७५. प्रक्षिप्तत्वे तु क्रि० ९०१ अनन्तरम् ।) ध्वनिस्तावदलङ्कारः ध्वन्यते शब्देन अर्थेन दूष्यम् । स्मर्तव्योऽयमित्थं कमलेऽनिमिषयुगं काशतेतरामतीदं चोद्यम् ॥ - इति च्छाया ३३ Page #43 -------------------------------------------------------------------------- ________________ ध्वनिलक्षणे "अर्थः तमर्थं व्यनक्ति" इति "काव्यविशेषः ध्वनिः" इति चांऽशद्वयं श्रूयते । इदमंशद्वयमाक्षिपति श्रीविजयः "ध्वनिस्तावदलङ्कारः" इति । "ध्वन्यते शब्देन" (नाऽर्थेन इति तु अर्थापत्त्या लभ्यते) न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । इत्युक्तदिशा शब्दः केवलमर्थबोधकः अर्थप्रत्यायकः, न त्वर्थः अर्थान्तरप्रत्यायकः इति ध्वन्यते शब्देन इत्यस्याऽऽकूतम् । अर्थेन दूष्यमित्यस्य व्यञ्जनावृत्तेनिराकरणे तात्पर्यम् । अर्थेनाऽपि ध्वन्यते इत्युक्तिः दूष्या इति । (दुष - वैकृत्ये इति, वैचित्ये इति च पाठो दृश्यते दिवादौ । मुह - वैचित्ये इति । वैचित्यमविवेक इति पर्यवसितोऽर्थः) एवं च ध्वनिलक्षणगतमंशद्वयं प्रतिक्षिपति श्रीविजयः इति पश्यामि । इदं च कन्दपद्यं मौलिकं प्रक्षिप्तं वेति यथाकथा चाऽस्तु नाम । तद्वक्ता तु ध्वनिलक्षणं कथञ्चिज्जानात्येवेति मे मतिः । यथा ध्वनिलक्षणे अर्थ-शब्द-ध्वनि-पदानि घटकानि दृश्यन्ते, तथैव कविराजमार्गस्थकन्दपद्येऽपि तान्येव त्रीणि पदानि दृश्यन्ते । सन्निवेशविशेषरूपं शब्दसाहचर्यमुभयत्राऽपि समानमेव परिलक्ष्यते । अतः कन्नडकन्दपद्यमिदं ध्वनिलक्षणकारिकया गाढं सम्बध्यते इति वक्तुमुचितम् । यदि तु श्रीविजयो ध्वनिलक्षणं नाऽज्ञास्यत् कथं तर्हि स "ध्वन्यते शब्देन" "अर्थेनाऽपी''ति तु दूष्यमित्यवक्ष्यत् ? । यतो हि "अर्थं बुद्ध्वा शब्दरचना" इति हि स्मरन्ति । "अर्थः तमर्थं व्यनक्ति' इति तु ध्वनिलक्षणकारिकात: केवलमवगम्यते नाऽन्यतः । ध्वनिलक्षणार्थमनवगच्छतः कस्यचिदपि वा - ध्वन्यते शब्देन - इति वचनमसम्भव एव । का वा प्रसक्तिरकाण्डे तथा वक्तुम् । कविराजमार्गस्थो ध्वनिस्तावदलङ्कारः इतीयमुक्तिर्यदि मौलिकी, तदा इदमेव कन्दपद्यमन्तर्भाववादस्य प्रथमोदाहरणं भवितुमर्हति । प्रक्षिप्तत्वे त्वस्य प्रथमत्वं केवलं हीयते । ख्याताः कन्नडसंस्कृतोभयभाषाविदः प्रथितयशसः अनन्यसाधारणशेमुषीका: मान्याः पूज्याश्च मम, केचिद् विद्वांसः गते क्रिस्तशतके (क्रिस्त १९४०-१९९०) ध्वनिस्तावदलङ्कारः -- इत्यस्मिन् कन्दपद्ये ध्वनिनामकमेकमालङ्कारमपश्यन् । तस्य चाऽकस्मात् पुरत उद्भूतस्य ध्वन्याख्यस्याऽर्थालङ्कारस्य किंचिल्लक्षणं किंचिल्लक्ष्यं चाऽपेक्षितम् । कन्दपद्ये द्वितीया पङ्क्तिः ध्वन्यते शब्देन अर्थेन दूष्यमिति । इदं चाऽस्यालङ्कारस्य लक्षणम् । कमलेऽनिमिषयुगमिति लक्ष्यमिति उच्चावचाभिर्युक्तिभिर्विस्तरेण न्यरूपयन् ध्वन्याख्यमलङ्कारं महान्तो विपश्चितः । तेषामेषां विपश्चिदपश्चिमानां पुरतः पुरोभागी भूत्वैव कन्दपद्यस्याऽस्य वास्तविकार्थबुभुत्सया भारतीयकाव्यमीमांसकानां सुधीनां पुरतः प्रस्तुतिरियमुपस्थाप्यते, श्रुत्वा तत्रभवन्तः प्रमाणम् । ___10, 8th Main Road, III Phase, GIRINAGAR, BANGLORE-560085 ३४ Page #44 -------------------------------------------------------------------------- ________________ पत्रम् मुनिधर्मकीर्तिविजयः ___ नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । अत्र कुशलं वर्तते । गुरुभगवद्भिः साकं वयं सर्वेऽपि निरामयाः स्मः । चतुर्मास्याराधनार्थं वयं सौराष्ट्रजनपदे भावनगरमध्ये विराजामहे । भो ! अद्य सुखमाश्रित्य किञ्चिद् लिखामि । अद्य सर्वेऽपि जना दुःखिनः सन्ति । कयाचिदपि कठिनपरिस्थित्या वेष्टिताः सन्ति जनाः । प्रतिपदमापत्तय आगच्छन्ति । कदाचित् स्वास्थ्यं प्रतिकूलं स्यात्, व्यापारे कोऽपि धूर्तो वञ्चनां कुर्यात्, पत्नी गृहं विहायाऽन्यत्र गच्छेत्, पुत्रादयो द्रुह्येयुः । समाजेऽपयशः प्रसरेत्, मनसोऽनवधानात् पदभङ्गश्च स्यात् - एवं विविधव्याधिभिर्जना दुःखमनुभवन्ति स्म । ३५ Page #45 -------------------------------------------------------------------------- ________________ पूर्वक्षणपर्यन्तं देवतुल्यसुखमनुभवन् जनोऽपि क्षणादूर्ध्वं दुःखभाग् भवेत् । हताशो जनः स अनन्यगतिकतयाऽऽत्मघातं कर्तुमपि प्रयतेत । अत्र किं कारणम् ? - बन्धो ! कारणमेकमेव यत् सुखं कुत्र ? कथं च सुखं प्राप्यते ? इति न चिन्तयति जनः, उत तच्चिन्तयितुं जनानां समीपे समय एव नास्ति यथा पशव कुत्रचिदपि सुखप्राप्तेः सम्भावना स्यात् तत्राऽचिन्तयित्वैव धावन्ति, तथैव वयमपि जना इतस्ततः सुखाभिलाषेण निरन्तरमकारणमेवाऽटामः । तत एव दुःखिनः स्मो वयम् । हन्त ! अस्माभिर्यत् सुखरूपेण स्वीकृतं तन्न सुखम्, अपि तु सुखाभास एवाऽस्ति । किं नाम सुखम् ? यन्न कदाऽपि नष्टं स्यात्, यत् सर्वदा सामीप्ये एव वर्तते, यत्त्वन्यान्याभिलाषशून्यं स्यात्, तदेव वस्तुतः सत्यं शाश्वतं सुखं चोच्यते । सुखाभासो नाम मृगतृष्णावद् दूरतः सुखरूप आभासमानोऽपि वस्तुतो न सुखरूपः स्यात्, कदाचित् सुखरूपो दृश्यते, तथाऽपि कस्मिन्नपि काले नश्येत् सः । सुखं तु शुद्धधर्माराधनयैव प्राप्यते, यतो धर्मः शाश्वतः सत्यरूपश्चाऽस्ति । यः शाश्वतोऽस्ति स एव शाश्वतं सुखमपि दातुं शक्तः, नाऽन्यः कोऽपि । अद्यावधि यैर्यैर्महाजनैरेषः शाश्वतधर्मः सम्यगाराधितस्तैस्तैस्तत् शाश्वतं सुखमपि प्राप्तमेव । किन्तु यैः क्षणिकस्य नश्वरस्य च धन-गृह- पत्नी - कुटुम्ब - आभूषणादिकस्य प्राप्त्यर्थं जीवनं व्यतीतं तैः क्षणार्धं क्षणिकं सुखाभासतुल्यं सुखं प्राप्तं, किन्तु कालान्तरे तु दुःखमेवाऽवाप्तं न तु शाश्वतं सुखम् - इति । यथा स्वयं दरिद्रोऽन्यं जनं धनिकं कर्तुं न शक्तोऽस्ति तथैव क्षणिकसुखं कथं शाश्वतं सुखं दातुं समर्थं भवेत् ? बन्धो ! सुखं न वस्तुषु व्यक्तिषु च, किन्तु तत्तद्वस्त्वादिकानां स्वीकरणे यादृशी दृष्टिस्तादृशं सुखमवाप्यते । यदि दृष्टिः सतः सत्यस्य च ग्रहणे शुद्धा निर्मला च स्यात्तदा सर्वत्र सदा सुखमेवाऽनुभूयते । तथाऽपि दुर्भाग्यं यत् - अस्माभिर्वस्तु-व्यक्ति - वातावरणेषु चैव सुखं कल्पितं, तन्नोचितम् । किं नाम वस्तुतः सुखमिति शास्त्रे चोक्तम् - परमं पदं नाम मोक्ष, मोक्षे एव शाश्वतं सुखम् । अस्माभिर्या सुखस्य व्याख्या कल्पिता साऽत्र न युज्यते । पश्य यन्न दुःखेन संभिन्नं न च भ्रष्टमनन्तरम् । अभिलाषापनीतं च तज्ज्ञेयं परमं पदम् ॥ अस्माभिर्धनेषु सुखं कल्पितं, किन्तु तत्र त्वतीव दुःखमस्ति । प्रथमं तदर्जने दुःखम् । धनार्जनार्थं किं किं न कृतम् ? माया - प्रपञ्च - कषायादिकमासेवितं, एवं शीत-उष्ण वर्षादिकमपि सोढं त्वया । ततस्तद्रक्षणे अतीव कष्टं सोढम् । ततस्तद्विगमेऽपि दुःखं जातम् - एवं धने कल्पितं सुखं तु दुःखमिश्रितमस्ति । उक्तं च - ३६ Page #46 -------------------------------------------------------------------------- ________________ अर्थानामर्जने दुःखमजितानां च रक्षणे । आये दुःखं व्यये दुःखं धिग् द्रव्यं दुःखवर्धनम् ।। त्वया घटिकायां सुखं कल्पितं, किन्तु केनचित् साऽपहता तर्हि दुःखं, तत एनत्सुखमपि दुःखमिश्रितं स्यात् । एवं सा घटिका न सर्वदा तिष्ठेत्, कदाचिद् नष्टाऽपि स्यात्, ततोऽपि दुःखं जायते । एवं अभिलाषा त्वाकाशसमाऽस्ति । अतोऽभिलाषाया अवधिरेव न भवति । एकेच्छा पूर्णा, तदनन्तरमन्या, सा पूर्णा तदनन्तरमेवाऽन्याऽभिलाषा प्रकटीभवति अतोऽत्राऽपि न सुखमपि तु दुःखमेवाऽस्ति । अत्रैकः प्रसङ्गो लिख्यते मया - ___ कौशाम्ब्यां नगर्यां पुरोहितस्य सर्वविद्याकुशलस्य काश्यपस्य कपिलनामा पुत्र आसीत् । बाल्यकाले एव पितुर्मृत्युर्जातः । ततः कपिलोऽनाथो जातः । कपिलमनादृत्य राज्ञा पुरोहितपदेऽन्यो ब्राह्मणो नियुक्तः । एकदा कपिलमाता पतिसमृद्धि स्मृत्वा रुरोद । साश्रुनयनः कपिलो मातरं किमिति रोदिषीति पप्रच्छ । मात्रा उक्तं - यथाऽयं पुरोहितः समृद्धोऽस्ति तथैव तव पिताऽपि समृद्ध आसीत् । किन्तु त्वं न पठितवान् अतो राज्ञा पुरोहितपदे एष नियुक्तः । कपिलोऽवोचत् – अहं पठितुमिच्छामि । कुत्र गन्तव्यं मया ? मातोवाच - वत्स ! अत्र तु सर्वेऽपि ईर्ष्यालवः सन्ति । ततो यदि त्वं पठितुमिच्छेस्तर्हि श्रावस्ती नगरी गच्छ । तत्र पितुर्मित्रमिन्द्रदत्तोऽस्ति, स त्वां अध्यापयिष्यति । कपिलस्त्वरया इन्द्रदत्तसमीपं गत्वा स्वपरिचयं दत्तवान् । पठनेच्छा प्रदर्शिता, प्रार्थना चाऽपि कृता । स द्विज उवाच – तव मनोरथः श्रेष्ठः श्लाघ्यश्चाऽस्ति । किन्त्वहं निष्परिग्रही, अतस्तवाऽऽतिथ्ये न शक्तः । ततस्तव नित्यभोजनं कथं भवेत् ? भोजनाभावे च पठनं दुष्करमस्ति । कपिलेनोक्तं – भिक्षयैव, भिक्षा न लज्जायै द्विजानाम् । इन्द्रदत्त उवाच - सत्यम् । किन्तु यदि कदाचित् भिक्षा त्वया न प्राप्येत तदा त्वं कथं पठिष्यसि ? ततः स एव द्विजः कपिलं गृहीत्वा कस्यचित् श्रेष्ठिनो गृहमागतवान् । किं याचसे - इत्युक्तं श्रेष्ठिना । द्विज उवाच - अस्मै बालाय भोजनं प्रतिदिनं देहि । श्रेष्ठिनाऽपि तदङ्गीकृतम् । अतः कपिलस्तद्गृहे भुञ्जानः पठति स्म । तत्र गृहे एका दासी सर्वदा कपिलस्य भोजनं परिवेषयामास । तस्यामनुरक्तो बभूव कपिलः । परस्परमनुरक्तौ तौ सानन्दं दिनानि गमयामासतुः । एकदा तत्र दासीनामुत्सवः प्रावर्तत । सा दासी पुष्पादिचिन्तयोद्विग्ना जाता । ततस्तेन सा पृष्टा उवाच - अद्याऽस्माकमुत्सवोऽस्ति । किन्तु पुष्पादिकाभावे दासीनां मध्ये मे हीनता स्यात्, ततः खिन्नाऽस्मि । ३७ Page #47 -------------------------------------------------------------------------- ________________ निर्धनत्वेन कपिलो मौनमवलम्ब्य तस्थौ । दासी उक्तवती - अत्र धनश्रेष्ठी अस्ति । प्रभाते यस्तं जागरयति तस्मै स स्वर्णमाषौ प्रयच्छति । ततस्त्वं प्रभाते झटिति गत्वा मधुरस्वरेण मङ्गलपाठं कुर्याः । ततः कपिलः श्रेष्ठिगृहं गन्तुमुत्सुकः सन् रात्रावेव निर्गतः । तदा सः चौरबुद्ध्याऽऽरक्षकैर्बद्धः । प्रातः राज्ञः समीपं नीतः । राज्ञा पृष्टश्च स सर्वमपि वृत्तान्तमुक्तवान् । राजा करुणाो जातः । तेनोक्तं - यथेष्टं याचस्व, अहमेव दास्ये । कपिल उवाच – विचार्याऽऽगच्छामि, पश्चाद् याचिष्ये । ततोऽशोकवनं गतवान् । तत्र स दध्यौ -- द्वाभ्यां माषाभ्यां किं भवेत् ? ततः सुवर्णशतं याचे । न, तेनाऽपि किं स्यात् ? सुवर्णसहस्रं याचे । न, एतेन किं भवेत् ? पश्चात् सुवर्णलक्षादारभ्य यावत् कोटिसहस्रं राज्यं चाऽपि याचे । तदैव चित्ते शुभपरिणाम उद्गतः । मया किं चिन्तितम् ? सुवर्णमाषद्वयेनाऽपि कार्यं मे सिद्धयेदेव किन्तु सन्तोषो न जातः । मम मात्रा विद्यार्जनार्थमत्र प्रेषितोऽहम् । किन्तु कुलोपहासकरं कार्यं मया कृतम् । अलमेतैर्विषयैः । एवं संविग्नः स जातिस्मरणमवाप्य स्वयम्बुद्धो बभूव । तत्क्षणं केशानुत्पाट्य देवतादत्तं धर्मोपकरणमादाय नृपसमीपं गतवान् । तत्र गत्वोक्तवान् – 'यथा लाभस्तथा लोभो, लाभाद् लोभः प्रवर्धते' । चकितो राजा बहुशः सुवर्णग्रहणार्थं विज्ञप्तिं कृतवान् । तथाऽपि स कपिलमुनिः ते धर्मलाभोऽस्तु । इत्युक्त्वा ततो निर्गतवान् । एतेन ज्ञायते - इच्छा न कदाऽपि परिपूर्णा भवति । यत्रेच्छा तत्र राग-द्वेषस्वरूपः कषायः, यत्र कषायस्तत्र क्लेशः, यत्र च क्लेशस्तत्र दुःखम् । अतोऽभिलाषारहितं यत् सुखं तदेव वस्तुतः सुखमिति । अन्ते, बन्धो ! क्षणिक-शाश्वतसुखयोरन्तरं ज्ञात्वा धर्मे एव प्रयतं कुरु । यतः सत्यं शाश्वतं सुखं च धर्माराधनायामेवाऽस्ति, तथैवाऽत्र परत्र च तेनैव सुखं प्राप्यते । त्वमपि बाह्यपदार्थेभ्यो मनोऽपास्याऽऽत्मिकगुणानां विकासनरूपस्य शुद्धधर्मस्यैवाऽऽराधनाद्वारेण सत्यं शाश्वतं च सुखं प्राप्नुया इति शम् । ३८ Page #48 -------------------------------------------------------------------------- ________________ ललितकथा छन्दश्छटाचमत्कारा: देवर्षिकलानाथशास्त्री वसन्तस्य ऋतुराजता रससिद्धैः संस्कृतकविकोकिलैरेवेदम्प्रथमतया घोषिता स्यादिति न सम्भवति । स्वयं जगद्गुरुणा कृष्णेन "ऋतूनां कुसुमाकर" इति विभूतियोगमुगिरता तस्य सर्वोत्कृष्टता घोषितचरा। अस्माभिरपि ऋतोरस्य स्फुटः प्रभावोऽनुभूत इति गतवर्षीयां घटनां भवद्भ्यः सूचयामि । फाल्गुनमासो यथैव व्यतियाति वसन्तागमसूचका मलयवाता मधुकरयूनां, पुंस्कोकिलानां, रसिकयुवकानां च हृदयानि केनचनाऽपूर्वेणोल्लासेन पूरयन्ति । फाल्गुनपूर्णिमाया दिवसोऽयमभूत् । होलिकोत्सव इत्युद्घोष्यतेऽयम्, उन्मुक्तोल्लास-विलास-परिहाससुभगेऽस्मिन्नुत्सवे निष्कुण्ठं निर्बाधं च स्नेहसुरभयो विनोदालापाः सुहृत्सु प्रवर्तन्ते इति जानीमः स्म वयम् । सायंकाले त्रयः सुहृदो वयमस्माकं वरिष्ठस्य मित्रस्य भाषाविदुषो भव्येशभट्टस्य भवनमुपसृप्य कतिपयान् क्षणान् कुण्ठामुक्तया सुहृच्चर्चया यापयिष्याम इति विचिन्तयन्तः प्राप्ता एव राजमार्गोपवनसमीपस्थं तद्गृहम् । सौभाग्यवशाद् भव्येश उषीरसौरभ्यसुभगं शीतलपेयं (खस का शर्बत) पिबन्नासीत् । सर्वैरस्माभिः स साटोपं धिक्कृतः, "धिक् त्वां यदेकाकी सुमधुरमिदं पेयं पिबसि, प्रतिवेशस्थानस्मान् सर्वान् सुहदो विस्मृत्य । धिक् तव वेदज्ञानम् । 'केवलाधो भवति केवलादी' इति प्रतिदिनं रटसि । 'मोघमन्नं विन्दते अत्रचेता' इति जानासे किन्तु एकाकी शीतपेयं पिबसि ।" भव्येशोऽपि नाऽभूदनवधानः । तेनाऽपि वागारभटी प्रदर्शिता- "अरे मुग्धा ! धिग् युष्माकं घ्राणशक्तिम् । सत्यमुक्तमृषिणा – 'उत त्वः पश्यन्न ददर्श वाचम् । उत त्वः शृण्वन्न शृणोत्येनाम्' । किं न पश्यथ संमुखे एव त्रिपदिकायां मसृणवस्त्रावृतं चषककुलकम् ? क्षणमुद्घाटयाऽऽवरणं पश्यथ कति पानपात्राणि सुरभिशीतपेयपूर्णानि स्थापितानि मया पूर्वमेव युष्मादृशानां क्षेत्रपालानां बलये । पिबत पेयमिदमातृप्ति । यदि तदाऽपि न पूर्यते युष्माकमुदरदरी, अपरं पूर्णपात्रमन्तः स्थापितमस्ति पेयस्य, एका च विस्तृता स्थाली मिष्टपक्वान्नपूरिता युष्माकमुदराग्नावाहुतिप्रदानाय स्थिता तस्मिन् प्रकोष्ठे । अतः "चरैवेति, चरैवेति" । सर्वे वयं सुहृदो मिष्टान्नं, सलवणान्नं च यथेच्छहमभ्यवहरन्तः पेयचषकाणामानन्दमनुभवितुं प्रवृत्ताः । जानन्त्येव भवन्तो यदेवंविधेष्ववसरेषु पेयचषकापेक्षयाऽपि विनोदालापचषकाणामास्वादः प्रेयान् प्रतीयते । तदेव समजनि । अस्माकं सुहृत् कविवर्यश्चातको वसन्तं संबोधयन् सद्योगुम्फितां स्वकवितामश्रावयत् । "हंहो वसन्त ! बन्धो वसन्त ! पुंस्कोकिल-कल-रवमधुररागमूर्च्छनामद्यमोहितदिगन्त ! ।" उन्मुक्तं गायति चातके साक्षेपं मया वारितोऽसौ "अरे किं सञ्जातं युगस्याऽस्य कविषु ? ते गायनाः सन्ति कवयो वा ? वसन्तमवलम्ब्य काव्यमिष्यते रचयितुं तर्हि वसन्ततिलकया शार्दूलविक्रीडितेन शिखरिण्या वा किमपराद्धम् ? किमिति न लिखथ तेषु च्छन्दःसु ३९ Page #49 -------------------------------------------------------------------------- ________________ काव्यम् ? किमिदं सारेगमपधनिताण्डवं वहति गरिमाणम् ?" चातकः सावेशमुदतरत् "अरे बालिश ! न जानासि यदेषु दिनेषु न शृणोति कोऽपि शिखरणी, शार्दूलं, स्रग्धरां वा । ये रक्तकण्ठाः कवयः सारेगमपधनि जानन्ति त एव तालीभिरभिनन्द्यन्ते कविसम्मेलनमञ्चेषु । प्रौढान् कवीन् न कश्चन मन्यते तृणायाऽपि तत्र । ज्ञातम् ?" मयोक्तम् - "जानामि, जानामि । मञ्चाः क्रोशन्ति स्म पुरा, सम्प्रति मञ्चा गायन्ति । किन्तु मनाङ् नेत्रमुन्मील्य पश्य । इदं कविसम्मेलनमस्ति भव्येशस्य भवनं वा ? अत्र किमिति क्रोशसि ? काव्यमेव श्रावणीयं तर्हि छन्दोबद्धं किञ्चन श्रावय । अप्रमत्तवत् ।" ___ चातक उवाच - "अरे वैधेय ! छन्दोबद्धमपि श्रावयिष्यामि तर्हि को वा रसानुभवो भविता त्वादृशे निघृणहृदये शास्त्राभ्यासकर्कशे जने ? जानासि कालिदासेनाऽपि घोषितचरं स्फुटम् ! "वेदाभ्यासजडः कथं न विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः । शास्त्रकठोराणां जनानां कीदृशो रसानुभवो भवतीति सर्वे वयं जानीम एव । सर्वे प्रत्यहं पाठयामश्छात्रान् "निर्वासनास्तु रंगान्तर्वेश्मकुड्याश्मसन्निभाः ।" अतोऽस्यै त्रिपादिकायै यावान् रसानुभवस्तावांस्तुभ्यम् । अद्य तु त्वं छन्दोबद्ध काव्यं श्रावयितुमदिशसे माम्, किन्तु न जानासि किं यत्त्वादृशैरेव शास्त्रादेशपरवशैः प्रसेधितमासीत् – “काव्यालापांश्च वर्जयेत्" । अरे त्वादृशानां वशः प्रासरिष्यच्चेत् ते तु छन्दःस्वपि प्रतिबन्धमघोषयिष्यन् । केवलं सूत्रबद्धानि शास्त्राण्यारटयिष्यन् ।" एतदुपरि उपमन्युः श्रौतायन उग्रमन्युरभवत् । तारस्वरेणावोचदसौ – “अरे चातक ! मा वादीश्छन्दोविषये तादृशीमाशङ्काम् । भारतभूमावस्यां छन्दसश्छटास्तु सृष्टेरारम्भादेव समुदपद्यन्तेत्यनुमीयते । पृच्छ भव्येशम् । सर्वतः प्रथमं ब्रह्मणः कण्ठं विदार्य यदा शब्दरूपिणी वाक् प्रादुर्बभूव, सा छन्दोबद्धैवाऽभूत् । मानवजातेः पुस्तकालयस्य प्रथमो ग्रन्थ ऋग्वेदश्छन्दोबद्ध एव । गद्यबद्धानि यजूंषि परस्तात्प्रादुर्बभूवुः । अस्माकं देशे समुत्पन्नः शिशुः प्रथमं छन्दसि रोदिति, एकादशेऽह्नि नामकरणानन्तरं गद्ये रोदनं प्रारभते ।" एतदुपरि प्रासरदुच्चस्वरीयो रावणरवविनिन्दकः सुहृदामस्माकमट्टहासो येन भवनोपकण्ठस्थेषु तरुषु निषण्णा विहगाः सभयमुड्डीनाः । चातक एतच्छ्रुत्वा सहर्षमवोचत् – “धन्याः स्मो वयं यद्य उपमन्यु-श्रौतायनसदृशा वेदाभ्यासजडा अपि छन्दसो महिमानं गायन्ति । "ऋतं च सत्यं यामीद्धात्तपसोऽभ्यजायते'"त्यादिश्रुतिकटूनि वाक्यान्युगिरतामेषां श्रोत्राणि काव्यरसज्ञतां मनाक् शिक्षन्तामित्युद्देशेनैव तु देशेऽस्मिन् श्रोत्रकटून् वर्णानादायाऽपि रावणसदृशैर्महामहिमभिः "जटाकटाहसंभ्रमभ्रमन्निलिम्पनिर्झरी", "धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके" इत्यादि पञ्चचामरबद्धानि स्तोत्रण्यलेख्यन्त । तदाऽप्येषां कर्णकुहरेषु रसज्ञता नाऽलभत स्थानम् ।" भव्येशभट्टेन माध्यस्थ्यं कुर्वाणेन कथितं, "मा मैवं विचिन्त्य । अस्मिन् देशे तु न केवलं श्रौतानां स्मार्तानां वाऽपि तु वेदान्तिनां, संन्यस्तचिह्नानां, जगन्मिथ्यात्वघोषिणां ब्रह्मविद्यामात्रचिन्तकानां शङ्कराचार्य ४० Page #50 -------------------------------------------------------------------------- ________________ सदृशानामपि मानसेषु गीतिगानस्य तादृशं व्यसनमासीद् यद् "भज गोविन्दं" - स्तोत्रे तैर्गीतविधयैव संसारस्य निःसारता प्रतिपादिता । वैराग्योज्जृम्भणायाऽपि तैर्मनस्तर्पिणी गीत विधैव समादृता । विलोक्यतां मोहमुद्गरः चर्पटपञ्जरिकापरनामधेयः ।" ___उपमन्युः श्रौतायनो भव्येशभवनस्य तस्मिन् प्रकोष्ठे लम्बमानमादिशङ्कराचार्यचित्रं सङ्केतयन्नूचे - एते तु महानुभावा यावन्तो विरक्ता आसंस्तावन्त एव काव्यरसरक्तहृदया अभूवन् । शिखरिणीबद्धामेषां सौन्दर्यलहरी पठथ, सर्वमिदं ज्ञास्यथ । अपरं च – मयोक्तमेव यद् देशस्याऽस्य धरित्री आजन्मन एव छन्दश्छटानुरक्ताऽस्ति । इदमेव तु कारणं यदत्र न केवलं श्रुतिगतं विज्ञानं ब्रह्मविद्या वा वैदिकेषु च्छन्दःसु निबद्धाऽपि तु समग्राण्यपि शास्त्राणि छन्दोबद्धान्येवाऽभूवन् । सर्वं छन्दसा व्यलेख्यत, आयुर्वेदोऽपि छन्दसा, ज्योतिषमपि छन्दसा, धर्मशास्त्रं छन्दसा । सर्वा अपि स्मृतयोऽनुष्टुप्छन्दसि निबद्धाः प्राप्यन्ते, सर्वाणि पुराणानि । वेदस्य तु नामधेयमेव छान्दसम् । अनुष्टुप्छन्दो यदि नाऽभविष्यत् सर्वमपि वाङ्मयं नितान्तमसंभवमभविष्यत् । अथ यदि कश्चनाऽनुष्टुप् छन्दो विलोपयेत्, सर्वं वाङ्मयं तत्क्षणमन्तर्हितं भवेत् । चातको यद्यपि चिकथयिषुरभूद्यत् सूत्रसाहित्यमर्थात् शास्त्रसाहित्यं तु सारवति, सस्तोभेऽनवद्ये गये एव निबद्धमासीत् किन्तु परस्ताद्यदवधि अनुष्टुप् छन्दोऽवततार सर्वमपि शास्त्रजातमनुष्टुभि समवतीर्णं, किन्तु मध्य एव भव्येशभट्टः सविनोदमुदगिरत् – “सर्वमिदं वाल्मीके: कृत्यम् । न जाने कीदृशं तद्दिनं स्याद् यदा वाल्मीकिः "मा निषादे"त्यादि शापमुगिरन् शोकं श्लोकत्वं निनाय, तदारभ्य सर्वं वाङ्मयजातमनुष्टुभं सर्वात्मनाऽपरिहरणीयं मन्यते स्म । वेदादितरत्र छन्दसामयमवतारः सर्वाणि शास्त्राण्यनुष्टुप्सागरे न्यमज्जयत् । ज्योतिर्नटविटगायकभिषगादयः सर्वेऽनुष्टुभमेव ब्रह्मास्त्रं मन्वानास्तस्यैवाऽभ्यासमकुर्वन् ।" __ चातकैन साटोपमुदीरितं - "भ्रातर्भव्येश ! भवादृशैर्भाषाशास्त्रिभिरपि छन्दोबन्धमजानानैरपि छन्दसां निर्माणस्य न जाने कीदृशं व्रतं गृहीतं यल्लघुकौमुदीकारेण वरदराजेन मङ्गलाचरणायाऽनुष्टुप्छन्दसः प्रयोगं कृत्वा किंभूतकिमाकारकमद्भुतं पद्यं निर्मितम् – “नत्वा सरस्वती देवीं शुद्धां गुण्यां करोम्यहम् ।" किमिदं भवति शुद्धां गुण्यामिति ?" भव्येशेनोक्तं - "किं करोतु वराको वरदराजः ? यदि छन्दोभङ्गोऽभविष्यत् तर्हि त्वादृशाः कविपुङ्गवा उपाहसिष्यंस्तम् । अतो वराकेन पादपूर्तिः कृता । 'अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेत्' - इति तु श्रुतमेव स्याद् युष्माभिः" । उपमन्युः श्रौतायन उदगिरत् - "भव्येश ! तादृशा वैयाकरणा यानत्याचारान् भारतीये समाजे कृतवन्तस्तान् किमिति न स्मरसि । 'प्रथमे हि विद्वांसो वैयाकरणा' इति न जाने किमिति कदा केन कथितं यदेभिर्वैयाकरणैर्व्याकरणरटनं सर्वेभ्यः संस्कृतच्छात्रेभ्योऽनिवार्यमापादितम् ।" मया पादपूर्तिः कृता - "ने केवलं संस्कृतच्छात्रेभ्यः, अपि तु सर्वेभ्यः किशोरेभ्यो व्याकरणज्ञानं देशेऽनिवार्यमासीत् । न श्रुतोऽयं श्लोकः ? ४१ Page #51 -------------------------------------------------------------------------- ________________ "अजर्घा यो न जानाति यो न जानात्यचर्करीत् । अचीकमत न जानाति तस्मै कन्या न दीयते । " वराकाः कन्यावरणाभिलाषुका युवकाः पूर्वं तु “टिड्ढाणञ्द्वयसच्छुटूङसिङयोस्तिप्तस्सिसिप्थस्थमिब्वस्मस्ता हशि च ष्टुनाष्टरत इञ् शश्छोट्यचोन्त्यादिटि । लोपो व्योर्वलि वृद्धिरेचि यचि भं दाधाध्वदाप् छे च टेरित्यब्दान् बहुलान्नयन्ति कतिचिच्छब्दान् रटन्तः कटून् ।” तदनन्तरं अजर्घा, अचर्करीत् इत्यादीन् प्रयोगान् रारटन्ति, सर्वमपि यौवनं क्षपयन्ति, तदाऽपि श्वशुरायमाणा वैयाकरणास्तेभ्यः कन्या न प्रयच्छन्ति । " भव्येशोऽसूचयद् यद् एतादृशी सुदीर्घा सूची ईदृशानां कठिनानां दशगणीप्रयोगाणां निर्मीयमाणाऽऽसीत् अकारादिक्रमेण । अजर्घा, अचर्करीत्, अचीकमत इति त्वकारादयस्त्रय एव प्रयोगाः सूचीप्रारम्भगताः सन्ति । एतान् साधयन्तो बहवो युवकाः प्राणानत्यजन्, अतः परस्तात्सूची न निरमीयत, अन्यथा न जाने कति किशोरा आत्मघातमकरिष्यन् । उपमन्युः प्रोवाच - " सेयं सूच्यप्यनुष्टुभि निर्मीयमाणाऽऽसीत् !! छन्दस्तु तदाऽप्येतान् वैयाकरणान् नाऽत्यजत् !!! तृतीये चरणे छन्दोभङ्गोऽभूदिति कथान्तरम्" । भव्येशेनोत्तरितं "छन्दःसु सूचीनिर्माणं तु वेदकालादारभ्यैव प्रवृत्तमासीत् । न केवलमनुष्टुभि, गायत्रीप्रभृतिषु सर्वेषु च्छन्दःसु" । चातक एतदुपरि सविनोदमुदाहर्तुमारभत "उपमन्यो भगवन् ! वैदिकानां भवतां छन्दोनिबन्धनपाटवस्यैकमुदाहरणं प्रस्तौमि किम् ? भवतामेकं छन्दः श्रूयते "त्रिष्टुप्" । एकदशाक्षरा वृत्तिरियम् । केनचन वेदाभ्यासजडेन शास्त्रकारेण विवेचनं कर्तुमिष्टम् ऋग्यजुःसामाथर्वणां वास्तविकं तत्त्वं किमस्तीति । सर्वं वस्तुजातं, आन्तरिकी मूर्तिः, ऋग्रूपा, गतितत्त्वं यजुः स्वरूपं, परिधिः, आयामाः, तेजोरूपो विस्तारः सामरूपं भवति, सर्वेषामेषां प्रकटनं, व्यक्तं रूपं, निर्मितिर्वा अथर्वस्वरूपा । इदं स्पष्टीकर्तुं तेन कथयितुमारब्धम् - - "ऋग्भ्यो जातां सर्वशो मूर्तिमाहुः ।" त्रिष्टुप् छन्द इदम् । — मया सूचितं यद् वेदोत्तरकालिके छन्दः शास्त्रे तदिदमेव शालिनीच्छन्दः । किन्तु चातक उवाच यत्तस्य च्छन्दसस्तु दुर्दशा ऋषिवर्येण द्वितीय एव पादे कृताऽतः शालिनीत्वं भग्नं, केवलं त्रिष्टुप्त्वमवशिष्टम् । परं त्रिष्टुभ्यपि पादपूर्तिर्न जाता - द्वितीये पादे प्रोवाच स "सर्वा गतिर्याजुषी ।" अर्थात् सर्वा मूर्तय ऋक्स्वरूपाः, गतिश्च यजुः स्वरूपा । केवलं सप्ताक्षराणि ? अतः पादपूर्तये लौकिकानां 'च, वै, तु हि' इत्यादीनामवष्टम्भकानां यथा प्रयोगो भव्येशप्रभृतिभिः क्रियते तथा तेन "ह" "शश्वत्" इत्यादीनां प्रयोगं कृत्वा व्यलेख सर्वा गतिर्याजुषी हैव शश्वत् । ह; एव; शश्वत् । पादपूर्तिः समजनि । सम्प्रति तृतीये चरणे किं स्यात् ? सर्वं तेजः सामरूप्यम् । केवलमष्टाक्षराणि ? तस्य पादस्य पूर्तये पुनरपि 'ह' ४२ - - Page #52 -------------------------------------------------------------------------- ________________ 'शश्वत्' । नन्विदवष्टम्भकं तस्य स्मृतावारुरोह । ततः परिणतं, "सर्वं तेजः सामरूप्यं ह शश्वत् ।" चतुर्थे चरणे विवक्षितमासीत् 'सर्वमिदं ब्रह्मणा सृष्टम् ।' - केवलं नवाक्षराणि । पादपूर्तये पुनस्तदेवा-वष्टम्भकं गजेन्द्रमोक्षाय हरिरिव समागच्छत् – सर्वं हीदं (अथवा हेदं) ब्रह्मणा हैव सृष्टम् ।। अत्र वेदोत्तरकालिका 'हि' अपि प्रादुरासीत् । अथवा 'ह'स्य पुनरावृत्तिः कृता स्यात् । ततस्त्रिष्टुप् छन्दः समुत्पन्नमेवम् - ऋग्भ्यो जातां सर्वशो मूर्तिमाहुः, सर्वा गतिर्याजुषी हैव शश्वत् । सर्वं तेजः सामरूप्यं ह शश्वत्, सर्वं हीदं (अथवा सर्वं हेदं) ब्रह्मणा हैव सृष्टम् ॥ भव्येशेन सूचितं यद् द्वितीये चरणे "सर्वा गतिः" इत्यस्य स्थाने सर्वा गीतिः इत्यादि किञ्चिद् दीर्घवर्णपूर्वं स्थाप्येत तर्हि शालिनीच्छन्द इदं सम्पद्यते किन्तु सर्वा गतिरित्यत्र च्छन्दोभङ्गः । चातकेनोक्तम् - स तु वर्तत एव । 'शश्वत्', 'ह' 'एव' पदानामानेडनं प्रतिचरणं, किं सूचयति ? छन्दोऽनिर्वाहवशात्कथं निरर्थकपदावृत्तिवैवश्यं समापतितं वराकस्य तैत्तिरीयब्राह्मणीयस्य ऋषेः । भव्येशः समपूरयत् – इदं तु भवादृशाः कवयोऽनुदिनं कुर्वन्त्येव - एकं पादं पूरयितुमेकेन कविना कथितमभूदेव “च वै तु हि, च वै तु हि ।" किं तेनाऽपराद्धम् ? चातकस्त्वरितमेव प्रत्युत्तरमास्फालयत् - "तदिदमेवाऽपराद्धं यच्छन्दोगुम्फनाभ्यासाभावेऽपि च्छन्दःस्येव विलखनस्योपक्रमो हठादुत्थापितः । गद्ये किमिति नाऽलेखि ? किं चिकित्सकेन केनचित्समादिष्टमासीत् ? यत्ते पद्यमेव पथ्यं, गद्यमपथ्यमिति ?" उपमन्युः श्रौतायनो मध्य एव स्वकीयां भणितिभङ्गीमुदवमत् - "अरे न जानासि ? समुचितसुमधुर-पदन्यासस्तु केवलं कवीनामेव दुविलसितम् । शास्त्रकारास्तु हठाकृष्टपदन्यासैश्छन्दोभङ्गैश्च शोभन्ते । यदि तेऽपि यति-गति-गणादिबन्धनेषु बद्धाः स्युस्तहि को वा स्यात्तेषां च कवीनां च विशेषः ? किं स्याद् भेदकम् ? स्मराम्येवंविधमेवैकं पद्यम् - एकेन नूतनेन शास्त्रकारेण हिन्दोः परिभाषां सूचयता सूचितमेवम् – "आसिन्धोः सिन्धुपर्यन्ता यस्य भारतभूमिका । मातृभूः पितृभूश्चैव स वै हिन्दुरिति स्मृतः ।" सिन्धुनदीमारभ्य हिन्दमहासागर(सिन्धु)पर्यन्ता भारतभूमिर्येन स्वकीया मातृभूः पितृभूश्चैव मन्यते स हिन्दुः । तदिदं हिन्दोर्लक्षणं सार्वकालिकं सार्वदैशिकं च । यदा मया प्रथमतः परिभाषेयं पठिता, भूमिकापदं विलोक्य नाऽहं बोद्धुमपारयं किमयमभिप्रैति ? यतो हि भूमिकापदं नेपथ्य-वेष-भूषादिकृते नाट्यनिर्वहणकृते वा प्रयुज्यते, "अत्र नायिकाया भूमिका तया सुन्दर्या नियूंढा" इत्यादि ।" मया कथितं – तलस्य, मंजिलस्य, Storey इत्यस्य कृतेऽपि प्रयुज्यते भूमिकाशब्दः । "सूत्रधारकृता-रम्भैर्नाटकैर्बहुभूमिकैः ।। सपताकैर्यशो लेभे वसो देभाकुलैरिवेति" किं न श्रुतम् ? भव्येशोऽसूचयद् यदिदानीं तु प्रस्तावनायाम्, आमुखे उपोद्घाते वा प्रयुज्यते भूमिकाशब्दः । "पुस्तकस्याऽस्य भूमिका मया लिखिते''त्यादि । उपमन्युना पृष्टं यत्किमिदं पद्यं सूचयति यद् यो जनो भारतभूमि मातृभुवं पितृभुवं वा कथयन् नाट्यभूमिकारूपेणाऽऽचरति भक्तिं स हिन्दुः - ४ Page #53 -------------------------------------------------------------------------- ________________ इत्यभीष्टमभूत्पद्यनिर्मातुः ? भव्येशेनोदीरितं - "नैव, भारतभूमिरित्येव तस्याऽऽशयोऽभूत् । केवलं पादपूरणाय 'भारतभूमिका' इति लेखनीयमापतितम् । चातकेन त्वरितमुत्तरितम् - अरे, तदा तु तेन लेखनीयमासीत् - आसिन्धोः सिन्धुपर्यन्ता यस्य भारतमेदिनी। मातृभूः इत्यादि । किमभूत्काठिन्यमत्र ? भव्येश उदवमत् – तदा तु तस्य पद्यलेखकस्य कवित्वख्यातिः प्रसरेत् । न शास्त्रकारत्वख्यातिः । सर्वमिदमनर्गलप्रलापं श्रुत्वा मया सर्वे सूचिता यदिदं पद्यं भारताय समुत्सृष्टजीवनस्य राष्ट्रभक्तस्य तपस्विनः कृतविद्यस्य च स्वनामधन्यस्य विनायकदामोदरसावरकरस्याऽस्ति । अत्र या परिभाषा तेनोपस्थापिता सा हिन्दुत्वं साधु व्यनक्ति । स महाराष्ट्रीयभाषायाः सुप्रतिष्ठितो लेखकः, उपन्यासकारश्चाऽभूत् । संस्कृतमनीषी, कविश्चाऽभूत् । 'काला पाणी'त्याख्ये स्वकीये उपन्यासे तेन स्वतन्त्रतादेवीमुद्दिश्य सुप्रेरिकागीतिरेका व्यलेख्यत यत्र प्रथमो भागः संस्कृतेऽस्ति, तदनन्तरं गीतिर्मराठीभाषायाम् । "स्वतन्त्रते ! भगवति ! त्वामहं यशोयुतां वन्दे । जयोऽस्तु ते श्रीमहन्मङ्गले शुभास्पदे शिवदे।" इत्यादिपङ्किभिर्गीतिरियमारभ्यते । सोऽयं समर्थः कविरासीत् । अनुष्टुप्छन्दसः पादपूरणाय तेन किमप्यनुचितमनुष्ठितं स्यादिति किं सम्भवति? स स्वैरं व्यलेखिष्यत् - "आसिन्धोः सिन्धुपर्यन्तां यस्य भारतभूरियम् । मातृभूः पितृभूश्चैव" । तदाऽर्थावगतिनिर्बाधाऽभविष्यत् । किन्तु 'भू' पदस्य वारंवारमावृत्तिर्भवद्भ्यो नाऽरोचिष्यत । भारतमेदिनीत्यपि तेन लिखितुं वाञ्छितं स्यात् । किन्तूपमन्युश्रौतायनसदृशानां वेदवीथीपथिकानां शैलीमनुहरता "हैव शश्वत्' शैली चाऽनुकुर्वता तेन भारतभूमि रतभूमिकेत्युपन्यस्ता । अत्र का खलु बाधाऽर्थावबोधे ? सुहृत्संलापस्याऽस्य मध्य एव भव्येशपत्नी भारती त्वरितमागत्य सर्वानस्मान् सूचितवती यत्तस्या भागिनेयः प्रतिवेशस्थामेकां कन्यां द्रष्टुम्, अर्थात् विवाहाय वधूविनिश्चयं कर्तुमत्र समायातोऽस्ति । भव्येशगृहे एव कन्यामाकार्य ते तां तस्मै दर्शयिष्यन्तीति कार्यक्रमो विनिश्चितोऽभूत् । ततश्च कन्या च भागिनेयश्चाऽन्ये चाऽपरस्मिन् कक्षे स्वजनैः सह स्थिताः । यूयमपि समागत्य पश्यन्तु कन्यां, स्वाभिमतं च प्रकटयन्तु । सर्वे वयं सहर्षं तस्मिन् कक्षे समुपसृताः । कन्यावरणं सम्पन्नम् । तत्रैव च वाग्दानमपि पुरोहितेनैकेनाऽकार्यत । मङ्गलावसरेऽस्मिन् समवेतेषु सुहृज्जनेषु मिष्टान्नोपहरणाय भारती भव्येशमाकारयितुं "श्रूयतां, श्रूयतां जातु" इत्यादि बहुशो जल्पन्ती तस्याऽवधानमाक्रष्टुमियेष, किन्तु भव्येशोऽन्यत्र दत्तावधानोऽभूत् । चातकेन सर्वमिदं दृष्ट्वोद्गीर्णम्, "प्रजावति ! नाम्नाऽऽकारणेन विना नाऽयं कर्णौ प्रहेष्यति । आकार्यतां 'भव्येश' इति ।" भारत्या कथितं हन्त ! धर्मशास्त्रविरुद्धमाचरणमुपदिशति भवान् कथमहं पूज्यं पति नाम्नाऽऽह्वयेयम् ?" तावता सर्वेऽपि संलापेऽस्मिन् समवायन्त । मया पृष्टं - "धर्मशास्त्रे कुत्र निषिद्धमस्ति पत्युर्नामग्रहणम् ?' श्रौतायन उपदिशत् - "प्रसिद्धः स श्लोकः । आत्मनाम गुरोर्नाम नामाऽतिकृपणस्य च । श्रेयस्कामो न गृह्णीयज्ज्येष्ठापत्य-कलत्रयोः ।" मया द्रुतमेव प्रत्याख्यातम् – “अस्मिस्तु न कुत्राऽपि पत्युर्नामग्रहणं प्रतिषिद्धम् । स्वकीयं नाम, गुरुनाम, अतिकृपणस्य, पत्न्या, ज्येष्ठापत्यस्य च नामग्रहणं प्रतिषिद्धम् । स्वकीयं नाम, गुरुनाम, अतिकृपणस्य, पत्न्या, ज्येष्ठापत्यस्य च नामग्रहणमश्रेयस्करम् । कुत्राऽस्ति पतिनामग्रहनिषेधः? किमिति वराक्यो भारतीयाः ४४ Page #54 -------------------------------------------------------------------------- ________________ पत्न्यः 'ओः, अजी, श्रूयतां, शृणु' इत्यादिभिः अनुरणनात्मकध्वनिभिः प्रतीकैर्वा स्वदयितं सम्बोधयितुं विवशीक्रियन्ते ? अथवा किमस्मिन् पद्ये पत्युर्नामग्रहणानिषेधस्य छन्दस्यवकाशाभावात्पतिनामोल्लेखो नाऽपार्यत कर्तुम् ?" मध्य एव श्रौतायनेन स्वकीयं शास्त्रार्थविवेचनकौशलमभिव्यक्तं – “धिक्, शब्दलाघवस्य प्राशस्त्यं जानन्तोऽपि भवन्तो मिथ्याप्रपञ्चैरधिक्षिपन्ति धर्मशास्त्रप्रणेतृन् । पतिनामग्रहणं प्रतिषिद्धमस्त्यत्रैव "नामातिकृपणस्य च" इति पतिपदार्थस्याऽतिकृपणपदार्थेऽन्तर्भावः स्फुटः । पतिमतिरिच्य कः स्यादतिकृपणः इति विदन्ति भारतीयाः पत्यः । धर्मशास्त्रप्रणेतारोऽपि तदिदं रहस्यं जानन्ति स्म, अतः पृथङ्नामग्रहणमकृत्वा तन्त्रेण तादृशोऽर्थोऽत्राऽन्तर्भावितः । तत आरभ्य पत्नीभिः स्वपतीनां नामग्रहणं त्यक्तम् ।" मया प्रोक्तं, "धन्योऽसि श्रौतायन ! उपमन्यो ! धन्यं च ते शब्दलाघवं हस्तलाघवं च । अस्य कूटपथस्य रहस्यं त्वं जानासि, स्मृतिकारो जानाति, पत्न्यश्च जानन्ति । "अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा ।" अस्माकं त्वज्ञातपूर्वमेवाऽऽसीत्तदिदं सर्वम् ।" तावता भव्येशेन तत्पत्या भारत्या च मिष्टान्नद्रोणिकाः सुरभितपेयचषकाणि च सर्वेषु समवेतेष्वतिथिषु समुपहृतानि । वाग्दानकृत्यस्य किञ्चित् स्वस्तिवाचनादि, आशीर्वाचनादि वाऽनुष्ठानमवशिष्टमभूत् । अतः पुरोहितेन सर्वे वयं कुक्कुटकलकलाद्विरताः कारिताः । पूजाप्रसङ्गे पुरोहितो नवग्रहाणां प्रसादनाय श्लोकमिमं यदा पठन्नभूत् - "ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।। गुरुश्च शुक्र: शनिराहुकेतवः सर्वे ग्रहाः शान्तिकरा भवन्तु ।" तदा चातकेन पृष्टो भव्येशः "भ्रातः ! शृणु पद्यमिदं, विनिर्दिश च कीदृशमत्र च्छन्दः ?" भव्येश उदतरत् – “उपजातिरियम्। किं न जानासि ?" चातकोऽभाषत – “जानामि । उपजातिरेव; किन्तु चरणत्रये एव । तृतीये चरणे वर्णाधिक्येन वंशस्थता इन्द्रवंशात्वं वाऽस्यां समुत्पन्नम् । “गुरुश्च शुक्रः शनिराहुकेतवः' इति द्वादशाक्षरा वृत्तिः संजायते, इन्द्रवज्रा, उपेन्द्रवज्रा वा एकादशाक्षरा ।" उपमन्युः श्रौतायनः समबोधयत् - "अरे त्यज त्वदीयमिमं पैंगलं प्रश्नम् । यथा वैयाकरणकिरातात्सन्त्रस्ता अपशब्दमृगा ज्योतिर्नटविटगायकभिषगाननगह्वरेषु निलीयन्ते तथा त्वादशात्कविकिरातात् सन्त्रस्ताश्छन्दोभङ्गा वैदिक-पुरोहित-पत्रकारादीनामाननगह्वरे न निलीयेरंस्तर्हि कुत्र गच्छेयुः?" भव्येशगृहे समाकारितेन पुरोहितेन निभृतमस्माकं सोऽयमालापो न जाने कथं श्रुतो यत्स सुतरामधिक्षिप्तमवमानितं चाऽऽत्मानमनुभवन् सर्वानस्मानेकपदे एव ताडयितुमधावत् । तस्य सुदृढां देहयष्टिं दृष्ट्वा, करगतामपरां प्रत्यक्षकाष्ठयष्टिं च दृष्ट्वा त्वरितमेवाऽस्माभिर्निरचीयत यत्सम्प्रति पलायनमेव वरम् । “साधु भ्रातर्भव्येश ! स्मृतमस्माभिरत्यावश्यकं कार्यमेकम् । तदधुनैव करणीयम् । समयः समापतितः । अतः प्रतिष्ठामहे साम्प्रतं । श्वस्त्वां द्रक्ष्यामः" इति वदन्तो वयं सर्वेऽक्षतदेहेन्द्रियाः परावृत्ताः स्व-स्वगृहान् । सी/८, पृथ्वीराज रोड, जयपुर - ३०२००१ Page #55 -------------------------------------------------------------------------- ________________ ग्रन्थसमीक्षा प्रणेता सम्पादकाः प्रकाशक: प्राप्तिस्थानम् अभिराजगीता (नित्यापेक्षितविविधविषयसंस्कृतगीतसङ्कलना) समीक्षक: डॉ. रूपनारायणपाण्डेयः डॉ. अभिराजराजेन्द्रमिश्रः कीर्तित्रयी (मुनिश्रीरत्नकीर्तिविजयः, मुनिश्रीधर्मकीर्तिविजयः, मुनिश्रीकल्याणकीर्तिविजय:) श्रीभद्रङ्करोदयशिक्षणट्रस्ट, गोधरा श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मन्दिर, १२, भगतबाग, नया शारदामन्दिर रोड, पालडी, अहमदाबाद ३८०००७ प्रथमसंस्करणम् वि.सं. २०६७, पृ. सं. ८ + १७८, मूल्यम् - - १५०/ वेदानामन्तिमो भाग उपनिषदः । उपनिषदां सारभूता श्रीमद्भगवद्गीता कृष्णार्जुनसंवादरूपा वेदव्यासप्रणीतस्य महाभारतस्य भीष्मपर्वणोंऽशभूता विराजते । श्रीमद्भगवद्गीताया गरिमाणं विलोक्य वागीश्वरीसमुपासकैरनेकैर्गीताग्रन्थारचिताः परिकल्पिता वा । साम्प्रतमपि सततं सुरभारतीसमुपासनानिरतेन गुरुवर्येण डॉ॰ अभिराजराजेन्द्रमिश्रेण विविधविषयान् समाश्रित्य 'अभिराजगीता' सङ्गीता, सम्पादिता च कीर्तित्रयेण । ४६ Page #56 -------------------------------------------------------------------------- ________________ ग्रन्थेऽस्मिन् 'मङ्गलगीते' - मङ्गलं मङ्गलम्, माङ्गल्यमेव भूयात्, शनैः शनैः, नवं नवं०; 'स्वागतगीते' - स्वागतं श्रीमताम्, सुस्वागतं सुस्वागतम्, स्वागतं व्याहरामः, व्याहरामो वयं०; 'वागीश्वरीगीते' - अनुजानीहि कवनकरणाय, महामाये ! को नु भणतु०, मातस्तव०, प्रणमामो वाग्देवीम्, किमतः परं त्वदुपायने, वागर्चनम्, हृदयं प्रकाशय०, सुतं पश्य०, वाणीवन्दनम्, त्वमसि जननि शरणम्, वितर वितर०, हंसविलासिनि ! धारय रे; 'सुरभारतीगीते' - संस्कृतं व्रजेत्, शं तनोतु संस्कृतम्, मयस्करं संस्कृतं भवेत्, जयतु संस्कृतम्, मदयति न हि कं०, रमयति नहि कमहो, संस्कृतमयं भवतु०, राष्ट्रभारती भवतु संस्कृतम्, न मृता म्रियते न०, वर्धतां देववाणी, देवभाषया विना, जयतु विबुधवाणी; 'राष्ट्रप्रशस्तिगीते' - वन्दे सदा स्वदेशम्, जयत्वियं वसुन्धरा, मामकी जन्मभूमिः, भारतं वन्दे, जयताद् भारतराष्ट्रम्, जलधर ! नय सन्देशम्, स्मृतिमञ्चति स्वदेशः, भगवन् ! रक्ष मदीयं देशम्, क्व नु भविताऽसि०, भारतीयोऽहम्, भारतीयशासनं विजयताम्, भवेदिह०, मामकं तदेव भारतम्, जीवनं वृथा, रक्ष रक्ष भारतम्, जीवितुं शक्यते नेदृशे भारते, म्रियते जिजीविषा, कीदृशी स्वतन्त्रता ?, को नु राष्ट्रबन्धुः ?, रक्तरञ्जितं०, जायते निर्झरी०, कोऽपि नो शृणोति०, यूयं यूयं वयं वयम्, क्व मार्गयानि ?, 'भारतीयसंस्कृतिगीते' - भारतीया संस्कृतिः पुनरेधताम्, भारतसंस्कृतिकथा विजयते; 'प्रकृतिविलासगीते' - रविभास्वरं प्रभातम्, अये ! प्रभाता रजनी, चन्द्रिका, वसन्तो भुवमवतरति०, वसन्तदोधकानि, सपादिका मधुमासस्य, कोकिलोच्चारति०, लघु लघु जलद:०, मेघो वितरति०, व्यालीव दशति०, रिम्झिम् वर्षति०, सखि ! रे समागच्छति०, गङ्गे तव नीरगाहनम्, अयि जननि ! शमय०, गङ्गा विलसति, भुवमागता भागीरथी, वत्सला गङ्गा, पुरुरूप सागर !, 'शिशुभावनागीते' - लयेरिका, अक्षरगानम्*, कियन्ननु सर्वम् ?, कण्ठस्थं कुरु, चौरो राजा, मधुमक्षिकापरिचयः, पिपीलिका०, पशुपक्षि०, मार्कटिक०, हृदयं विधेहि, लौहपथगन्त्री गच्छति, मातुल चन्द्र !, कुतो न्वागताः पयोदाः?, अरिमर्दना वयम्, के वयमित्याख्यास्यामः, सुनीत्यङ्कजातो ध्रुवोऽह०, विहगा वयं भवेम; 'प्रकीर्णे' च - गान्धिगीतम्, राष्ट्रमङ्गलं चेति सप्तनवतिः गीतानि प्रायशः चित्रोपेतानि संकलितानि । ग्रन्थात् प्राक् 'अभिनवगीते ! तव स्वागतम्' इति परमश्रद्धेयश्रीविजयशीलचन्द्रसूरिमहाभागस्याऽऽशीर्वचनं शोभते । अभिराजगीतायामस्यां संकलितानि सर्वाणि गीतानि भारतीयसंस्कृतिसारसर्वस्वभूतानि यानि महनीयानि तत्त्वानि सन्ति, तानि विशदतया गभीरतया मार्मिकतया च मृदुस्वरेषु गायन्ति । कवेर्भावुकता राष्ट्रभक्तिनिव्याजप्रीतिश्च सर्वत्र विराजते । वक्ष्यमाणे गीते सर्वे भारतीयाः पृथग्धर्मावलम्बिनोऽपि परस्परं प्रेम्णा निवसन्तीति सन्दिश्यते गीतकृता । तेन भारतस्य प्राचीना परम्पराऽपि न विस्मर्यते । 'जयत्वियं वसुन्धरा जयत्वियं वसुन्धरा रघोरियं यदोरियं कुरोरियं वसुन्धरा !! * मम मतौ - 'अक्षरज्ञानम्' इत्यादिगीतानामत्र संकलनमभिराजनामानुरूपं न वर्तते । ४७ ucation International For Private & Personal use on Page #57 -------------------------------------------------------------------------- ________________ अनन्तलोकतोऽपि शान्तिदायिनी गरीयसी पुरन्दरस्य वज्रतोऽपि पुष्कलं द्रढीयसी वयं यदीयरक्षणे निरन्तरं पुरस्सराः तुषारशैलमण्डिता जयत्वियं वसुन्धरा !! न हिन्दवो महामदा न नानकावलम्बिनः न शाक्तशैवतान्त्रिका न जैनबौद्धयोगिनः परस्परं पृथङ्मता न वर्ततेऽन्यथा धरा ऋतम्भरा सनातनी जयत्वियं वसुन्धरा !!' (अभिराजगीता, पृ. ५५) इदानीमर्थलोभाज्जना देवभाषां संस्कृतं न पठन्ति, पाठयन्ति वा स्वपरम्परां कथमपि, किन्तु विबुधवाणी संस्कृतं परित्यज्य कस्याऽपि जनस्य कल्याणं भवितुं न शक्यते । समग्रे कुटुम्बे समाजे प्रदेशे राष्ट्रे जगति वा या दुर्भावना विद्यते, तस्याः संहरणं संस्कृतेनैव कर्तुं शक्यते । 'जयतु संस्कृतम्' इति गीते कवेर्वाणी सर्वथा श्रवणीया समाचरणीया च । 'राष्ट्रद्वेषं हरति संस्कृतं प्रान्तद्वेषं हरति संस्कृतं वेषद्वेषं हरति संस्कृतं भूषाद्वेषं हरति संस्कृतम् ।। वर्णद्वेषं हरति संस्कृतं जातिद्वेषं हरति संस्कृतं दृष्टिद्वेषं हरति संस्कृतं पङ्क्तिद्वेषं हरति संस्कृतम् ॥' (तत्रैव, पृ. ३८) 'यूयं यूयं वयं वयम्' इति गीते अन्यत्राऽपि च कविवर्येण राष्ट्रस्य दुर्गतिरपि न विस्मर्यते - 'सङ्गच्छामः सम्पश्यामः सन्तिष्ठामः क्षणे क्षणे - संसदि किन्तु हते निजपक्षे यूयं यूयं वयं वयम् ॥' (तत्रैव, पृ. ८५) यद्यपि सर्वथा रमणीयं मुद्रणमस्ति, तथापि यत्र-तत्र मुद्रणत्रुटिविद्यते । (प्र०-पृ. २२, ५४, ७०, १२६, १४४, १७०, १७२) कृतिरियमभिराजराजेन्द्रमिश्रस्य सर्वैः संस्कृतज्ञै राष्ट्रभक्तैः संस्कृतिनिष्ठैश्च संग्राह्या पठनीया च । जयतु संस्कृतं संस्कृतिश्च । Page #58 -------------------------------------------------------------------------- ________________ नूतनग्रन्थपरिचयः वागीश्वरीकण्ठसूत्रम् (आधुनिकं काव्यशास्त्रम्) (स्वोपज्ञवृत्ति-हिन्द्यनुवादसमेतम्) प्रणेता आचार्यहर्षदेवमाधवः सम्पादकोऽनुवादकश्च डॉ. प्रवीण-पण्ड्या प्रकाशकः राष्ट्रीय संस्कृतसंस्थानम्, ५६-५७, इन्स्टिट्युशनल एरिया, जनकपुरी, नवदेहली - ११००५८ प्रथमसंस्करणम् २०११, मूल्यम् रू. २४०/ आधुनिककाव्य-साहित्यकारेषु मूर्धन्यं स्थानं भजतः कविमहोदयस्य डॉ. हर्षदेवमाधवस्य नाम विश्रुतमेव संस्कृतसाहित्यजगति । स्वीयकाव्येषु नवनवान् प्रयोगान् कुर्वाणोऽयं महाभाग इदानीं नूतनसाहित्यशास्त्रविचारसरणिसमुद्घाटकत्वेनाऽलङ्कारशास्त्रग्रन्थग्रथनेऽपि स्वीयां प्रतिभा विनियुञ्जान आधुनिकसंस्कृतसाहित्यविकासार्थं सर्वप्रकारैः प्रयतमानो दृश्यते ग्रन्थस्याऽस्य विरचनेन । ग्रन्थस्याऽस्याऽन्तःसत्त्वमेवं प्रस्तौति मूर्धन्यः संस्कृतसाहित्यकार आचार्यश्रीराधावल्लभ-त्रिपाठिमहोदयः - ___ अस्मिन् षट्स्वध्यायेषु रस-गुणालङ्कारादयः पूर्ववर्तिभिराचार्यविमृष्टा विषया नवीनदृशा पुनरुन्मीलिताः, मैत्री-मुदिता-करुणोपेक्षेति-चतसृभिर्मूलवासनाभिः कथं समग्रं वाङ्मयमधिवासितमिति च सोदाहरणं निदर्श्य दशरूपककारादिभिर्दिङ्मात्रं प्रदर्शितः पन्थाः प्राशस्त्यं प्रापितोऽस्ति । अथ च मार्क्सवादास्तित्ववादपरावास्तववादप्रभृतिनवीनवादानां दलितसाहित्य-नारीसाहित्यादिनवप्रस्थानानां बिम्बविधानादिनव्यकाव्यकोटीनां चेदम्प्रथमतया प्रामाणिके विचारे प्रभविष्णुः साहित्यसंसारजिष्णुः प्रस्तौति तद्विचारमत्र हर्षदेवः ।। तदेवं ग्रन्थोऽयं संस्कृतसाहित्यसेविनां कृते नूत्लैकां दिशं समुद्घाटयिष्यति - इत्यत्र नास्ति शङ्कालेशः ॥ ४९ Page #59 -------------------------------------------------------------------------- ________________ नूतनग्रन्थपरिचय: __ ग्रन्थचतुष्टयी पूज्याचार्यवर्यश्रीविजयसूर्योदयसूरीश्वराणां तथा पूज्याचार्यवर्यश्रीविजयशीलचन्द्रसूरीश्वराणां प्रेरणया स्थापितेन कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्मृति-संस्थानेन प्रकाशिता आचार्यवर्यश्रीविजयशीलचन्द्रसूरिभिस्तच्छिष्यैश्च संशोधनपूर्वकं सम्पादिताश्चत्वारो नूतनग्रन्था अनतिचिरादेव लोकार्पणं प्राप्ताः । तेषां परिचयोऽत्र प्रस्तुतोऽस्ति - १. कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितमहाकाव्यस्य दशमं पर्व- आचार्यश्रीविजयशीलचन्द्रसूरिभिस्तिसृणां तालपत्रीयहस्तलिखितप्रतीनामेकस्याश्च कर्मदीयहस्तलिखितप्रतेरुपयोगेन संशोधनपूर्वकं सम्पाद्य समीक्षितवाचनारूपेणेदं प्रकाशितमस्ति । ग्रन्थेऽत्र चतुर्विंशतीर्थकृतां श्रीमन्महावीरस्वामिनां तच्छिष्याणां तच्छ्रावकादीनां च विशदं चरितं निरूपितमस्ति । ग्रन्थस्य हार्द प्रकटीकुर्वती प्रस्तावना, विस्तृता विषयसूचिर्नैकानि च परिशिष्टानि प्रकाशनस्या-ऽस्योपादेयतामत्यधिकं वर्धयन्ति, सहैव दुर्गमपदानामल्पपरिचितपदानां च बोधकानि टिप्पणकानि चाऽप्यतीवोपयोगीनि सन्ति । ग्रन्थसम्पादकाः आ.श्रीविजयशीलचन्द्रसूरयः प्रकाशनवर्षम् वि.सं. २०६८, ई. २०१२; पृष्ठसंख्या २४+२५६ (क्राउन) मूल्यम् ३५०/- रूप्यकाणि २. आचार्यश्रीभद्रेश्वरसूरिविरचिता कहावली - प्रायो वैक्रमीये ९५०तः ९७५ तमे संवति विद्यमानैराचार्यश्रीभद्रेश्वरसूरिभिः प्राकृतभाषायां गद्य-पद्यमय्यां विरचितोऽस्त्ययं ग्रन्थः । ग्रन्थेऽत्र चतुर्विशतेस्तीर्थकराणां द्वादशानां चक्रवर्तिनां नवानां वासुदेव-बलदेव-प्रतिवासुदेवानां नारदानां बहूनामन्येषां महात्मनां तथा विशेषतः श्रीमन्महावीरस्वामिनामन्वये सञ्जातानां महापुरुषाणां श्रीहरिभद्रसूरिपर्यन्तानां विशदचरितान्यालेखितानि सन्ति । अस्य ग्रन्थस्य द्वौ परिच्छेदौ स्तः । तयोश्चैकः प्रथम एवाऽद्यत्वे हस्तलिखितग्रन्थरूपेण प्राप्यते । तस्य च द्वौ खण्डौ । तयोश्च प्रथमः खण्डोऽत्र वैक्रमीय- पञ्चदशतमशत्यां लिखितस्यैकमात्रस्य तालपत्रीयग्रन्थस्याऽतीवभ्रष्टस्याऽवलम्बनेन महता परिश्रमेण संशोध्य सम्पाद्य च प्रकाशितोऽस्ति । अत्र खण्डे प्रथमतीर्थकरश्रीऋषभदेवस्वामिनश्चरितादारभ्य त्रयोविंशतीर्थकृतां श्रीपार्श्वनाथस्वामिनां समेषामपि च चक्रवर्ति-वासुदेव-बलदेव-प्रतिवासुदेवानां नारदानां नैकेषां चाऽन्येषामपि महात्मनां चरितान्यालिखितानि सन्ति । प्रायेणाऽऽलङ्कारिकवर्णनरहितेऽस्मिन् ग्रन्थेऽत्यन्तं सरलाया मधुरायाश्च प्राचीनप्राकृतभाषाशैल्या आस्वादो भवति । ऐदम्प्राथम्येन प्रकाशितस्याऽस्य ग्रन्थस्य साहित्यिकं सांस्कृतिकं च मूल्यमपारं वर्तते जागतिकविद्वत्समाजे । ग्रन्थसम्पादकः आ.श्रीविजयशीलचन्द्रसूरिशिष्यो मुनिकल्याणकीर्तिविजयः पृष्ठसंख्या ४४+४२५ (क्राउन) __मूल्यम् ३५०/- रूप्यकाणि Page #60 -------------------------------------------------------------------------- ________________ ३. मलधारि-आचार्यश्रीनरचन्द्रसूरिविरचितः प्राकृतप्रबोधः - कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितस्य सिद्धहेमशब्दानुशासनस्याऽष्टमाध्याये प्राकृतव्याकरणेत्यपरनाम्नि प्रयुक्तानामुदाहरण-प्रत्युदाहरणानां रूपसिद्ध्यर्थं सुगमप्रक्रियां निरूपयन्नयं ग्रन्थो वैक्रमीये त्रयोदशे शतके ग्रथितोऽस्ति महामात्यश्रीवस्तुपालगुरुभिराचार्यश्रीनरचन्द्रसूरिभिः । स चैकस्यास्तालपत्रीयहस्तलिखितप्रतेश्चतसृणां च कर्मदीयहस्तलिखितप्रतीनामवलम्बनेन सपरिश्रमं संशोध्य सम्पाद्य च प्रकाशितोऽस्ति । अस्याऽध्ययनेन प्राकृतव्याकरणस्थाः प्रयोगाः सरलतयाऽवबुध्यन्ते प्राकृतभाषाणां च विशदो बोधो भवति । ग्रन्थसम्पादिका सा.श्रीदीप्तिप्रज्ञाश्रीः पृष्ठसंख्या १४+२५८ (डबलडेमी) मूल्यम् २५०/- रूप्यकाणि ४. कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्य गद्यात्मकसारोद्धारः - पूज्याचार्यश्रीविजयशुभङ्करसूरिभिः प्रायः ३६०००श्लोकप्रमितस्य त्रिषष्टिशलाकापुरुषचरितमहाकाव्यस्य महाकाव्यप्रौढिसमलङ्कतं पद्यात्मकं स्वरूपं सारल्योत्सुकानामभ्यासिनां कृतेऽत्र ग्रन्थे गद्यात्मकतया वर्णनादिबाहुल्यरहिततया च समासेन विरचितमस्ति । सहैव परिशिष्टपर्वमप्यनयैव रीत्या सङ्क्षिप्य निर्मितमस्ति । समग्रोऽप्ययं गद्यात्मकः सारोद्धारः प्रायः पञ्चाशद्वर्षेभ्यः पूर्वं मुद्रितचर एवाऽऽसीत्, किन्तु साम्प्रतकालेऽलभ्यं तत् प्रकाशनम् । अतः सप्तसु विभागेष्वाधुनिकशैल्या पुनः सम्पाद्य प्रकाशितोऽयं ग्रन्थः संस्कृताभ्यासिनां जैनधर्मस्य जिनादिमहापुरुषचरितादेश्च जिज्ञासूनां कृतेऽत्यन्तमुपकारकोऽस्ति । ग्रन्थकर्ता आचार्यश्रीविजयशुभङ्करसूरिः ग्रन्थसम्पादकः मुनिधर्मकीर्तिविजयः पृष्ठसंख्या १५०० प्रायः (सप्तानामपि विभागानाम्) (डेमी) मूल्यम् ७००/- रूप्यकाणि (सप्तानामपि विभागानाम्) चतुर्णामपि ग्रन्थानां - प्रकाशकः कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यनवमजन्मशताब्दीस्मृतिसंस्कारशिक्षणनिधिः, अमदावादनगरम् प्राप्तिस्थानम् १. श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मन्दिर २. सरस्वती पुस्तक भण्डार १२, भगतबाग, नवा शारदा मन्दिर रोड, ११२, हाथीखाना, रतनपोळ, पालडी, अमदावाद-३८०००७ अमदावाद-३८०००१ Page #61 -------------------------------------------------------------------------- ________________ विचारणम् धारास्थ - वाग्देवीमूर्तिमधिकृत्य प्रा. अभिराजराजेन्द्रमिश्रः नन्दनवनकल्पतरोर्विगतेऽङ्के वाग्देवीमूर्तिविषयिणी काऽपि चर्चा कृताऽऽसीत् । तद्विषये सत्यं किमपि प्रस्तूयते । याऽऽकृतिस्तत्र पत्रिकायाः सम्मुखीने आवरणपृष्ठे मुद्रिता, सा वाग्देव्या धारस्थित भोजशालाया मूर्तिर्नैवाऽस्ति । यतो हि खण्डितहस्ताऽसौ मूर्तिः साम्प्रतमपि लन्दनस्थिते 'इण्डिया ऑफिस लाइब्रेरी' नाम्नि भवने तिष्ठति । तस्याः मूर्तेश्चरणान्तिके स्वहस्ताक्षरोऽयं भोजदेवस्येत्यपि समुट्टङ्कितं वर्तते । इमां मूर्तिं प्रत्यक्षमक्षिलक्ष्यीचकार सर्वप्रथमं प्रो. वेङ्कटराघवन्महोदयः मद्रासविश्वविद्यालयीयविपश्चितल्लजः । शृङ्गारप्रकाशं भोजदेवोपज्ञमधिकृत्य तेन शोधकार्यं कृतमासीत् । तदध्ययनसन्दर्भ एवाऽसौ तत्र गतवानासीत् । तत्रैव तेन वाग्देवीप्रतिमाविषयेऽपि श्रुतमथ च तस्याः फोटोचित्रमिदम्प्रथमतया स्वदेशे आनीतम् । वेङ्कटराघवानीतेन वाग्देवीचित्रेणैव तेन भारते तस्याश्चित्राकृतेद्द्रुतगत्या प्रचारः प्रसारश्चाऽप्यभूत्। सम्प्रति सुब्रह्मण्यस्वाम्यपि तत्सन्दर्भे प्रयतत इति वरम् । मया प्रत्यक्षमेव चतुरशीतिस्तम्भसंवलितायां भोजशालायां शारदासद्मेतिनाम्ना विख्यातायां तत् स्थानद्वयं दृष्टं भोजसमारोहावसरे, यत्रैकस्मिन् मण्डपे वाग्देव्या भोजार्चितायाः सा मूर्तिरासीत्, अपरस्मिश्च मालवेश्वरस्य सिंहासनं प्रतिष्ठितमासीत् । तत्समक्षमेव राजसभाकवयः ( धनपाल - परिमल -छित्तप-योगेश्वरकमलायुधाद्याः) समुपविशन्ति स्म । तत्सर्वं तस्मिन् भवनेऽद्यापि यथावद्राजते । हा हन्त ! सम्प्रति केवलं न तत्र सा मूर्तिर्न भोजासनम् । हृदयहीनैर्निर्मर्यादैस्तुरुष्काक्रमणकारिभिमूर्तिर्भञ्जिता । शारदासद्मनाम्नी भोजसभा चाऽपि मस्जिदीकृता । मूर्तिमण्डपं सिंहासनमण्डपं च परितो विशालाक्षरैः कुरानायतयस्तैरुट्टङ्किताः । सर्वा अपि भोजग्रन्थाः शिलाटङ्कितास्तत्रैव कुट्टिमे स्थापिताः । सततागमनागमनं कृतवतां जनानां पादघर्षणेन सर्वेऽपि ते ग्रन्थाः सम्प्रत्यवाच्यतां गताः । भोजशाला सम्प्रति मस्जिदीकृता । यद्यपि तत्र नित्यं प्रातः सायं 'नमाज' न प्रस्तूयते । तथाऽपि हिन्दवस्तत्र केवलं दर्शनार्थमनुमन्यन्ते । १९१०मितख्रिस्ताब्दे यदा लॉर्ड कैनिंगमहोदयः भोजशालापरिसरस्य सम्मार्जनं कारयन्नासीत् तदा भोजाधीश्वर्या वाग्देव्या इयं रमणीया मूर्तिः भवनस्य पृष्ठभागे निपातिता प्रक्षिप्ता वा तेन प्राप्ता । भोजदेवस्य हस्ताक्षरवशादेव सा मूर्तिरनायासं प्रत्यभिज्ञाता । नृशंसप्रक्षेपवशादेको बाहुर्वाग्देव्यास्त्रुटित आसीत् । ५२ Page #62 -------------------------------------------------------------------------- ________________ संस्कृतिप्रियः कैनिंगमहोदयो विलक्षणामिमामैतिहासिकी मूर्ति सयलं लन्दनं प्रेषितवान् । तत एव वाग्देवी भोजदेवस्य तत्रैव विश्राम्यति । तस्मिन्नेव सभामण्डपे भोजप्रशंसापरं गीतं गायता मया भावनोद्रेकवशात् अकस्मादेव रुदितमासीत् ।२ तत्कालीनो मध्यप्रदेशशिक्षामन्त्री श्रीविक्रमवर्मा मामश्रुकातरं दृष्ट्वा स्वयमपि वेदनातॊ जातः । तत्सर्वं मया स्वोपज्ञे शतके धारामाण्डवीये सविस्तरं वर्णितम् । भारतसर्वकारस्य दायित्वमिदं यदसौ तां मूर्ति यथाशीघ्रं लन्दनादिह समानयेत् राष्ट्रगौरवरक्षार्थम् । एवमुच्यते यद् दिल्लीतो दौलताबादं गच्छन् मुहम्मदबिनतुगलको मध्येमागं धारं लुण्टितवान् । तेनैव भोजशाला मस्जिदीकृता, शारदामूर्तिश्च मण्डपादपनीय भवनपृष्ठे प्रक्षिप्ता । न खलु सा कदाऽपि गुर्जरराज्ये गता । अस्माकं मित्रवर्याणां कवितल्लजानां तदानीन्तनमध्यप्रदेशसंस्कृताकादमीसचिवानां दूर्वासम्पादकानामस्मद्दौर्भाग्यादिदानीं कीर्तिशेषाणां श्रीमतां डॉ. भास्कराचार्यत्रिपाठिवर्याणामहर्निशप्रयत्नवशात् प्रथमभोजसमारोहः धारनगरे खैस्ते १९९१तमवर्षे समायोजितोऽभूत् । सर्वेऽपि कार्यकमा अन्यत्र सम्पादिताः । परन्तु एका विशिष्टा कविगोष्ठी जिलाधीशानुमत्या भोजशालायामेव समायोजिताऽभूत् वाग्देवीमण्डपसमक्षं, यस्याश्चर्चा मया प्राक्कृता । । तस्याः विशुद्धसारस्वतघटनाया अन्यथा दुष्प्रचारोऽखिलेऽपि नगरे मुस्लिमसमाजे कृतोऽसहिष्णुभिः पाखण्डिभिः कैश्चन । ते च जिलाधीशविरोधे शासनं जुह्वाञ्चक्रुः । वराकस्सोऽपि सङ्कटापन्नो जातः । मस्जिदे हिन्दूनामुत्सवः कथमनुमत इति दुष्प्रचारस्याऽऽशय आसीत् । अग्रिमे वर्षेऽपि भोजोत्सवोऽभूद् धारनगरे । परन्तु भोजशालाद्वारमस्माकं दर्शनार्थमपि नाऽपावृतम् । तृतीये वर्षे भोजोत्सवायोजनमेव निरुद्धम् । तद् विजयतां मूषिकभीरु भारतशासनं विजयताञ्चाऽद्याऽपि बर्बरसिंहः परधर्मो भयावहः !! १. यज्ञस्थानादवाच्यां दिशि विततशतस्तम्भशीर्षेः षडूनै निव्यूढाऽसौ समासीद्रससदननिभा शारदासद्मनाम्नी । यत्रोत्तुङ्गे गवाक्षे विविधमणिमये काव्यसीम्नां विधात्री वाग्देवी राजते स्म स्मितमसृणमुखी सम्मुखीना कवीनाम् ॥ धारा० ३२ कण्ठे स्तम्भं नियम्य प्रलपननिकषं नेत्रयोरिधारां गाने स्वेदं प्रकम्पं मनसि विचलनं भावशाबल्यशल्यम् । मध्येशालं निषण्णः ललितगुणगणं तेऽद्य गायामि राजन् ! संस्मृत्याऽऽत्र्तो विषण्णो भवति कृतमति: कान्दिशीकः कथञ्चित् ॥ धारा० ८८ Page #63 -------------------------------------------------------------------------- ________________ साम्प्रतम् भोजसारस्वतम् अरैयर् श्रीरामशर्मा शालिवाहकनन्दनवर्षे नन्दनाख्यवनकल्पतरूद्धे । साष्टविंशतितमस्थिरशाखे नन्दयामि च मुनित्रयलक्ष्म ॥ श्रीमद्विजयशीलाढ्यचन्द्रसूरिमुनेः प्रियः । संस्कृतप्राकृतोपेतः पत्रकल्पतरुर्जयेत् ॥ कल्याणकीर्तिविजयस्य वचोऽभिरामं दृष्ट्वा विलेखितमहं तु यथार्थतोषी । श्रीभोजराजनगरीवररुच्यमूर्ति विद्याधरीमभिमतामनुचिन्तयामि ॥ स च भोजनरेन्द्रश्च दानोत्कर्षेण विश्रुतौ । सूरी तस्मिन् क्षणे तत्र, द्वावास्तां कविबान्धवौ ॥ इति काश्मीरकः कल्हणो राजतरङ्गिण्यां उद्घोषयति । काश्मीरे अनन्तराजो भारते भोजराजश्च निरन्तरं षष्टिवर्षकालं निराबाधं राष्ट्रं रक्षितवन्तौ । असूयया ब्राह्मणप्रेरितैः काश्मीरे क्षत्रियप्रेरितैर्भारतेऽनयो राज्ञो राज्यनाशः कारितः । सपरिवारोऽनन्तराजो भृगुपतनेन हिमालये स्वयं प्राणानत्यजत्, भोजस्तु महायोगी विमानतन्त्रविज्ञानी च विन्ध्यारण्ये वीणागानयोगेन रामायणचम्पू अन्तिमरात्रौ रचयन्नेव प्राणानूर्धमत्यजत् । एकरात्रे भोजेन चम्पूरामायणं यावत्कृतं तच्छेषमेकाहेन कृतवानहमिति द्राविडस्तञ्जावूरुराज: उल्लिखति इति प्रमाणम् । किञ्च काञ्चीविदुषा एकाम्रनाथेन भोजमरणादिदर्शिना यादवप्रकाशशिष्येण घजनीहत-सोमनाथपुनःप्रतिष्ठासमये चम्पूरामायणयुद्धकाण्डः पूरित: प्रकाशितश्चेति तदीयैरेव पद्यैरवगम्यते । काश्मीरे अनन्तदेवस्य दायाद इष्टदेव एव रविपण्डितकविसमाजस्य निर्वाहक आसीत् । स एव 'सच' इति कल्हणेन प्रस्तूयते । एवमितः सहस्रसंवत्सरेभ्यः पूर्वं षष्टिर्वर्षाणि भारतीयसाहित्यसंस्कृतेः सुवर्णयुग आसीद् इति ज्ञायते । अनन्तदेवस्य पुत्रः कलशस्तुर्किस्तानादागतानां तुरुष्काणां साह्येन पितरमनन्तदेवं स्वपुत्रं सर्वविद्वन्मूर्धन्यं श्रीहर्षञ्च निरकासयदिति राजतरङ्गिणीत एव ज्ञायते । प्रायो गूर्जर - काश्मीरयोः प्राचीनो द्वेषभावः स्पर्धा च भगवतः श्रीकृष्णस्य काल एव आसीत् । ततः श्रीकृष्णेन काश्मीरं प्रविश्य विधवां गर्भिणीमेव तत्र राज्ञीमभिषिच्य सुराज्यं कारयित्वा मैत्री सम्पादितेति प्राचीनेतिहासेऽपि तत एव ज्ञायते । भोजस्तु स्वाधीन - गूर्जर : दाक्षिणात्यसहायस्तुरुष्केभ्यो विदेशीयेभ्यो द्वारकास्थानं संरक्ष्य तुरुष्कान् बहुकालं निवारयति स्म । काञ्चीनगरपार्श्वस्थ - कूराख्यक्षेत्रपण्डितो दामोदरकविर्द्वारकाकृष्णविग्रहगोपने स्ववस्त्रैः साह्यं कृतवान् इति श्रूयते । कर्णाटमैसूरुयदुगिरिसमीपस्य गंगवाड (ल) वीराश्चोळभृत्या भोजस्याऽऽतरक्षका ५४ Page #64 -------------------------------------------------------------------------- ________________ आसन् इति च प्राचीनजानपदपद्यैर्बोध्यते । यथा सुंकातोण्णूरुकरीभण्टविषयकं पद्यगीतम् - अदु निन्तनु चोळरायनु सुत्त निन्तर करियभण्टरु । नुग्गिदनु रभसदलि गोग्गरिसि तुगलपट्टणके ।। इति । व्युत्थाय वीरः चोलराजः परितः कृष्णभटान् समागम्य वेगेन गुर्गुरध्वनि कुर्वन् तुघलकपत्तनं प्रविष्टवान् इति । धारानगरस्य प्रान्ते इन्दूरुतः गमने गंगवाल(ट)स्थानमद्याऽप्यस्ति । तुघलकस्य सोमनाथाक्रमणे तदीयं स्थानं गंगवाडकृष्णभटाः आक्रम्य स्थिताः चोळगंगदेवेन सह इत्यनेन ज्ञायते ।। __ एवं गूर्जरो भीमराजः, कर्णाट: तैलपो जयसिंहश्च धारानगरं संरक्षककृष्णभटविरहितमाक्रम्य नाशितवन्तौ । घजनीसाह्यमनयोरासीत् इति च ज्ञायते । इमं विषयं कर्णाटचौलुक्यविक्रमादित्यस्य षष्ठस्य पिता जयसिंह एव स्वीये शासनपत्रे उल्लिखति - धारानगरं तैलप्रक्षेपेण वह्निसात्कृत्य स्ववंशनामतैलप इति सार्थकीकृतम् – इति । काश्मीरे अनन्तराजमरणात् तुरुष्काक्रान्तराजास्थानतया बिल्हणः कविः स्वदेशं त्यक्त्वाऽऽकन्याकुमारि भारतं पर्यटन् गूर्जरे कर्णावतीनगरमागत्य भीमराजपुत्रस्य कर्णदेवस्य विवाहोत्सवे अन्वीय कर्णसुन्दरीतिनाटिकां विरचय्याऽभिनीतिभिः प्रदर्श्य सन्तोषितवान् । अत्र नान्दीपद्ये श्रवणबेळगोळबाहुबलिमूर्तिः स्तुता । ततो निर्गत्य जयसिंहपुत्रं विक्रमादित्यमाश्रित्य कर्णाटकल्याणनगरे राजगुरुरभूत् । काश्मीरादागमनकाले विदुषामाश्रयभूतं भोजराजं स्मारं स्मारं धारानगरवैभवं च दग्धं शून्यं पश्यन् रोदिति । धारानगरमेव बिल्हणं गोपुरपारावतपुञ्जध्वनिभिराह्वयति स्मेव । षण्मासेभ्यः पूर्वं त्वमागतश्चेत् भोजस्तुभ्यं मामेव ददाति स्म इति । __ "शिखरक्रोडपारावतानां नादव्याजादिति सकरुणं व्याजहारेव धारा ।" इति हि तस्य उद्गारो विक्रमाङ्कदेवचरिते । बिल्हणविषयं च कल्हणो राजतरङ्गिण्यामुल्लिखति - प्रसर्पतः करटिभिः कर्णाटकटकान्तरे । राज्ञोऽग्रे ददृशे तुङ्गं यस्यैवाऽऽतपवारणम् ॥ इति । विदुषामेवं सम्माननीयता तदाऽऽसीत्, यदा राजानोऽपि सद्विद्वांस एवाऽऽसन् विद्वद्रक्षकवीराश्च । हन्तेदं दौर्भाग्यं यदसूयाकुटिलैवैदेशिकसहायैर्भोजनगरं केवलं न नाशितं, किन्त्वखिलभारतीयसंस्कृतिरेव नाशिताइति मन्तुं युक्तम् । यत् तुरुष्कान् घजनीप्रभृतीन् विदेश्यानानीय स्वदेश्यानेव नाशयामासुस्ते इति । अद्यतनभारतराष्ट्रेऽपि इदं न न्यूनम् । ___ मया बाल्यादारभ्याऽभिमतो धाराप्रदेशः सकुटुम्बेनेतो दशवर्षेभ्यः पूर्वं दृष्टः । कोटदुर्गे यत्र भोजस्य क्षेपाणिकाविमानप्रयोगस्थानमासीत्, यच्च स समराङ्गणसूत्रधारग्रन्थे "लघुदारुमयं सुमहाविहगं परिकल्प्य च तत्र च पादरसम्" इत्युल्लिखति, येन स विन्ध्यारण्यं प्रति गतः, तत्र मुस्लिमानामेव गृहाणि दृश्यन्ते । यत् सरस्वतीभवनं तस्याऽदूराद् वर्तते, तत्र हिन्दूनां प्रवेशो दुष्करः । वयं केवलवस्रमात्रेण सर्वमन्यत् धनादिकं पत्रलेखन्यादिकं च बहिरेव स्थापयित्वाऽन्तः प्रविश्य दृष्टवन्तस्तत् भोजस्य सरस्वतीभवनम् । ५५ Page #65 -------------------------------------------------------------------------- ________________ केन्द्रसर्वकारस्य सैनिका दिवानिशं तत् शून्यतमं भवनमनिमेषपक्षमपाता रक्षन्ति । तत्राऽन्तरपार्श्वयोरेव भित्तौ संस्कृतभाषात्मकं नागरलिपिमयं प्राचीनं भोजराजस्य शासनलेखफलकं दृष्ट्वा प्रथममेव मुदिता वयम् । ततो दाक्षिणात्यमन्दिरशालाकल्पे तस्मिन् भवनेऽग्रे एका वेदिकां तत्पार्वे दारुमयीमेकां निश्रेणि दृष्टवन्तः । द्वात्रिंशत्सालभञ्जिकानिःश्रेणिरियमिति च ज्ञातवन्तः । निःश्रेणिर्न समीचीना यतःकुतश्चिदानीय स्थापितेव भाति । सत्यं न जानामि । तत्पार्श्वे नूतनमुर्दूभाषालिपिलिखितं कृष्णशिलाफालकं भित्तिलग्नं दृष्टम् । नानलिपिज्ञतया मया तत् फलकं नूतनैर्भवनाक्रमणशीलैस्तुरुष्कर्बलात् स्थापितं स्यात् - इत्यभ्यूढम् । सत्यमितः शतवर्षेभ्य आरभ्य मुस्लिमानामत्राऽऽक्रमणं दृश्यते न्यायालये व्यवहारश्च प्रवर्तत एवेति । भारतकेन्द्रीयस्थानधूर्ता एव केचन अत्र मामलां = व्यवहारं फैसलं = न्यायपूर्तिविशिष्टं च कर्तुं नाऽवकाशं ददति, वोटाख्यजनसङ्ग्रहग्रहणदुराशया मुस्लिमतोषणार्थमिति परिसरजनेभ्य ज्ञातवान् । सरस्वतीभवनस्य दक्षिणबाह्यभित्तिमाक्रम्य मसजिद्स्थानं निर्मितम् । यद् भवनोदरस्य महान् पिटकग्रन्थिरिव कूष्माण्डाकारो गोळाकारः संलग्नो दृश्यते । व्यवहारं समापयितुं मुस्लिमानुगा हिन्दव एव केचन नेच्छन्ति न त्वत्रत्या मुस्लिमा इति । कांग्रसीया एव व्यवहारं जीवयन्तीति मुस्लिमैरेवोक्तम् । को नाम प्रलयः ? अस्मदीयं किप्यस्माभिर्नाऽनुभोक्तुं शक्यते इत्येव प्रलयः । 'अद्य धारा निराधारा' इति गूर्जरकालिदासस्य वचनम् - अद्य धारा दुराधारा इति पठितुं युक्तम् । किन्नामैतत् ? भारतमेव दूरतम् इत्यपि वक्तुं युक्तम् । एवमेव महाराजप्रवरसेनस्य तत्कालकालिदासमुखेन सेतुबन्धाख्यप्राकृतमहाकाव्यकारयितू राजधानी दुर्गञ्च मुख्यस्थानेष्वनतिचिरेण मुस्लिमैराक्रान्तं दृश्यते । अधुनातनमहाराष्ट्रविदर्भप्रदेशे नागपुराददूरे बार्धाजिल्लायां 'पवनार प्रदेशे तस्य शिथिलं दुर्गं 'धाम'नदीतीरे द्रष्टव्यम् । तस्य राज्ञो ग्रीष्मसौधोद्यानमेव तुरुष्कै शितं महात्मना विनोबाभावेमहाशयेन स्वकरकुद्दालखननादिभिः समीकृत्य स्वाश्रमकरणेनोज्जीवितं तत्र प्राचीनसेतुबन्धकाव्याद् ज्ञायमानानां श्रीरामायणपवित्रचरित्रबोधिकानां मूर्तीनां शिल्पखण्डैाप्तं तथैव संरक्षितमद्याऽपि द्रष्टव्यम् । प्राचीनरामपादद्वयं यत्र लब्धं तत्रैव विनोबाकक्ष्यान्तरं अस्ति । तत्र च प्राक्तनशिल्पेषु कादम्बराजचिन्हचक्रं गङ्गामूर्तिरित्यादीन्यनर्घाणि । एवं भोजराजस्य यत् सारस्वतं धनं विद्याधनं तदप्याङ्ग्लानुगैर्भारतीयै शितप्रायमेव । यत् संस्कृतं देशीभाषाश्च ते सर्वकारपरायणा अवमन्यन्ते । एवं सति किमिति वा लण्डन्म्यूसियं-गतविग्रहस्य सरस्वतीति नाम दत्त्वा आनयनमात्रेण । नन्दनवनकल्पतरौ अष्टविंशतितमशाखापत्रिकायां भोजसरस्वतीविग्रहविषये विचारणा कृता । २०११ डिसंबरमासे सम्भाषणसन्देशपत्रिकायामपि । ततः पूर्वमेव सप्टेंबरमासे विदुषा रेवाप्रसादद्विवेदिना कलिकातानगरीयसत्यानन्दपत्रिकायां स्पष्टं लिखितम् - इयं काचिदप्सराः न तु भोजसरस्वती इति । तदीयलेखभाग एव २१-७-२०११ लिखितः अनेन मम लेखेन सह प्रेष्यते इति विज्ञापकः श्रीरामशर्मा । मेलुकोटे - मण्ड्यजिल्ला, कर्णाटकराज्यम्-५७१४३१ Page #66 -------------------------------------------------------------------------- ________________ भोजराजस्य सरस्वती* | रेवाप्रसाद द्विवेदी १९६३ ख्रिष्टाब्दे प्रकाशिते, विश्वमात्रे संस्कृतस्य कृते लब्धप्रतिष्ठेन मद्रासविश्वविद्यालये संस्कृतविभागाध्यक्षतां बिभ्राणेन, प्रा. V.राघवन्महोदयेन Bhoja's Smgāra Prokas - इति नाम्नाऽऽत्मनः Ph.D. - शोधप्रबन्धे घोषितं - 1953-54 शिक्षासत्रे इंगलैण्डं गतेन मया ब्रिटिशम्युजियम् इति लन्दनस्थितायां भोजसरस्वत्याः प्रतिमा साक्षात् कृता । तस्या हस्ताश्चत्वार आसन्, किन्तु एक एव रक्षितः । तत्र सृणिरङ्कितः पादपीठप्रस्तरेऽभिलेखोऽप्येक आसीदिति । तेन महोदयेनाऽऽभिलेखः स नाऽनुशीलितः । ततः प्रभृति सा प्रतिमा भोजसरस्वतीत्वेनैव प्रसिद्धिमाप्ता । उज्जयिनीस्थैविद्वद्भिः पुनः प्रतिमाया अस्याः खण्डिता हस्ताः पूरिताः । विक्रमविश्वविद्यालयस्य संस्कृताध्ययनशालायां चित्रेऽस्मिन् ‘श्रीमद्भोजनरेन्द्रचन्द्रनगरीविद्याधरी-वाग्देवी'-त्यभिलेखांशोऽपि दत्तः । अनन्तरं वाकण्करप्रभृतीनां तपस्विनामितिहासविदामनुशंसया तत्रत्यया कालिदास-अकादम्याऽपि तस्या एव प्रतिमायास्तैलचित्रं बंहीयसाऽऽकारेण शारदाम्बात्वेन स्थापितम् । समारोहे तामेव पूजयितुं प्रावर्तन्त आयोजकाः । ___ अस्माभिरपि भोजदेवस्य शृङ्गारप्रकाशीये स्वस्थे समग्रे च मूले प्रकाशिते (२००७) तदेवोज्जयिनीस्थं द्वितयमपि चित्रमावरणपृष्ठे ग्रन्थारम्भे च दत्तम् । वर्षचतुष्टयं व्यतीतम् । अथ साम्प्रतं लन्दनस्थस्य British Museum - संस्थाया Website उद्घाटितम् । तत्र प्रतिमाया अस्या सरस्वतीत्वं विहाय यक्षीत्वं दर्शितं, समथितं च प्रतिमाया अस्या अधोभागे दत्तेनाऽभिलेखेन । विदुषां प्रवरैस्तत्राऽवधीयेत । तेन सिध्यति नेयं प्रतिमा भोजेन स्थापिता, अस्या स्थापयिता आसीत् कश्चिज्जैनो वररुचिः । नाऽसीच्चास्याः स्थापना भोजस्य भोजशालायां, धारायां तु क्वचिदियमासीत् - लोकसुखसाधनीभूत-यक्षीत्वेन यक्षीत्वमस्या विद्याधरीपदेन संसाधितम् । 'विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः पिशाचा गुह्यका सिद्धा भूता वै देवयोनयः' इत्यमरकोषवचनमत्र प्रमाणम् । अस्या विशेषणद्वयं भूयोऽपि प्रतिमाया अस्याः सरस्वतीत्वं परिहरति । तत्रैकम् 'अप्सरा' इति द्वितीयं च 'अखिलदेहिनां खलु सुखप्रस्थापनाय निर्मितेय'मिति उभाभ्यामपि सुराङ्गनात्वमात्रमस्याः सिद्ध्यति । रूढिर्योगाद् बलीयसीति नियमेनाऽत्र 'विद्याधरी'ति * सत्यानन्दसामयिके (सितम्बर - २०११) प्रकाशितोऽयं लेखः । ५७ Page #67 -------------------------------------------------------------------------- ________________ 'वाग्देवी'-ति द्वितयमपि विशेषणं सरस्वतीत्वाय कल्पयितुं शक्यं यौगिकत्वं वारयति । अथोज्जयिनीकल्पितयोश्चित्रयोरपि सैव कथा । तत्राऽपि सरस्वत्याः कश्चनाऽपि प्रतीको नास्ति । नास्ति तत्र हस्ते पुस्तकं, न वा वीणा । या च माला साऽपि न स्फाटिकी । काञ्चीशारदाम्बायाः प्रतिमायां शुकोऽपि लभ्यते । उज्जयिनीस्थे चित्रद्वये सोऽप्यनुपस्थितः । कथङ्कारमुच्येत सरस्वत्येषेति ? । अथ पादपीठे दत्तोऽभिलेखो विचार्यः । अस्य समयो वि.सं. १०९१ । स एव भोजस्य । भाषा प्राकृतमिश्रितं संस्कृतम् । उत्कीर्णासु तिसृषु पङ्क्तिषु कानिचिदक्षराणि नष्टानि । अथाऽपि अभिलेख एष एवं कल्पितुं शक्यते - ओं । श्रीमद्भोजनरेन्द्रचन्द्रनगरीविद्याधरी धर्मधीधीरो योऽखिलदेहिनां खलु सुखप्रस्थापनायाऽप्सराम् । वाग्देवीं प्रथमं विधाय जननीं पश्चाज्जिनानां त्रयीमम्बां नित्यफलाधिका वररुचिर्पति शुभां निर्ममे ।। इति । मूललेखस्त्वेवंरूपः (ब्रिटिशम्यूजियम, लन्दन) पं. १ उं । स्त्रीमद्भोजनारंदचंदनगरीविद्याधरी र्मदी () यो.... खलु सुख प्रस्थापना । पं. २ याप्रा वाग्देवी प्रथम विधाय जननी पशा ज्जिनान त्रयीम् अम्बा नित्यफलादिका वररुचि ऊति सु भां नि । ___पं. ३ ममे ॥ इति । सुभा ॥ सूत्रधारसहितसुतम थले अशा इत । विज्ञानिक सिवदेवेन लिखितम् ॥ इति ॥ पं. ४ संवत् १००९१ ॥ अत्र 'रेन्द्रचन्द्र' इति ‘न्दिदचंद' इति लिख्यते । अप्सरःशब्द आकारान्तो घटितः । एतेनाऽस्य भाषा ललितविस्तरादिग्रन्थगतां मिश्रितां भाषामनुहरति । सर्वथा संग्रहालयाधिकृतैर्जनैरस्या अप्सरोमूर्तेः सरस्वतीकण्ठाभरणस्थसरस्वती-'मूर्तित्वेन प्रचारः कृतः ।' तत्रैव विश्वस्तो डॉ. वे. राघवमहोदयोऽस्या भोजनिर्मितत्वमपि जुघोष । उज्जयिनीस्थस्तपस्वी गवेषको वाकणकरस्तु वाग्देवीशब्देनाऽस्याः सरस्वतीत्वं निरचिनोत् । वस्तुत एतदुभयमपि निर्मूलम्, अद्याऽपि बहव्यो गायन्यः विद्याधरीति, वागेश्वरीति च व्यपदिश्यन्ते । तथैव भोजनगर्या अस्या यक्ष्या वाग्देवीति नाम न तु ततः सरस्वतीत्वं सिषाधयिषितम् । रूढिर्योगापहारीणीति नियमनिगडितास्तु न प्रभवामः सरस्वतीत्वमत्र स्वीकर्तुम् । न चाऽपि शृङ्गारप्रकाशारम्भे पश्यामः सरस्वतीम् । ५८ Page #68 -------------------------------------------------------------------------- ________________ ब्रिटिशम्युझियम्-स्थिताया भोजराजप्रतिष्ठितसरस्वतीत्वेन च प्रसिद्धायाः प्रतिमायास्तत्पादपीठस्थस्याऽभिलेखस्य च छायाचित्रे । (सौजन्यं - ब्रिटिश-म्युझियम्-जालपुटम् [ वेबसाइट ]) आसमानारदपानावयास खाधारी चार वाजविराधा रानावना नानीवर सवामहिमामलाएक Page #69 -------------------------------------------------------------------------- ________________ मननम् → चिटिकाया आरक्षणव्यवस्था स्वचालितयन्त्रेण भविष्यति । त्वं कालस्य प्रतीक्षां कुरुष्व । → स्वचालितसोपानपङ्क्तिनेष्यति त्वामूर्ध्वम् । ப परलोकवि- देशयात्रा डॉ. हर्षदेव माधवः O O सुरक्षा परीक्षणं कर्तुं न केवलं स्यूतान्, अपि तु शरीरमपि निधाय गच्छ । स्वपरिचयपारपत्र(Pass - port) पुस्तिकां तत्राऽवक रिकायां क्षिप । जीवनेन्धनक्षयोत्तरमेव यात्राया आरम्भो भविष्यति । ப → कर्ममयमासनपट्टबन्धनं शिथिलय । न केवलं दूरभाषाः, कर्णावपि पिहितौ जातौ । डयनस्याऽयमेव सङ्केतः । O यात्रा तु शुभैव वर्तते यतोऽसौ नेष्यति प्रियतमं प्रति । 8, Rajtilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-58 ६० Page #70 -------------------------------------------------------------------------- ________________ काव्यानुवादः मुक्तकानुवाद- द्वयी गुर्जरभाषायां मूललेखक: - श्रीहर्षब्रह्मभट्टः संस्कृतानुवादकः - डॉ. वासुदेव वि. पाठकः, - १. धर्म पाळी, शुं धाड मारी हें ? हाडमारी नरी वधारी व्हे; अक कहेवाता पुण्यने खातर, यातनाओ केटली गुजारी हें ? २. मन हवे जीवे मरे, सरखुं ज छे, लाश डूबे के तरे, सरखुं ज छे; आंखमां केवळ हो सूनी सांज तो, फूल खीले के खरे, सरखुं ज छे. ६१ १. 'वागर्थः’ धर्मपालनेन वा, किं नु विशिष्टं कृतम् ? संघर्ष-वर्धनम् । कथित पुण्यार्थं, त्रासातिवर्धनम् ॥ २. मनसो जीवनं मरणं वा, समानमेव कुणपस्य तरणं मज्जनं वा, समानमेव; नेत्रे यदि शुष्कैव सन्ध्या स्यात्तदा, पुष्पस्य पतनं विकसनं वा, समानमेव ॥ Page #71 -------------------------------------------------------------------------- ________________ अनुवादः सर्वमपि सुखरूपं भविष्यति मुनिधर्मकीर्तिविजयः यदा यूयं परिश्रान्ताः स्यात, युष्मत्तः सर्वमपि विरुद्धं भवेत्, कुत्र गमनीयमिति न जानीयात यूयम्, अन्ततो हताशां क्लेशं चाऽनुभवेत, तदा सुखे व्यतीतान् दिवसान् स्मरेत यदा सर्वैः सह बालकवद् मैत्रीभावेनाऽजीवत यूयम् । ६२ Page #72 -------------------------------------------------------------------------- ________________ कदाचिदेतादृशः कालोऽप्यागच्छेत्, यदा सर्वत्र घोरान्धकार एव व्याप्नुयात्, आशाया न किमपि चिह्न दृश्येत, भार-उद्विग्नता-कालुष्यैर्हदयं त्रस्तं स्यात्, आनन्दः सुखमाशा च. बाष्पवदुड्डीयेरन्, तदा सुखे व्यतीतान् दिवसान् न विस्मरेत यूयम् । अहमेवमेव कथयामि - यद्, बहुप्रयत्नैर्युष्माकं सुखे व्यतीतदिवसानां स्मृति मार्गयेत, तदा सर्वमपि शुभमासीत्, गगने न कोऽपि मेघ आसीत्, युष्माकं समीपे कोऽपि नाऽऽसीत्, कस्यचिद् वात्सल्येन यूयं प्रसन्नाः स्यात तत् कदाचिदद्य युष्माकं जीवने न स्यात्, अत एव व्यतीतान् दिवसान् संस्मरेत यूयम् । एतादृशान् रम्पान् दिवसान् न कदाऽपि विस्मरेत, यदा विस्मरेत तदा न कदाऽपि प्रत्यागमिष्यन्ति ते, आनन्दपूर्णविचारैर्मनः प्रफुल्लितं कुरुत, हृदयं क्षमा-स्नेह-सारल्यैश्च संभरेत, गृहं हास्यस्यौघैः प्रसन्नीकुरुत, पश्चात् पश्यत, सर्वमपि शनैः शनैः सुखरूपं भविष्यति । ६३ Page #73 -------------------------------------------------------------------------- ________________ साम्प्रतम् संस्कृतेन संस्कृताः, संस्कृते समुन्नताः ॥ डॉ. वासुदेव पाठक 'वागर्थ ' किं करणीयम् ? संस्कृतसम्मानं करणीयम्, संस्कृतसेवार्थं सरणीयम् । संस्कृतनीत्या सञ्चरणीयम्, संस्कृतप्राप्त्या संतरणीयम् ॥ सर्वमेव संस्कृतं संस्कृते ॥ प्रान्तीयभाषाया मातृभाषाया वा महत्त्वमनिवार्यम् । एवं सत्यपि, संस्कृत-संस्कृत्याः संस्काराणां, भारतीयगौरवस्य च यत्र मूलाधारः, सा संस्कृतभाषा कथमपि नोपेक्ष्या, इति अवगन्तव्यम् । सैषा भाषा सुलभा सुबोधा च नैव दुर्बोधा । यः कामपि भारतीयां भाषां जानाति, स संस्कृतेन परिचित एव । यतः सर्वासु भाषासु, संस्कृताः, संस्कृतोद्भवाः, तत्समाश्च शब्दा: ८०% वर्तन्ते एव । एवं सति, संस्कृतस्य ज्ञानमन्यभाषाणां ज्ञानार्थं, विचाराणामेकसूत्रतार्थं, परस्परमादानप्रदानार्थं, एकताया भावनार्थं च समग्रस्य राष्ट्रस्य कृते संस्कृतमावश्यकम् । मातृवत् संस्कारदानं करोति सा, वयं च संस्कारामृतस्य पानं कुर्मः । वस्तुत:, मातुर्मूल्यमुपयोगिता वा नैव विचारणीया । तस्या वात्सल्यमेवोपकारकमुत्कर्षार्थम् । लाभान्विता एव वयं वात्सल्येन । एवं सत्यपि, अर्थप्रधानयुगेऽद्य, संस्कृतस्य कृते जनादरः प्राप्य: प्रलोभनमपि दत्त्वा । एतदर्थं, (१) व्यवसायेन संस्कृतस्य सम्बन्धः कार्यः । अस्माकं आयुर्वेद - ज्योतिष - वास्तुकर्मकाण्ड-न्यायार्थशास्त्रादीनां शास्त्राणामेतदर्थं बहुमूल्यं प्रदानम् । व्यवस्थापनाय, व्यापारकरणे चाऽपि संस्कृतस्य योगः कार्यः । विचारे व्यवहारे चाऽपि, संस्कृतज्ञानं नूनमुपकरिष्यति । (२) विविधसंस्थासु (धार्मिकसंस्थासु विशेषतः ) व्यवस्थापकः, संस्कृतज्ञ: (शास्त्री, आचार्य:, बी.ए., एम.ए. इत्यादि) प्राथम्येन कार्यः । शासनेन ( Govt. ) 'चेरिटी कमिश्नर' द्वारा एवं नियमतः कर्तव्यम् । (३) शालासु संस्कृतस्य शिक्षणमनिवार्यं कार्यम् । सर्वासु कथासु तत्र गुणानां गणनाऽप्यनिवार्या । यद्यत्र मूलत एव, संस्कृत - संस्कारा न स्युः, तर्हि विश्वविद्यालये, महाविद्यालये छात्राणामभावो भविष्यति । अकादम्या ततः किं करणीयम् ? ६४ सरस्वतीनगर, अहमदाबाद- ३८००१५ Page #74 -------------------------------------------------------------------------- ________________ अहो आश्चर्यम् ! मुनिन्यायरत्नविजयः* प्राणिगणमध्ये केषाञ्चनाऽतिविशिष्टमाचरणं भवति, यत् श्रुत्वा वयं निश्चितमेवाऽत्यद्भुतमिति वदन्तः शिरांसि धूनयामः । केन कारणेन ते विशिष्टमाचरणं कुर्वन्ति तत्त्वद्याऽवधि न जानीमः, तथाऽपि तद्वार्ताऽपि महती रोचिका इति कृत्वा कथयाम्येकामद्भुतां वार्ताम् । मधुमक्षिकाया नाम्ना वयं सर्वेऽपि परिचितचरा एव । ताः त्रिधा विभक्ताः । पुरुषाः, नपुंसकाः, स्त्रियश्च । स्त्री-मधुमक्षिका त्वेकैव भवति । सा तु राज्ञी । पुरुषाः स्तोकाः, ते राजेवाऽऽचरन्ति । नपुंसकास्तु सर्वकालं सेवका एव । सेवैव तेषां जीवनम् । * पू.आ.श्रीसिद्धसूरीश्वरजीसमुदायवर्ती । ६५ Page #75 -------------------------------------------------------------------------- ________________ समुदायमध्ये राज्ञी सर्वोत्तमा सेवां प्राप्नोति । सा कदाचिदपि गृहाद् बहिर्न गच्छत्येव । तस्याः शिरसि न कोऽपि कार्यभारो वर्तते । 'प्रजोत्पत्तिः' इत्येकमेव कार्यं सा करोति । अस्मत्परम्पराया आधारभूतैषैवेति कृत्वा ये नपुंसकाः सेवकास्ते (Labourer honeybees) सर्वप्रयत्नेन तस्या रक्षां कुर्वन्ति । श्रेष्ठभोजनं तत्कृते आनयन्ति । तेन भोजनेन तत्पुष्टिमपि जनयन्ति । निश्चितदिनेषु प्रायः सहस्रद्वयाधिकान्यण्डकान्येकवेलायामेव सा राज्ञी प्रसवति । राजवद् वर्तमानाः पुरुषमक्षिका अपि किमपि कार्यं न कुर्वन्ति । तेषां जिह्वाग्रमपि लघुतरं तेन कारणेन पुष्पमकरन्दमपि ग्रहीतुमसमर्थास्ते । तस्मात् स्वोदरपूरणार्थमपि ते न शक्नुवन्ति । परम्परारक्षणार्थं तेऽपि पालनीया एवेति कृत्वा पुरुषाणां कृते मध्वपि नपुंसकाः सेवका एव चिन्वन्ति । सञ्चित्य च नीडमध्ये आगत्य पुरुषाणां जठराग्निशमनं कारयन्ति । नेयन्मात्रमपि तु नीडस्य शुद्धिमपि वारंवारं त एव कुर्वन्ते । यत्तु पुरीषोत्सर्गमन्यश्च यो कचवरः, तं गृहीत्वा दूरं त्यजन्ति । कदाचित् कोऽप्यन्यो जन्तुः शत्रुरूपेण नीडविनाशार्थमागच्छन्ति तदा स्वप्राणपणमपि कृत्वा नीडरक्षां कुर्वन्ति । ग्रीष्मर्तुमध्ये स्वेषां पक्षाः बहुशो विधूय नीडं शीतलीकुर्वन्ति । नूतननीडकृते स्वशरीरमध्ये विशिष्टपदार्थ(Wax)मप्युत्पादयन्ति । संभावितापत्कालनिमित्तं गृहमध्ये मधुभण्डारं नपुंसकाः सेवका एव सङ्ग्रह्णन्ति । राज्ञीनिमित्तं विशिष्टमध्वपि प्रगुणं कुर्वन्ते । यदा च पुरातनसञ्चितमधु स्तोकमेवाऽवतिष्ठते नूतनमधु च न प्राप्येत तदा राज्ञीजीवितार्थं पुरुषान्नीडान्निष्कासयन्त्यपि - इत्यादिकार्यभारं वहमानाः नपुंसकास्सेवकाः केवलं पञ्चचत्वारिंशद्दिनमध्ये स्वजीवनं समाप्ति नयन्ति । प्राणिशास्त्रविशारदा अपि न जानन्ति यदुत केन कारणेन स्वजीवितव्ययेनाऽपि परोपकारैककार्यरताः नपुंसकाः सेवका ईदृशं सर्वमपि कार्य कुर्वन्ते इति । अहो त्यागः ! अहो कर्तव्यपरायणता ! अहो बन्धुभावः ! अहो तपः ! अहो निःस्वार्थसेवाभावः ! अहो स्वामिसमर्पणम् ! अहो निरीहता ! अहो ! आश्चर्यम् ! पशवोऽशिक्षिता अपीदृशं सुसाधुजनसुलभं दुष्करं कार्यं कुर्वन्ति । सुशिक्षितमात्मानं मन्यमाना वयं मनुष्याः क्व, क्व चैते जन्तवः !!! बाल्यकाले पठितं सुभाषितमत्र प्रस्तोतुं युक्तं, यत् परोपकाराय वहन्ति नद्यः, परोपकाराय दुहन्ति गावः । परोपकाराय फलन्ति वृक्षाः, परोपकाराय सतां विभूतयः ॥ (आधारः - आङ्ग्लभाषीया 'सफारी'मासपत्रिका) ६६ Page #76 -------------------------------------------------------------------------- ________________ मर्म गभीरम् मुनिकल्याणकीर्तिविजयः (१) यदि समयो न स्यात्..... कश्चन साधकः कदाचित् पर्यटनान्निवर्तमान आसीत् । तदीयं बसयानं स्वल्पकालाय कुत्रचित् स्थानकेऽतिष्ठत् । ततश्च क्षुधाद्याकुला जना अधोऽवतीर्य तत्र स्थितमुपाहारगृहं प्राप्ताः । अयमपि गतवान् । तच्चोपाहारगृहं सुतरां स्वच्छं सुन्दरं चाऽऽसीत् । उत्तमानां व्यञ्जनानामाहारविशेषाणां चाऽऽमोदेन मनः प्रसन्नं भवति स्म । एकत्राऽऽसन्दे उपविश्य तेन यूषमानेतुमादिष्टं परिषेवकस्य । तेन पृष्टं - 'किं भवान् बसयानादागतो वा ?' 'आम्' इत्यनेनोक्ते 'यूषं नाऽस्ति' इति स उक्तवान् । ‘एवं, तर्हि दध्योदनेन सह व्यञ्जनमानयतु' इति साश्चर्यमादिष्टवानयम् । 'यदि भवान् बसयानस्य यात्रिकस्तर्हि तदपि न लप्स्यते । केवलं पिष्टकमेव लप्स्यते । मया ह्येतत् सर्वमाहारजातं महता परिश्रमेण बहुना च कालेन प्रगुणीकृतमस्ति । यदि भवतस्तस्याऽऽस्वादनार्थं दशनिमेषादधिकः समयो न स्यात् तर्खहं भवते तत् कथं दद्याम् ??' (२) धन्यवादः गुरोराश्रमे शिष्याणां सङ्ख्या वृद्धिङ्गताऽऽसीत् । अतस्तेषां कृते नूतनावासगृहनिर्माणस्याऽऽवश्यकता जाता । तदा केनचित् श्रेष्ठिना समागत्य लक्षरूप्यकाणां दानं घोषितं, गुरोः स्वीकृतौ च जातायां तेन धनमप्यानीय गुरवे प्रदत्तम् । गुरुणोक्तं - 'अस्तु, अहं स्वीकरोम्येतत्' । एतच्छ्रुत्वा स श्रेष्ठी मनसि किञ्चिदिवाऽसन्तोषं प्राकटयत् यत् - 'इयद्धनेऽपि दत्ते गुरुणा मे धन्यवादोऽपि नोक्तः खलु !' । स उक्तवान् – 'प्रभो ! एतद्धि लक्षरूप्यकमितं धनमस्ति' । 'मयाऽवलोकितं भोः !' इति गुरुः कथितवान् । 'यद्यप्यहं धनिकस्तथाऽपि लक्षमितं धनं तु बहु भवति' - स उक्तवान् । 'तर्हि किं भवान् एतदर्थं मम सकाशाद्धन्यवादं श्रोतुमिच्छति वा ?' 'भवताऽवश्यं कथयितव्यः' । ६७ Page #77 -------------------------------------------------------------------------- ________________ 'भोः ! न मया भवते धन्यवादः कथयितव्यः, प्रत्युत भवतो धनं मया स्वीकृतमित्येतदर्थं भवता मे धन्यवादः कथयितव्यः !!' (३) विलम्बः 'गुरो ! मया कदा मम बालकस्य शिक्षणमारब्धव्यम् ?' - एका माता गुरवे पृष्टवती । "किंवयस्कोऽस्ति ते बालः ?' - गुरुणा पृष्टम् । 'प्रभो ! पञ्चवर्षीयोऽस्ति सः' । 'पञ्च वा ? शीघ्र गृहं गत्वा तच्छिक्षणमारभस्व, त्वया पञ्च वर्षाणि विलम्बस्तु कृतोऽस्त्येव !!' (४) किमर्थम् ? गुरोराश्रमेऽध्येतुं गच्छन्तं कञ्चन साधकं तत्सुहृत् पृष्टवान् – 'भो ! भवान् किमर्थं गुरोः पार्वे गच्छन्नस्ति ? किं स भवते जीविकोपार्जनं शिक्षयिष्यते वा ?' 'नैव भोः ! किन्तु तत्सकाशे कृतेनाऽध्ययनेनाऽहं जीविकामुपाय॑ सा कथं नियोक्तव्येति शिक्षिष्ये' इति साधक उक्तवान् । (चतुर्णामप्येषामाधारः One Minute Nonsense - इत्याङ्ग्लपुस्तकम्) (५) मातुरनुशासनम् कश्चन युवा विविधशास्त्राणि पठित्वा महाविद्वान् समभवत् । ततो ज्ञानं प्राप्तुं बहवो जनास्तत्पावें समागच्छन्ति स्म सर्वदा, तस्य प्रशंसां च सर्वोऽपि जन: करोति स्म । अथ च तन्मातुः पार्वेऽपि जनाः समागत्य तं प्रशंसन्ते । ततश्च तया तस्योपरि पत्रमेकं लिखितं - ____ 'प्रियपुत्र ! अन्येषां साहाय्यार्थं त्वमेको जङ्गमो ज्ञानकोषो यद् जातोऽसि तदुत्तमं, किन्तु, एतावन्मात्रेण त्वं भगवतोऽपि सत्योऽनुयायी जातोऽसि इति तु मा मंस्थाः । शास्त्रज्ञानस्य विचारस्य विमर्शस्य साफल्यस्य प्रतिष्ठायाश्च कोऽप्यवधिरेव नास्ति । अहं त्वेवमभिलषामि यदेकदिने त्वमेतत् सर्वमपि दूरं त्यक्त्वा कुत्रचिद् दुर्गमे स्थाने स्थिते कस्मिंश्चिल्लघुन्याश्रमेऽज्ञाततया गत्वोपविश सर्वकालं च भगवद्ध्यानं कृत्वा सत्यस्य साक्षात्कारं कुरु' इति । (झेनकथा) Page #78 -------------------------------------------------------------------------- ________________ कथा चौर्यम् मुनिधर्मकीर्तिविजयः बिन्दो ! बिन्दो ! क्षणं तिष्ठ । कुत्र गच्छसि ? बिन्दुस्तु तीव्रगत्या धावितवान् । ततो मालत्या: शङ्का दृढीभूता । किं शृणुयात् भवान् ! बिन्दुः किञ्चिदपि गृहीत्वा गच्छन्नस्ति । त्वरितमागच्छतु भवान् । स्वकार्यैकाग्रमनाः स सुरेश उत्थातुं नेच्छति स्म । तथाऽपि मालत्या आग्रहेण बहिरागतवान् । तदैव रिक्तहस्तो बिन्दुः प्रत्यागच्छति स्म । वारं वारं मयाऽऽराटिः कृता, तथाऽपि कथं त्वं न स्थितवान् ? वद वद, किं गृहीत्वा धावितवानासीत् ? निस्तेजा: बिन्दुरुवाच श्रीमति ! न किमपि । त्वं मायाव्यसत्यभाषी चाऽसि । यदि हस्ते किमपि नाऽऽसीत् तर्हि कथं नाऽतिष्ठ: ? कम्पितदेहः स न किमपि कथयितुं शक्त आसीत् । बिन्दो ! मा बिभेषि । यत् सत्यं स्यात् तत् कथय । वत्स ! किं गृहीतं त्वया ? इति प्रेम्णा पृष्टवान् सुरेशः । - महोदय ! मम हस्ते संमार्जन्यवस्करश्चैवाऽऽस्ताम् । पुनरसत्यं त्वमुक्तवान् ? आरक्षकानाह्वयतु । एष तु ताडनाधिकार्येवाऽस्ति । तव विश्वासेनेदं गृहं तुभ्यं समर्पितं, किं तद् वस्तूनां चौर्यार्थम् ? इत्यालपन्ती मालती रक्तवदना जाता । सुरेश उक्तवान् - मालति ! शान्ता भव, स्थिरा भव । एषा रीतिर्नोचिता सत्यस्य शुद्ध्यर्थम् । बिन्दो ! त्वं तु बुधः प्राज्ञश्च बालकोऽसि । मां पश्य, अवस्करस्त्वया कुत्र क्षिप्त: ? अत्यन्तप्रेमपूर्वकं बिन्दोर्हस्तं गृहीत्वा सुरेशस्तत्स्थानं गतवान् । बिन्दुनेङ्गितेन यत्राऽवस्करः क्षिप्तस्तत् स्थानं निर्दिष्टम् । रभसा मालती तत्स्थानस्य परितो दृष्टि कृतवती, किन्तु किमपि न दृग्गोचरं जातम् । महोदय ! बाबुजी !.... इत्येव बिन्दुः कथयितुं शक्तो जातः । धन्यवादो धन्यवादः ! कथय, वत्स ! किं गृहीत्वा गतवानासीः ? महोदय ! किञ्चिद् द्राक्षादिकमधः पतितमासीत्, तदेव मया गृहीतम् । सहसैव मालत्युक्तवती - मम कथनं सत्यमासीद् न वा ! बिन्दो ! द्राक्षादिकस्य किं कृतं त्वया ? ६९ Page #79 -------------------------------------------------------------------------- ________________ भक्षितं मया । एतावता कालेन कथं भक्षितं त्वया ? वत्स ! सत्यं कथय । महोदय ! तत्रैव प्रक्षिप्तं मया । सर्वैस्तत्स्थाने दृष्टे सति पञ्चषा द्राक्षादयः प्राप्ताः । बिन्दोः स्कन्धे हस्तं दत्त्वा 'मया सह त्वमागच्छ' इत्युक्तं सुरेशमहोदयेन । द्वौ अप्यपवरके गतवन्तौ। कपाटमुद्धाट्य द्राक्षादिकं तद्धस्ते दत्त्वाऽकथयत् सुरेशः - 'बिन्दो ! भक्षयैतद् द्राक्षादिकम्' । महोदय ! न, न, इच्छा नाऽस्ति । ममाऽपराधं क्षमतां भवान् । त्वं भक्षय, अहं कथयामि इत्याग्रहेण सुरेशेन बहिस्स गन्तुमादिष्टः । अनया रीत्यैव प्रेष्या दुष्टा भवन्ति । नोपालम्भ:, किन्तु तस्य प्रशंसनं करोति भवान् । अद्य द्राक्षादिकमचोरयत्, श्वोऽन्यत् किमिपि चोरयिष्यति ? इत्युक्तवती मालती साक्रोशम् । मालति ! बिन्दुर्न चौर:, किन्तु वयं चौराः स्मः । कथमस्माभिरेतादृग्वस्तूनि भक्षणीयानि यानि सर्वैर्न प्राप्यन्ते ? चौर्यस्य जन्म अत एव भवति । वयं प्रतिदिनमाकण्ठं द्राक्षादिकं भक्षयामः । एको बालो भक्षणेच्छयाऽध:पतितं द्राक्षादिकं भक्षयेत् तत्र का हानि: ? किं जातम् ? इत्युक्त्वा सुरेशो हसितवान् । द्राक्षादिकस्य न मूल्यं किन्तु मनो दूषितं तन्नोचितम् । भवानेवैतादृशानां मनोमालिन्यस्य वृद्धि ― करोति । मालति ! दुःखिनी मा भव । प्रसन्नमनसा शान्त्या च विचारय । यावत्सर्वैः सर्वाणि वस्तूनि नावाप्येरन् तावन्न चौर्यं निवारयितुं शक्यम् । चौर्यं न रुचिकरं, किन्तु चौर्यं मनुजस्य पराधीनताऽस्ति । इतो बिन्दुर्बहिरगच्छत् । स सायङ्काले जातेऽपि न प्रतिनिवृत्तः । बिन्दोः कृते या भोजनस्थाली स्थापिताऽऽसीत् तां निरीक्ष्य मालत्या मनस्युद्वेगः प्रसृतः । तन्मन एवं प्रश्नयति यत् – सोऽसत्यमवोचत्, किन्तु बिन्दुरपि बालक एवाऽस्ति । बुभुक्षितस्स: कुत्राऽटेत् ? ततो द्वित्रवारं बहिरागत्य दृष्टं, सर्वत्र निरीक्षितं, किन्तु स न दृग्गोचरीभृतः । ततस्सा स्वमनस्येवाऽशान्तिमनुभवन्ती - धिग् मां, लघ्वीघटनाऽपि बृहद्घटनास्वरूपेण परावर्तिता मयेति चिन्तितवती । कुन्दन ! किं बिन्दुस्त्वया दृष्टः ? 'जी', 'नन्दीबाबु' महोदयस्याऽपवरकेऽस्ति । तत्र गत्वा बिन्दोर्हस्तं गृहीत्वा मालती सुरेशमहोदयस्याऽपवरके आगतवती । पश्यतु, प्रातःकालादेव बिन्दुरेष 'नन्दीबाबु ' महोदयस्याऽपवरके बुभुक्षित एव स्थितोऽस्ति । तत्र किं कुर्वन्नासीत् ? बिन्दो ! बिन्दोर्नयनयोर्वहमाना अश्रुबिन्दव एव प्रत्युत्तरमयच्छन् । सुरेशः किमपि वदेत् तत्पूर्वमेव 'चल, भोजनं कुरु' इत्युक्त्वा बिन्दोर्हस्तं गृहीत्वा तं पाकशालायां नीतवती मालती । उदरं भृत्वा भक्षयेः, भयं माऽऽसेवेथाः, इति वदन्तीं बिन्दोः पृष्ठे प्रेम्णा हस्तं प्रसारयन्तीं च मालतीं दृष्ट्वा सुरेशस्य हृदये प्रसन्नता प्रसृता, मनश्चाऽऽनन्देन भृतं जातम् । ७० Page #80 -------------------------------------------------------------------------- ________________ कथा वाचः फलम् मुनिधर्मकीर्तिविजयः कस्मिंश्चिद् ग्रामे एकस्तन्तुवायो वसति स्म । तस्य कार्य सुन्दरमासीत् । अतः सर्वेऽपि प्रशंसन्ति स्म तम् । किन्तु तस्य वाचि केवलं कर्कशतैव वर्तते स्म । सर्वैः सह सर्वदा तस्य क्लेश एव भवति स्म । ततः स सर्वेषामपि जनानामप्रियः आसीत् । तस्य पत्नी प्रशान्ता मधुरभाषिणी चाऽऽसीत् । सर्वैः सह तस्या व्यवहारोऽपि सौम्यः सौहार्दभृतश्च प्रवर्तते स्म । तया स तन्तुवायो बहुशः प्रबोधितः - भवतः कार्यं सुन्दरमस्ति, किन्तु केवलं कर्कशगिरा भवानवमानितः सर्वैः अतो मधुरवाचा सर्वैः सह व्यवहरतु - इति । स उवाच - किं करवाणि ? भवत्येवोपायं दर्शयतु । पत्नी आह - पञ्चदश दिनानि बहुघृतमिश्रितं पक्वान्नं भक्षयतु, येन वाणी स्निग्धा भवेत् । एवं पञ्चदशदिवसपर्यन्तं तन्तुवायेन पक्वान्नं भक्षितम् । ततो हस्तनिर्मितं सुन्दरं कम्बलं दत्त्वोक्तं पत्न्या – एतद् राजे देहि, किन्तु तत्र न किमपि वक्तव्यं भवता । ततः पत्नीकथितसूचनां मनसिकृत्य, कम्बलं गृहीत्वा राजसभायां स गतवान् । यथावसरं राज्ञे तत्कम्बलं समर्पितं तन्तुवायेन । तं दृष्ट्वैव राजाऽतीव प्रसन्नो जातः । पुनः पुनः प्रशंसति राजा । प्रसन्नमनसा राज्ञा पृष्टम् - एतादृशस्याऽतीव सुन्दरस्य कम्बलस्योपयोगः कदा करणीयः ? तन्नुवायः उवाच - भवतोऽन्तिमयात्रायामस्योपयोग: करणीयः । तच्छ्रुत्वा राजा कुपितः, तं च तिरस्कृत्य राजसभातो निष्कासितवान् । . ७१ Page #81 -------------------------------------------------------------------------- ________________ कथा परबुद्धिर्विनाशाय * मुनिअक्षयरत्नविजयः सदाचारः शिष्टाचारश्चाऽवश्यमाचरितव्यः । तत एव तु 'शिष्टपुरुषैर्यत्कथितं तदहमनुसरामी भावार्थवाक्यैर्नानाविधशास्त्रग्रन्थेषु नैके शास्त्रकर्तारो भावितबुद्धयः पूज्यवर्या अस्मान् 'शिष्टाचारः सदाचारश्चाऽवश्यमेवाऽनुकर्तव्य:' इति प्रेरयन्ति । नैके विद्वज्जना धर्मोपासकाश्च तेषामिमां घोषणामनुगच्छन्ति तेन च स्वात्मकल्याणं साधयन्ति । एवं सति यदा 'कश्चिदपि आचारः सन् असन् वा शिष्टोऽशिष्टो वा' इति विवेकं विनैवाऽनुष्ठीयते तदा स आचारोऽन्धस्याऽग्रे दर्पणढौकनमिव मिथ्या भवति, लोकेषु च हास्यास्पदं जायते । हास्यप्रदा सा घटना कीदृशी भवति ? तद् वयमाचारज्ञानेन विहीनानां केषाञ्चिदबोधजनानामानन्ददायिन्या बोधदायिन्या च लघुकथा दर्शयामः । रम्यमेकं नगरमासीत् । नगरस्याऽन्ते कश्चित् कुलालो निवसति स्म । तस्य समीप एको रासभ आसीत्। कुम्भकारेण ग्रामिकभाषायां स 'जोगियो' इति नामग्राहमाहूयते स्म । कुलालस्य निकेतनस्याऽऽरादेको नित्यवेदपाठी विप्रो निवसन्नासीत् । स प्रातस्तरां समुत्थाय नित्यं वेदमातृकापाठं करोति स्म । योगानुयोगतो यदा विप्रपण्डितो वेदमातृकापाठं करोति स्म तदा तेन सहैवाऽनुवेश्य कुम्भकारस्य गृहे स्थितः स गर्दभोऽपि तीव्रता बुक्कनं करोति स्म । एकस्मिन् दिने तेन बुक्कितम् । द्वितीयस्मिन् दिनेऽपि बुक्कितम् । तृतीयस्मिन् दिनेऽपि बुक्कितम् । पश्चात्तु नित्यशोऽयमेव क्रमोऽचलत् । अतः पण्डितवर्यो विचिन्तितवान् यद् " गर्दभोऽयं कोऽप्युत्तमो भू । पूर्वजन्मनि पुण्यकृत्यानि कृत्वाऽऽगतोऽस्तीति प्रतिभाति, यस्मात्कारणादेष वेदमातरं श्रुत्वा सोत्कण्ठो भवति बुक्कति च ।" एवमनेकदिनपर्यन्तमचलत् । एकदा किन्तु विपरीतमभवत् । तस्मिन् दिने पण्डितेन प्रातः समुत्थाय मन्त्रजापो यथाक्रमं प्रारब्धः । किन्तु गर्दभरवो नाऽऽगतः । अतः पण्डितः शङ्कितवान् 'कथमद्य स्वरो नाऽऽगतवान् ? गर्दभराजो विद्यते * आ. श्रीविजयधर्मसूरीश्वरसमुदायवर्ती ७२ Page #82 -------------------------------------------------------------------------- ________________ न वा ?' संशयालुः पण्डितो व्याकुलोऽभवत् । अतो मन्त्रजापं समाप्य सद्यः कुम्भकारस्य गृहं गत्वा तेन पृष्टः कुलाल: "अहो ! नमो भ्रातः ! कुत्र गतः स उत्तमो जीवः ?" ___ कुम्भकारोऽपि सनमोवाकमब्रवीत् - "का? असौ 'जोगियो' रासभः ?" "अरेरे ! महानुभाव ! 'जोगियो' इति न वक्तव्यं, किन्तु 'जोगेश्वरमहाराज' इति वक्तव्यम् ।" पण्डितेन कुम्भकारोऽनुरुद्धः पश्चाच्च पृष्टः - "स त्वतिमहानात्मा हो ! हंहो, तस्य किमभवत् ?" "पण्डितवर्य ! तस्य तु गतेऽह्नि प्राणात्ययोऽभवत् ।" श्रुत्वेदं कर्णौ पिधायाऽतिखिन्नः पण्डित उक्तवान् – “किम् ? स्मरणपदवी प्राप्तवान् ? हा ! हा ! शान्तं पापम् । अरेरे ! कीदृशो महामान्यो जीवः । अथाऽतोऽस्माभिः किं कर्तव्यम् ? एतादृशो महान् जीवो यदा म्रियेत तदानीं तत्पश्चाद् वयं यदि किमपि न कुर्याम तर्हि त्वस्माकं धार्यमेव स्यात् । तदर्थं किञ्चिद् लब्धनाम कार्यं कर्तुं वयमक्षमाः । परं, शेषे शिरो मुण्डित्वा नदीनानं त्ववश्यं कुर्मः ।" विचिन्त्यैवं पण्डितो शिरोमुण्डनं कृत्वा स्रोतस्विनीमगच्छदस्नाच्च । स्नात्वा च पुरीं प्रति पुनरागच्छन् तत्र रथ्यायां शृङ्गाटके वाणिजेनैकेनाऽङ्गुल्या शीर्षं दर्शयित्वा पण्डितः पृष्टः "अये वागृषभ ! किमिदम् ? अद्य किमस्ति ? कश्चिदम्रियत किं ?" पण्डितः प्रत्यब्रवीत् – “रे भ्रातर् ! न जानासि किम् ? अद्य महात्मानो जोगेश्वरमहाराजा अम्रियन्त ।" जगति लोकास्तु शश्वदक्षिणी निमील्य धावनस्वभावा सन्ति । लोकगतिश्च भूयसा गतानुगतिका भवति । प्रायेण जगदिदं सत्यं किम् ? इति नाऽन्वेषयति । तत एव कथितमपि यद् 'गतानुगतिको लोको, न लोकः पारमार्थिकः ।' अत्राऽप्येवं जातम् । पण्डितस्य पूर्वोक्तेनोत्तरेण सहैव लोकानामविचार्य धावतामेकं हास्यप्रदं प्रकरणं प्रारब्धम् । 'जोगेश्वरमहाराजा मृताः' इति विज्ञाय वणिजा पुनः पृष्टो विप्रो यद् – “तदानीं तु पण्डितवर ! मयाऽपि किञ्चिद् विधातव्यं ननु ?" विप्रेण कथितम् - "तस्मिन् पृच्छसि किम् ? अवश्यं विधातव्यमेव, तस्मिन् संशीत्याऽलम् । रे ! आपणं विक्रीय धर्मदानं कुरुष्व तदप्याभ्युदयिकं भवेत् । चरमं शीर्षमुण्डनं तु शीघ्रं कर्तव्यमेव ।" संवादमिति कृत्वा वणिगपि पण्डितमनुसृतवान् । सोऽपि मुण्डितोऽभवत् । इयता विपण्यां क्रयिका आगताः । आपणिकं मुण्डितं निरीक्ष्य साश्चर्यास्ते पृष्टवन्तो यद् – “अयि भ्रातः ! अद्य किमस्तीदम् ? कश्चन स्वजनो मृतः किम् ?" आपणिकः प्राह – “रे भ्रातरः ! किं कथयेयम् ? मृत्युस्त्वभवत्, किन्तु सोऽप्यनन्यसाधारणो मृत्युः । अमी महात्मानो जोगेश्वरमहाराजा अम्रियन्त ।" ७३ Page #83 -------------------------------------------------------------------------- ________________ "एवम् ? महात्मानोऽम्रियन्त ? तदानीं त्वस्माभिरपि किञ्चित् कर्तव्यं ननु ?' क्रयिका मनोगतं पृष्टवन्तः । आपणिक उवाच - "अरे ! महानुभावाः ! यावत् करिष्यथ तावदल्पम् । पारमिको जीवः, अन्ते शीर्षं तु निश्चयाद् मुण्डयितव्यमेव ।" ततः केचिज्जना नापितं निकषा चेलुः । पश्चात्तु नैके पौरजनाः पदशो मुण्डमण्डलानुगामिनोऽभवन् । समग्रनगर्यां विशेषतश्च हट्टेऽयं शीर्षमुण्डनज्वरो वातालीमिव प्रसृतवान् । इतस्ततः खल्वाटान् पौरा विलोकयन्त आसन् । तावति तत्र नगर श्रेष्ठी समागतवान् । मुण्डितकुलं विलोक्य कौतुकदृष्ट्या तेन पृष्टाः पौराः - "भोः बान्धवाः ! किमस्तीदम् ? इमे सर्वे..... ???" श्रेष्ठिनो वचनं निरुध्य मध्य एव कश्चिदुवाच - "अहो श्रेष्ठिवर्य ! न जानासि ? नगर्यां हाहाकारः प्रसृतोऽस्ति । अमी महात्मानो जोगेश्वरमहाराजा अम्रियन्त । ततो नगरजनाः शोकातुराः सन्ति ।" "किं कथयसि ? प्रसभम् ! महाप्रसभम् ! एतादृशा जीवा जायन्ते विरलाः, जाताश्च यदा म्रियन्ते तदा मादृशेन तु प्रथमं शीर्षं मुण्डयितव्यम् ।" अन्यं कञ्चिदपि धनव्ययं कर्तुमनिच्छन् विदग्धः श्रेष्ठी मुण्डनार्थं स्वयमेव सज्जोऽभवत् । शीर्षमुण्डनज्वरो नगर्यामाशुगत्या प्रसृतिमाप्नोत् । आनगरजनादेतादृशा नगर श्रेष्ठिपरा अपि तच्चक्रे समागता आसन् । सर्वे विदग्धाः कोविदाश्चाऽपि गतानुगतिकतामेवाऽनुसरन्ति स्म । केचिदप्येवं न पृच्छन्ति स्म यद् ‘कीदृशा जोगेश्वरमहाराजाः ? कुत्र तन्निवासः ?' जाने गतानुगतिकतैव सर्वेषां सात्त्विकमार्गस्तात्त्विकमन्त्रश्च न स्यात् ? अथ शिरोमुण्डनं कृत्वा पौर श्रेष्ठी सचिवालयमीयिवान् । श्रेष्ठिनं खल्वाटं दृष्ट्वा मन्त्रिणा पृष्टम् - "अद्य किमस्ति श्रेष्ठिवर्य ? स्वजनेषु कश्चिदपि मृतवान् किम् ?" श्रेष्ठी प्राह - "धन्यम् ! मन्त्रीश्वर ! भवान् न जानाति नूनम् ? अमी महात्मानो जोगेश्वरमहाराजाः कालधर्ममप्राप्नुवन्, भवाँश्चाऽज्ञातः ?" अतो मन्त्रीश्वरेण कथितम् - "श्रेष्ठिवर्य ! महात्मानोऽम्रियन्त ततो मयाऽपि किञ्चिदाचरितव्यं ननु ?" "मन्त्रिवर्य ! गरीयेभ्यो महात्मभ्यः प्रस्तावसदृशं किञ्चिदवश्यमाचरितव्यम् । अन्ततः शीर्षमुण्डनं तु कर्तव्यमेव त्वरितं ।" श्रेष्ठी प्रेरितवान् सचिवम् ।। अतो मन्त्रिणाऽपि शिरोमुण्डनं कृतम् । अथ राजपरिषदः समये मन्त्रि-श्रेष्ठिप्रभृतयो नैके प्रजाजना राजसभायां समागताः । तेषु नैकान् जनान् खलतीन् विलोक्य राजाऽपि विस्मितलोचनो बभूव । तेषु स्वस्य धीनिधानं सचिवमपि समाविष्टं ७४ Page #84 -------------------------------------------------------------------------- ________________ दृष्ट्वा तु तस्य विस्मयो द्विगुणितः सञ्जातः । किन्तु स लघुदृष्टिर्नाऽसीत् । स तु लघुहस्त आसीत् । अतः किञ्चित् पर्यालोच्य प्रधानमुद्दिश्य तेन पृष्टम् - " कथं मन्त्रीश्वर ! किमिदम् ?" ‘‘महाराजाः ! महात्मजोगेश्वरमहाराजाः कालधर्ममप्राप्नुवन् ततः ।" मन्त्रिणा सर्वं पारम्परिकं प्रत्युदितम् । - श्रुत्वा वार्तामिमां राज्ञा परम्परीणः प्रश्नो न कृतः, तेनेतरतः पृष्टो मन्त्री यद्मन्त्री प्रतिवक्तुं न शशाकाऽतो व्याकुलितः स मक्षु धीप्रदर्शनं कुर्वन्नवदत् – “स.... स कोऽस्ति, तत्तु नाऽहं वेद्मि । एतदर्थं नगर श्रेष्ठी प्रष्टव्यः ।" राज्ञा नगर श्रेष्ठी पृष्टस्तदा सोऽपि उवाच "नाऽहं जानामि राजन् ! अहं त्वन्येन ज्ञातवान् ।” एवं 'चलकचलाणु' इति नाम्ना गुर्जरभाषायां ख्यातिप्राप्तं बालक्रीडनमिव चक्रगतिश्चलिता । इत्थममुष्याऽऽपणिकस्याऽऽख्याऽऽगता । आपणिको राजसभायां समाहूतः पृष्टश्च तदा तेनाऽपि तदेव गानमालपितम् – “नाऽहं जानामि कृपालो ! असौ ब्राह्मणपण्डितो जानाति । अस्या वार्ताया मूलायतनं स एवाऽस्ति ।" — ततो राजा पण्डितमाकार्य तस्योपरि प्रश्नावलिं वर्षितवान् – “पण्डितवर्य ! कीदृशो जोगेश्वरमहाराजोऽ म्रियत ? कुत्राऽस्ति तस्याऽऽ श्रमः ? कीदृशी महासाधना तेन साधिता ? पश्चात् कियतः शिष्यान् मुक्त्वा गतोऽस्ति ?" " को जोगेश्वरमहाराज: ?" राजप्रश्नावलिं श्रुत्वा व्यामोहितेन पण्डितेनाऽल्पक्षणान्तरं रहस्योद्घाटनं कृतम् - " हे क्षमाशील ! राजन् ! क्षमस्व माम्, जोगेश्वरमहात्मा कश्चिदपि मानवो नाऽऽसीत् । किन्तु स रासभ आसीत् । कस्यचित् कुलालस्य गृहे निवसन् तस्याऽऽत्माऽतीवोत्तम आसीत् । प्रत्यहं मम वेदमातृकापाठकाले स रासभो बुक्कन्नासीत्। कस्याश्चित् सद्गतेरतिथिर्भावीत्यनुभवामि ।" समाकर्ण्येदं राजा मुक्तकण्ठेन प्रहसितवान्। ह्रीजनकमेतादृशं रहस्यस्फोटं श्रुत्वोपहासपात्रीभूतास्तत्र स्थिता मन्त्रि - नगर श्रेष्ठि- आपणिकप्रभृतयो मुण्डिता नगरजनाः पादाघातमन्वभवन् । कस्मैचिद् रासभाय वयं मुण्डिताः स्मेत्यसम्भववार्तां ज्ञात्वा सर्वेऽप्यति - लज्जितवन्तः । कथं घटितेयं हास्यप्रदाऽऽख्यायिका ? सदसद् - शिष्टाशिष्टस्याऽऽचारस्याऽज्ञानादेव घटिता । अतस्तु सर्वथा वर्जनीयमन्धधावनम् । संस्कृतेऽत एवोच्यते यद् 'परबुद्धिर्विनाशाय' । अस्माभिरियमुक्तिर्हृदयमन्दिरे सदैव प्रतिष्ठापनीया । प्रान्ते पुनरुच्यते सदाचारः खलु सेवनीयः । किन्तु तत्पूर्वं सारासारविवेकः करणीयः । अस्मात् कारणाद् यत् किञ्चिदपि कुर्मो वयं तत् सम्यग्ज्ञानपूर्वकमेव कार्यम् । वयं सारासारविवेकेनाऽऽचारज्ञानं प्राप्नुयाम । पश्चाच्च सदाचारे शिष्टाचारे च साम्ना प्रवर्तनीयम् । O ७५ Page #85 -------------------------------------------------------------------------- ________________ कथा मख्यमन्त्रिणे सिद्धज्जेन समर्पिता विज्ञप्तिः कन्नडमूलकथाकारः कृष्णमूर्तिः हनूरू संस्कृतानुवादकः एच्. वि. नागराजराव् विरोधिपक्षस्य नायकानां मूतभरो धनराशिर्व्ययितः सार्थकतया। निरीक्षितमात्रायां जना आगमिष्यन्ति वा न वेति संशयो नायकापेक्षया संघटकेषु, संघटकापेक्षया नायकेषु अधिक एवासीत् । एतादृशः संशय आसीदित्यने कार्यकारिणः समावेशाय जनाह्वानकाले धनं वितरन्तो ब्रुवन्ति स्म - "अधोवर्गान् साम्प्रतिकः सर्वकारो नैव गणयति । नदीजलवितरणे व अवदधाति । अणकबीजानि दत्त्वा कृषीवलान् गर्ने पातयति । गिरिशैलान् वित्तवद्भ्यो विक्रीय कोटिशो धनमात्मसात् करोति" इत्यादि । एवमुक्तेऽपि ग्रामस्था नैव शृण्वन्तीति इति ज्ञात्वा कार्यकारिणोऽवदन् - चलचित्रलोकस्य सुप्रसिद्धा नटा नट्यश्च समावेशेऽस्मिन् भागं वहन्ति, अस्माकं प्रयुद्धं समर्थयन्ते चेति । केन केनाऽपि कारणेन कर्णाटकराज्यस्य अष्टाभ्योऽपि दिग्भ्योऽधःस्तरस्य जनानां समूहः कब्बन्पार्क् इति ख्याते उद्यानेऽमिलत् । अस्मद्विरुद्धाः पुरस्ताद् दृश्यमाने विधानसौधे उपविष्टाः, इदानीं वयं सर्वे यदि कलकलं करिष्यामस्तहि ते विरोधिनोऽधिकारवृक्षात् पक्वपर्णानीव निपतिष्यन्तीति वाऽऽलोच्य जनाः कोलाहलमारभन्त । एवं शतशः सहस्रशो लक्षशो मिलितानां जनानां निनादस्य मध्ये संघटका वदन्ति Page #86 -------------------------------------------------------------------------- ________________ स्म 'अस्माकं पक्षस्य ध्येयोद्देशान् समर्थयितुं राज्यस्य दिग्भ्यो विदिग्भ्यश्च समागता अभिमानबन्धवः समाधानेन तिष्ठेयुः । अचिरादेवाऽस्माकं पक्षस्य गण्या नायकाश्चाऽऽगमिष्यन्ति । घटिकाकालेन समावेशकार्यमारप्स्यते । मध्याह्ने सर्वेषां कृते भोजनव्यवस्था कृता । तदनन्तरं जनपदकलाप्रदर्शनं भविष्यति । उत्तरकर्णाटकस्य स्तोकक्रीडा बृहत्क्रीडा राधानाटकं, कोडगुप्रदेशस्य उन्मत्ताटनं, शिवमोग्गस्य पणवमेला, चित्रदुर्गस्य भल्लूकखेला, चामराजनगरस्य गोरवनर्तनं, दक्षिणकन्नडमण्डलस्य भूतकोलः इति नानाकलाक्रीडा भविष्यन्ति । कलाविद आगत्य भवतां मध्य एव वर्तन्ते प्रतिपालनं कुर्वाणाः । जनपदकला न विधानसौधजनस्य, न च वित्तवताम् । अस्माकं पक्षस्य नायकैः प्रोत्साह्यमाना पोष्यमाणा च सा कला । अधःस्तरजनानां कला सा महनीयाः । अद्याऽस्माकं समावेशाय न केवलं पुरुषाः, अपि तु महिलाः, अभिमानिन्यो मातरश्च समागता इत्यस्माकं सन्तोषः शतगुणो जातः । अस्माकं बाहुबलं वर्धितम् । अस्मान् समर्थयितुमेतावन्तो जना आयाताः । अतो विधानसौधे दिनशतद्वयं येऽधिकारं गृहीत्वा स्थिताः, तेषां शून्यसाधनावान् सर्वकारः स्वीयं कायमानं च संगृह्य धाविष्यतीत्यत्र न संशयः । इदानीं महाजनता कस्यैचिदप्यहितघटनायै अवकाशमदत्त्वा समावेशं प्रचालयन्तु " इति । एवं विज्ञापनायां कृतायामपि कमपि स्पष्टमुद्देशं विना तत्र मिलितो जनसमूहो जयकारं धिक्कारं निनादं केकामट्टहासमुन्मत्तखेलां च करोति स्म । सर्वमेलने जाते तत्र शब्दसमुद्र इवोत्पन्नः । — अस्य कोलाहलस्य मध्ये गण्या अतिगण्याश्च आगताः, तन्मध्ये सर्वेषां पुरस्ताद् दृष्टो नीलकारः सिद्धज्जः । नायका गण्याश्च जनसमूहेन सुष्ठु द्रष्टव्या इति उद्देशेन लक्षरूप्यकव्ययेन बृहती वेदिका सज्जीकृता आसीत् । तां परितो नायकानां चित्रपटा विराजन्ते स्म यत्र ते हस्तोत्तम्भनं वाऽज्ञ्जलिं वा प्रदर्शयन्ति स्म । एतादृशीं वेदिकां निर्गतिकभिक्षुकवद् दृश्यमानो सिद्धज्ज आरोहदिति विस्मयस्य कारणमासीत् । तत्र तत्र ‘“तं तन्त्रीवाद्यवाहं वृद्धमवतारयत" इति रवोऽपि श्रुतः । सिद्धज्जस्य कारणादेव वेदिकायां गण्यानां जयकारास्तदा तदा जनै: कर्तव्या विस्मृतप्रायाः । वेदिकायामुपस्थितान् गण्यान्, सभारम्भे जातामस्तव्यस्ततां, जनसागरस्थमविरतं कोलाहलं चाऽजानन्निव सिद्धज्जस्तम्बूराख्यं तन्त्रीवाद्यं स्कन्धारोपितं कृत्वा तन्त्र्यामङ्गुल प्रैरयत् । स्वेन सम्प्रत्याऽऽरभ्यमाणं घनशरणपदं तत्रत्येभ्यो रोचतां वा मा वा, यदि न रोचते तन्ममैव तृप्तयेऽस्तु इत्यालोचयन्निव स नयने निमीलय "हर हर हर हर" इत्युच्चैरगदत् । सिद्धज्जस्य इयं भङ्गी सर्वेषामवधानं घटिकापर्यन्तम् आकर्षत् । निमीलितनयन: सिद्धज्जः स्वान्तरङ्गेऽवतीर्य पूर्वगिरे: मादेश्वरं, चिक्कल्लूरुसिद्धप्पाणिं, बोप्पगौडपुरस्य मण्टेस्वामिनं च स्मृत्वा "अङ्गस्योपरि लिङ्गरूपिणं मङ्गलमहिममहादेवं, स्मरामि तं महादेव ! मतिं देहि करुणया" इति गातुमारभता । - दीर्घकालाभ्यस्तं च ‘“विश्वासवतां गृहे पूरणरूपेण समुच्चलन् देव सिद्धय्यस्वामिन् ! आयाहि, मण्टेलिङ्गय्य ! त्वमायाहि" इति गीतं यथा न केवलं मनुष्या अपि तु देवाधिदेवा अपि शृणुयुस्तथा गातुमारभत । नीलकारसिद्धज्जस्य रागः सावधानतया प्रवहति स्म । तस्येष्टं पदं सर्वेषामपीष्टं भूत्वा धरायां ७७ - Page #87 -------------------------------------------------------------------------- ________________ महतः सिद्धप्पाजिस्वामिनः ध्वनिरेव सर्वत्र पूरितः । यथास्थिति तथा जनसमूहो निश्शब्दो जात इत्यत्र कारणान्तरमप्यासीत् । तावत्पर्यन्तं जनाः कस्मैचित् संग्रामाय वयमागता इति भावयन्ति स्म । सिद्धज्जेन श्रावितो नादस्तु पृथगेवाऽऽसीत् । "हर हर हर हर महादेव अङ्गस्योपरि लिङ्गरूपिन् सिद्धय्यस्वामिन् ! त्वमेवाऽऽयाहि। मतिं देहि" इत्यादीनि वाक्यानि तत्रैकमलौकिकं वातावरणमसृजन् । दैवकृतः प्रभावलयः प्रसरन् सर्वेषां मनसि क्रोधं शमयन्, केनाऽप्यज्ञातं कञ्चनाऽध्यात्मभावं स्त्रवति स्म । नीलकारः सिद्धज्जस्तमोराज्यत्वेन प्रसिद्धे शैलमादेश्वरस्याऽरण्यप्रदेशे जातः । तस्य ग्रामो वीथी गृहं मठो वा किं नाऽऽसीत् इति प्रश्नस्योत्तरं दुर्लभम् । निर्दिश्य तत् कथनं कष्टम् । द्वादशवर्षदेशीयस्य तस्य कण्ठो विकासमापत् । तत्र सुश्राव्यो रागो न्यवसत् । तदैव बोप्पगौडपुरस्य मठमागम्य "अहं नीलकारो भक्तो भविष्यामि " इत्युक्त्वा मठार्याद् दीक्षां स्व्यकरोत् । सम्पन्नगृहस्य ज्येष्ठा: हस्तमुद्यम्य यां भिक्षां ददति, तां संविभज्य खादामि, एको न खादामि । अनृतं न ब्रवीमि । कमप्येकेन वाक्येनाऽपि न निन्दामि इति प्रतिज्ञामकरोत् । ततो नीलकारो भूत्वा पूर्वदिशायाः सर्वेषां सतां भक्तोऽभवत् । गतेषु सप्ततिसमेषु वर्षेषु शरणपदानि गायन् भ्राम्यन् यत्र ग्रामे स्थितस्तमेव स्वीयं ग्रामं, यत्र शयितस्तत् स्थलमेव स्वीयं स्थलममन्यत । कस्मिन्नपि ग्रामे मरणं जननं सङ्कटस्थितिर्वा वृष्टिर्वाऽनावृष्टिर्वा यदाऽजायत, तदा सिद्धज्जेन जना: कथां श्राव्यन्ते स्म । मिलिताय जनसमूहाय सिद्धज्जेन श्राव्यमाणा कथेयम् उत्तरस्यां दिशि निवसतस्तिरुपतितिम्मप्पस्याऽनुजो नीलगिरिरङ्गय्यस्तमोमयं राज्यमागत्य सोलिगजनानां नायकस्य बोम्मेगौडस्य कनीयसीं पुत्रीं कुसुममालामनुसृत्य तामुवाह इति । एवमन्या कथा, यस्यां धनशरणमादय्येन कृतः श्रवणराजमानभङ्गः । अपरा च यस्यां धराधौरेयेण मण्टेस्वामिना उत्तरकल्याणादागच्छता लब्धा पुत्रप्राप्ति: यदा राचप्पाणिः, सिद्धप्पाणिः, दोड्डतायम्मा च तस्य शिशवोऽभवन् । अपरा कथा, यस्यां सिद्धप्पाणिः हलगूरुपाञ्चालान् प्रवादेन जित्वा तमोराज्यस्य कृषीवलेभ्यः कृषिकर्मण्यावश्यकमयः आनीतवान् । एतादृशाः प्रसङ्गाः सिद्धज्जस्य जिह्वाग्रे सदा स्थिताः । स रात्रिषु ज्योत्स्नाक्षीरसागरे महतां कथा विस्तार्य कथयन् पुर उपविष्टं जनसमूहं सन्तोषे, वाङ्मनसातीते भाने च उन्मज्जयति स्म । I कर्णाटकराज्यस्याऽधोवर्गीयाणामेव न, अपि तु पश्चात्स्थितानां समूहानां बेङ्गलूरुनगरस्य "कब्बन्पार्क" - उद्याने समागमः साधित आसीत् । अधिकारारूढं पक्षं विधानसौधं च कम्पयदिवाऽऽसीत् समावेशस्योद्घाटनम् । पञ्चशतवर्षेभ्यः पूर्वं पूर्वदिशायाः तमोराज्यस्य सर्वेषामधोवर्गाणामुद्धारस्योपक्रमकारयोः मण्टेस्वामि-मादेश्वरयोः स्मरणेनैव समावेशस्योद्घाटनं भवतु इति नायकानां कार्यकारिणां चोपाय आसीत् । एतदर्थं काननसीमायां कस्यचिद् ग्रामस्य देवालयस्य पुरस्तात् गायन्तं सिद्धज्जं कार्यानेनैवाssनीतवन्तः । क्रोशदूरमपि पद्भ्यामेव गच्छन् सिद्धज्जः कार्यानारोहणे व्याकुलोऽभवत् । तस्य महतो यानस्य विशाले आसने उपविष्टः सिद्धज्ज: "जीवन्नेवाऽहं शवशिबिकायां शायितः किम्" इति त्रस्तः । कार्यकर्तृन् उद्दिश्य सः "बालकाः, कस्मान्मां क्वाऽपि क्वाऽपि नयथ ? अयं मम ग्रामः अत्र मम वीथी । , ७८ Page #88 -------------------------------------------------------------------------- ________________ अत्रैवाऽहं पदानि गायन् दिनानि नेष्यामि । मां मुञ्चत'' इत्यवदत् । ___ कार्यकर्तारोऽब्रुवन् “अज्ज ! त्वदीयं गानं यदि पूर्वसीमाया आरण्यकाः शृण्वन्ति तदेतन्नाऽलम् । किमेतत् पत्तनवासिभिर्विद्यावद्भिर्बुद्धिमद्भिर्न श्रोतव्यम् ? त्वद्गानं श्रोतव्यमिति बहवो महान्तः प्रतिपालयन्ति । तवाऽञ्जलिपूर्णं धनं कृष्णमणींश्च दास्यन्ति । तदुपरि राङ्कवेणाऽऽच्छादयिष्यन्ति प्रमाणपत्रं च दत्त्वा गौरवं सूचयिष्यन्ति' इति । सिद्धज्जस्य शिरः सदा त्रिहस्तदीर्घ चन्द्रकषायवर्णं वस्त्रं वेष्टयति स्म । कटेरधः वसनखण्डः । सामान्यतः सर्वैर्नीलकारैध्रियमाणं कोट् इति कथ्यमानं कवचं सिद्धज्जोऽपि धारयति स्म । स्ववस्त्रवेष एवाऽलंकारप्रायमिति, स्वेन गीतं सतां पदमेव परमपवित्रमिति च स भावयति स्म । निरन्तरं स ग्रामाद् ग्राममटति स्म । यत्रैव न्यवसत् तत्र नैवेद्यं लभते स्म । तदुपरि दानरूपेण दीयमानैः कृष्णधान्यनीवारादिभिः सिद्धज्जस्य स्कन्धे लम्बितो मूतः पूर्यते स्म । एवं सदा पूर्ण समुच्चलन्तं मूतं दर्श दर्श सिद्धज्जो भूलोके 'अहमेन महान् श्रीमान्' इति ज्ञातवान् । येषु सतां पदेषु तस्य विश्वास आसीत् तानि पत्तनवासिनो यदि श्रोष्यन्ति, तदपि समीचीनम्, तदपि पुण्यं कर्म – इति ज्ञात्वा अल्पीयसि क्लेशे जातेऽपि काऱ्याने उपविश्य स बेङ्गलूरुपर्यन्तं प्रयाणमकरोत् । विरोधिपक्षाणां सङ्घटनसमावेशस्य पूर्वस्मिन् दिन एव पत्रिकाद्वारा, आरक्षकगुप्तदलस्य द्वारा चाऽधिकारारूढपक्षस्य मुख्यमन्त्रिणं गृहमन्त्रिणं च तद्वार्ता प्राप्ता । अस्य प्रतितन्त्रं किं कर्तव्यमिति गृहमन्त्रिणि चिन्तयति सति सूर्योदयात् प्रागेव तत्राऽऽगतः संस्कृतिशाखामन्त्री वार्तां वहन् । युवजनसेवायाः संस्कृतेश्च विभागस्याऽत्युत्साही युवको मन्त्री । स च गृहमन्त्री च समानप्रदेशाद् आगतौ, अतो गुरुशिष्याविवाऽऽस्ताम् । संस्कृतिमन्त्री गृहमन्त्रिणः पुरस्तादासीनो वदति स्म "तं समावेशं छिन्न भिन्न धूलिसात् कर्तुं शक्तो बाणो मम निषङ्गे सिद्धोऽस्ति । भवद्विभागस्याऽऽरक्षकेभ्यो भवताऽऽज्ञा तु दातव्या" इति । "आरक्षका आज्ञां प्रतिपालयन्तः स्थिताः । भवता करिष्यमाणं तन्त्रं तु वदतु'' इति गृहमन्त्री अपृच्छत् । “मम सर्पास्त्रस्य विचार इदानीं माऽस्तु । समावेशस्य चतसृषु दिक्षु कोलाहलं जनयिष्यामि । तदा आरक्षकैर्यष्टिप्रहारो विधेयः । समागता जना भूमौ निपतेयुः । यदि त्रिचतुरा म्रियेरन्, स कलङ्को समावेशसङ्घटकानां मुखे लगेत् ।" एवं ब्रुवाणः संस्कृतिमन्त्री गुरुसमानस्य गृहमन्त्रिणः समक्षमेव श्मश्रूण्यस्पृशत् । एवं श्मश्रुस्पर्शनवेलायाम् "अहमेवाऽधिकारारूढे पक्षे बलसंवर्धनकारः, यवीयान् सन्नप्यहं मम बाह्वोर्बलेन पक्षमुत्थापितवान्" इति भावना तस्य मुखे निश्चलाऽवर्तत । "भवतु तावत् । समावेशः कथं वोज्जासनीय इति भवान् विचारयतु । अस्मदीया आरक्षकाः जनसमूहं खले व्रीहिमिव प्रताडयितुं सिद्धाः स्थास्यन्ति कस्यामपि घटिकायाम्" इति गृहमन्त्रिणा प्रोक्तम् । "तावद् भवता क्रियताम्, अवशिष्टमहं करिष्यामि । तन्मह्यं मुञ्चतु" इत्युक्त्वा युवमन्त्री आसनादुत्थितः । गृहमन्त्री गृहबहिभरपर्यन्तमागत्य युवानं मित्रमापृच्छय यदा प्रेषयत् तदा हर्म्य परितोऽन्धकारो न निवृत्त आसीत् । ७९ Page #89 -------------------------------------------------------------------------- ________________ सिद्धप्पाजिगीतस्य नवदशाश्चरणा न समाप्ताः । तम्बूरवाद्यनादेन हस्ताङ्गलितालेन मधुरं गायति स्म। पूर्वसीमायाः सद्भिः साकं भाषमाण इव तस्मिन् गायति सति, तत्र क्वाऽपि जनसमूहस्य मध्ये त्रिचतुरेषु स्थलेषु युगपदेव हाहाकारः समजनि । युवजनसंस्कृतिशाखाया मन्त्रिण आप्ताश्चत्वारः कार्यकारिणः मेजेस्टिक्प्रदेशे स्थितस्य त्रिवेणीचित्रमन्दिरस्य समीपे अण्णम्मादेवालयं निकषा कृतवसतेराहितुण्डिकस्य डोम्बस्य सकाशात् पञ्चषान् सर्पान् सहस्ररूप्यकमौल्येन क्रीत्वा तान् स्कन्धलम्बितस्यूतेषु निगृह्य कार्योचितेषु स्थलेषु स्थिताः । समावेशायाऽऽगतानां सर्वेषां स्कन्धेषु स्यूतका लम्बन्ते स्मेति सत्यम् । कस्य स्यूतकात् सर्पा निष्पतिता इति केनाऽपि न ज्ञातम् । स्यूतकेभ्यो निष्पतिता व्यामदीर्घाः सर्पाः सभीति जनानां मध्ये असर्पन् । वेदिकायां नायकाः सिद्धज्जगीतं शृण्वन्तः शिरांस्यान्दोलयन्तः, परस्ताद् वीरावेशेनाऽधिकारयन्त्रं विरुध्य भाषणं कर्तव्यमित्येतदपि स्वल्पकालं व्यस्मरन् । जना अपि सिद्धज्जस्य कण्ठध्वनिना मन्त्रमुग्धा इवाऽऽसन् । तदा सर्पः सर्पः इति सभयो निनाद उत्थितः । तत्रत्यः सर्प एवाऽत्राऽपि आगतः किम् ? इत्यन्यस्यामपि दिशि जनाः सम्भ्रान्ताः । दृष्टवतामदृष्टवतां च सर्वेषां मनस्सु सर्प एव नरीनृप्यते स्म। जना अन्योन्यमुत्सारयन्ति स्म । सर्पमानीतवद्भिः सहाऽऽगता अधिकारारूढपक्षस्य कार्यकर्तारः स्कन्धलम्बितभस्त्रास्तत्र स्थितान् सकलान् प्रहर्तुमारभन्त । वर्षीयांसो भूमौ पतिताः पदाहता हा हतोऽस्मि इत्याक्रन्दन्तो दृष्टमृत्युमुखा इव शब्दायन्ते स्म । समस्तं जनसागरं सिकतातटवदावृण्वन्ति स्माऽऽरक्षकाः । ते हस्ताभ्यां दृढं दण्डान् गृहीत्वाऽस्यन्तो जनान् ताडयितुमुद्यताः । ताडनस्य पादरक्षामर्दनस्य रणकोलाहलस्य च विषयीभूता जना मार्गभ्रष्टाः काननप्रविष्टा इव जाताः । भूमौ स्थितान् सर्पो दशेदिति भीताः केचन युवानो वेदिकामारोहन् । तन्मध्ये वेदिकां भग्नां कर्तुमिच्छन्तोऽधिकारारूढपक्षस्य कार्यकर्तारोऽप्यासन् । कञ्चन कार्यकर्ता सोद्देशमेव सिद्धज्जं प्राणुदत् । सिद्धज्जो वेदिकाया अधः पतितः । तं नुन्नवान् संस्कृतिमन्त्रिणः कुम्भदासः । समग्रस्य कार्यक्रमस्य कण्टकपुरुषोऽहमेवेत्युक्त्वा सायं मद्यार्थं भूरि पूर्णपात्रं लब्धव्यमिति सोऽचिन्तयत् । इतः समावेशस्य सङ्घटकः कश्चित् सिद्धज्जं वहन्नधावत् । धावनवेलायां सिद्धज्जस्य तम्बूरं (तानपूरं वा) गग्गरं मुखवीणा चेति सर्वं क्वाऽपि क्वाऽपि पतितं जनपादाहतं चूर्णीभूतम् । अहं क्वाऽपि उन्मत्तप्रवाहे पतितः, मम देहः शिलाभिर्घट्यते इति सिद्धज्जस्याऽभात् । निर्जनारण्यमार्गे पक्षिणां कलरवस्य मध्ये वा, स्तोकस्य जनवृन्दस्य पुरो वा सिद्धज्जो गायति स्म । एतादृशं दृश्यं तु स प्रथमवारं वीक्षते स्म । अन्तिमतयेदं पश्यामि, शीघ्रं म्रिये इति तस्य भाति स्म । पूर्वशैलस्य महादेव ! राक्षसलोक एष एव नु ? इति सोऽचिन्तयत् । सङ्घटकः सिद्धज्जं स्कन्धे वहन् न्यायालयभवनस्य पुरस्ताद् बृहतो वृक्षस्याऽधस्तात् तृणशय्यायां निपात्य पुनरुद्यानं प्रत्यधावत् । वञ्चका गणिकापुत्राः करेण ग्राह्याः इत्यत्यावेशेन दन्तान् घट्टयन् सकांस्यवलयस्य हस्तस्य मुष्टिं दृढीकुर्वन् अधावत् । धावतस्तस्य सन्देहस्य विषयीभूतः कोऽपि गृह्येत चेत् तं शवं कर्तुं पर्याप्तं क्रौर्यं तस्य मुखे सान्द्रीभूतम् । धनाशया भोजनाशया बेङ्गलूरुनगरदर्शनाशया चलचित्रनटवीक्षणाशया चाऽऽगताः सहस्रशो जनाः प्रनष्टदिशोऽभवन् । स्त्रियस्तु अतीव भयविह्वलाः हस्तैर्वदनानि घट्टयन्तः दिङ्मूढा आसन् । स्वीयाः पतयः शिशवश्च क्व नष्टा इति, क्व ढौकितव्यं, कथमात्मा रक्षणीय इत्यविदन्त्यः स्थिताः । ८० Page #90 -------------------------------------------------------------------------- ________________ मध्याह्नस्य मनोरञ्जनायै प्रातरेव नानाविधान् वर्णान् लिप्त्वा कण्ठे मणिसरान् कृतकहारान्, हस्ते कृत्रिमपुष्पपताकाः गदां खड्गं धनुः - इति धारयित्वा समावेशे समुपविष्टा राधानाटक-बृहत्क्रीडास्तोकक्रीडा-कलाविद उद्यानं परितो मार्गेषु भीतभीता अधावन् । पणवानां भल्लूकनर्तनवाद्यानां चर्म छिन्नमभवत् । वाद्यानि रिक्तपात्राणीव वर्तनामारभन्त । छिन्नानि वाद्यानि चाऽऽरक्षकप्रहारभयेन ग्रहीतुमशक्ताः कलाविदः कान्दिशीका अभवन् । तस्मिन् समये विधानसौधस्य पार्श्वमार्गेषु स्वीयान् कार्यालयान् स्वीयां संस्थां वा गच्छन्तः, कर्णे चलदूरवाणी कराङ्गलीषु धूमवति च धारयन्तः, वामेन करेण भ्रमणचक्रं गृहीत्वा काऱ्यानानि चालयन्तो नागरिकाः मार्गस्य पार्श्वयोर्धावन्तः के इत्यजानन्तः "हे परमात्मन् ! कति भिक्षुका अत्र नानावेषा समुपस्थिताः, भयङ्करोऽयं सन्निवेशः" इति गर्हमाणाः पुरस्ताद्वृत्ते रक्तसूचनामपि अगणयित्वा, आरक्षकाणां श्वसितध्वानेनाऽप्यविरमन्तो लब्धमात्रे मार्गे यानानि प्रावेशयन् । क्षणार्धे विधानसौधं परितः सर्वे मार्गाः प्रमत्ता इव भान्ति स्म । 'कब्बन्पार्क'उद्याने विरोधिपक्षैः सङ्घटिते समावेशे प्रक्षोभस्य तरङ्गः, सर्पाद् भीतिः, उन्मत्तजनस्तोमे यष्टिप्रहारः, समावेशः सम्पूर्णतया विफलः इत्यादिशीर्षिकावत्यो वार्ताः प्रातःपत्रिकासु देशे सर्वत्र प्रसारिताः । वार्तायाः समीप एव चित्रमेकमपि प्रकटितमासीत् । तत् पादपस्याऽधस्तादनाथवत् पतितस्य सिद्धज्जस्य । "समावेशस्याऽऽरम्भे सहस्रशो मिलितानां जनानां समूहस्य कोलाहलं मधुरेण रागेण शमयित्वा सर्वान् मन्त्रमुग्धान् कृतवतो जनपद-गायकस्य करुणाजनिका स्थितिः" इति वाक्यं च चित्रस्योपरि प्रकटितम्। एतां वार्ता दृष्ट्वा उत्तरक्षण एव संस्कृतिमन्त्री गृहमन्त्रिणे मुख्यमन्त्रिणे चाऽऽप्यायनमयीं सूचनाम् अदात् । "स्वामिन् ! अधुनैव छायाचित्रग्राहकान् पत्रकारांश्चाऽऽह्वयतु भवान् । अन्ये मन्त्रिणश्चाऽऽगच्छन्तु । न्यायालयस्य पुरः पतितस्य वृद्धस्य समीपं गमिष्यामः । प्रथमं मुख्यमन्त्री तस्मै परिहारधनं ग्रामे निवेशनं गृहं च दास्यामीति घोषयतु । अहं संस्कृतिविभागात् तस्य मासाशनं घोषयिष्यामि" इत्यवदच्च । प्रातर्नववादनवेलायामेव मुख्यमन्त्री सहोद्योगिभिरधिकारिभिः सुरक्षारक्षकैश्च साकं, मुख्यतया गृहमन्त्रिणा संस्कृतिमन्त्रिणा च सह विधानसौधं विहाय न्यायालयस्य पुरस्ताद् वृक्षस्याऽधस्तात् पतितस्य नीलकारसिद्धज्जस्य सकाशे आगतः पादयात्रया । आगमनवेलायां पत्रकारेभ्यः स्वप्रशासनस्य प्रगति विवृणोति स्म । विरोधिपक्षस्य समावेशो धूलीभूत इति स प्रसन्नश्चाऽऽसीत् । पत्रकारेभ्यो मुख्यमन्त्रिणा वितीर्णानि वाक्यमुक्ताफलानीमानि । “ग्रामीणेभ्यो भोजन-चलचित्रादिविषयामाशामुत्पाद्य तेषामानयनेन समावेशो न सम्पद्यते । अयं संशासनदुर्बलीकरणाय कृतो भेदोपायः । सर्वकारः सुभद्रोऽस्ति । अयं स्वावधि पूरयिष्यति । अस्मदीयं वैमनस्यं गृहस्याऽन्तः सोदराणां कलहः । विरोधिपक्षेणाऽऽयोजितस्य समावेशस्य फलश्रुतिं पश्यत...." एवं वदति मुख्यमन्त्रिणि ते सर्वे न्यायालयस्य पुरस्ताद् वृक्षस्य समीपमागताः । मुख्यमन्त्री पत्रकारेभ्यो जनपदगायकस्य स्थितिमङ्गल्या प्रादर्शयत् । छायाचित्रग्राहका यावत् सिद्धज्जस्य दयनीयां स्थिति चित्रे ग्रहीतुं प्रायतन्त, तावदेव संस्कृतिमन्त्री धावित्वाऽऽगत्य वृद्धायाऽवलम्बनं दत्त्वा तमुत्थापयति स्म। अन्ये मन्त्रिणोऽधिकारिणश्च साह्यं कुर्वाणा इव हस्तप्रसारणपरा अभवन् । संस्कृतिमन्त्रिणः Page #91 -------------------------------------------------------------------------- ________________ प्रीतिभाजनीभूतः कश्चन पत्रकारः स्वपुस्तिकायां "कुटीकलावित्समीपे आगतः संस्कृतिविभागः'' इति शीर्षिकामलिखत् । ___मुख्यमन्त्री सहोद्योगिनोऽधिकारिणः पत्रकारांश्च वीक्षमाणः "कुतोऽप्यागताय अत्राऽनाथवत्पतितायाऽस्मै निर्धनकलाकारायाऽस्माकं सर्वकारः परिहारधनं वितरति । अस्य स्वग्रामे निवेशनं गृहं चाऽस्मै प्रदातुमिदानीमेव स्थलीयानधिकारिण आदिशानि । किन्तु समावेशव्याजेनैतादृशान् निर्धनकलाकारान् विरोधिपक्षा नोपयुञ्जीरन् । तद्वारा स्वार्थसाधनस्य मूर्खतां ते परित्यजेयुः । इयं दुरदृष्टसङ्गतिः । एतादृशं कुकृत्यमस्मदीयं प्रशासनं न सहते । कर्नाटकराज्यजनता च न क्षाम्यति । अपि तु खण्डयति'' इत्यब्रवीत् । गृहमन्त्री युवजनसंस्कृतिमन्त्री अन्ये च सम्मति सूचयितुं शिरांस्यान्दोलयन्ति स्म । निर्धनकलाकाराय सिद्धज्जाय दीयमानं परिहारधनं चाऽऽश्वासनं सचित्रं ग्रहीतुमुत्सुकाश्छायाग्राहकाः सन्नद्धा अतिष्ठन् । कतिपयक्षणानन्तरं मुख्यमन्त्री अवधानं दत्त्वा सिद्धज्जमपृच्छत् "अज्ज ! तव को ग्रामः ?" इति । "को ग्राम इति कथं वच्मि तात ! ? पूर्वसीमायाः शैलमादेश्वरस्य स्थलं मम । ह्योऽत्र जनभरितेऽस्मिन् कानने आगत्य निपतितोऽस्मि । आत्मज इवाऽऽगत्य त्वं मम कष्टं विचारयसि तात ! । कस्त्वं भोः !" इति सिद्धज्जोऽपृच्छत् । अपूर्वामिमां वचनधोरणीमाकर्ण्य तत्र स्थिताः सर्वे स्वीयानि वचनानि विरमय्य मूका अभवन् । मुख्यमन्त्रिणो मुखात्स्वल्पकालं न काऽपि वाक् निःसृता । सिद्धज्जः पुनस्तमपृच्छत् "अपि भोः ! तव कति पुत्राः ? ते पुत्राश्च तव भार्या च कुशलिनः खलु ?" । सतां पदानां गानं, ग्रामाद् ग्राम प्रति गमनं, पुरो दृष्टानां योगक्षेमविचारणं च विना, नाऽन्यत् किमपि जानाति स्म सिद्धज्जः । स तदेव मुख्यमन्त्रिणमपि अपृच्छत् । हृदयान्तरालादुत्थिते तद्वचसि काऽपि श्लथता वा कृत्रिमता वा, कोऽपि सङ्कोचो वा नाऽऽसीत् । तथाऽपि जातस्याऽपघटनस्य वेदनया सिद्धज्जस्य ध्वनिः किञ्चित् कम्पते स्म । केनाऽपि कदाऽप्यकृतः कुशलप्रश्नस्तेन वृद्धेन कृत इति मुख्यमन्त्रिणोऽन्तःकरणमा भवति स्म । एतादृशाय ज्येष्ठाय जनपदकलाकाराय पूर्णहस्तेन धनसाहाय्यं दातव्यं, तदेव सम्यगिति मुख्यमन्त्री "अज्ज, किं वाञ्छसि ? यदिच्छसि तद् दापयिष्यामि'' इति साश्वासनानि वचनान्यब्रवीत् । सिद्धज्जो मुख्यमन्त्रिणं केवलेन कुतूहलेनैक्षत । परितः स्थिता अधिकारिणः, मार्गनिर्माणव्यवसायिनः, गिरिशैलखनिस्वामिनः, मुख्यमन्त्रिसुरक्षायै समागता आरक्षकाधिकारिण इति सर्वे नानाप्रकाराणि वसनानि धृत्वा शोभन्ते स्म । हस्तयोः कटकौ, कण्ठे लम्बमानाः स्वर्णमालाः, हस्ताङ्गुलीषु वज्राङ्गलीयकानि, नेत्ररक्षकं कालकाचमुपनेत्रमिति तेषां वेषः । अपि च समयानुसारेणोपयोगाय पुष्पगुच्छं कुसुमहारं, धनभस्त्रिकां छुरिकां शस्त्रं च स्ववस्त्रान्तरेव निगृहितवन्त इव स्थिताः सिद्धज्जमेव निर्वचनं पश्यन्ति स्म । परस्तान्मन्त्रिमण्डलस्य पुनारचनायां यदि स्वस्मै सूक्तं स्थानं न कल्पयिष्यते, तर्हि मुख्यमन्त्रिणमेव ८२ Page #92 -------------------------------------------------------------------------- ________________ स्थानादवतारयितुं कुतन्त्रं कुर्वाणाः, विरोधिपक्षीयेभ्योऽपि नितान्तं विरोधिनः शासका मुख्यमन्त्रिणो वामपार्वे आप्ता इव तिष्ठन्ति स्म । तदानी नभस्यल्पीयांसो मेघा घनीभूताः । द्वित्रा जलबिन्दवो नभसः पतिताः । कश्चित्तावता छत्रं विस्तार्य धृतवान् मुख्यमन्त्रिण उपरि । तथा छत्रं धृतवान् किल प्रभूतव्यवहारवान् कोट्यधिपतिर्मार्गनिर्माणव्यवसायीति ख्यातः । मन्दं वान् वायुः सिद्धज्जशिरस उपरि स्थितं वृक्षं कम्पयति स्म । पुनर्मुख्यमन्त्री "कः परिहारस्त्वयाऽपेक्षित इति ब्रूहि" इति वदन् पत्रकाराणां दिशि अवधानं प्रेषयत् । सिद्धज्जः स्वजिह्वाग्रस्थितानि वचनानि उदचारयत् "तात ! त्वत्तोऽहं किमपेक्षे? त्वं न दाता । सर्वं ददाति पूर्वसीमाया शैलमादेश्वरः । धरावरिष्ठो मण्टेस्वामी वा । यः परमात्मा सर्वेषामुपरि, तेन दातव्यम् । तदाऽस्माकं खलु उदरं पूरितं भवति । यदुदरं मुष्टिभरेणाऽन्नेन पूर्यते, तेन किमपेक्ष्यते ? यदि त्वं दातुमिच्छसि तहि सदा मदुरसि लग्नानि तम्बूर-गग्गर-मुखवीणावाद्यानि गवेषयित्वा देहि तात !" इति । आकाशस्य मेघः, ततः पतन् वारिबिन्दुः, वान् वायुः, पुरःस्थितो वृक्षः, तत्पाबें स्थितानां वृक्षकाणां पल्लवाः, पुष्पं, शलाटुः, प्रकृते ाग इव स्थितः सिद्धज्जः, तत्कण्ठस्य रागः, रागावलम्बनीभूतं तम्बूरगग्गरादिकं तत्सर्वमपि स्वेन रूपयितुमशक्यमिति मुख्यमन्त्रिणो मनसि शनैर्भातम् । तस्याऽन्तरङ्गं पूर्यते स्म । प्रतिदिनं तस्य आप्ता इति कथ्यमानानाम्, अधिकारिसमूहस्य, मन्त्रिवर्याणां च प्रयाचना, गुणोत्तम्भनं, लब्धस्य धनराशेनिगूहनस्य क्लेशः, तत उत्पन्ना समस्या, तन्निवारणायै प्रयोक्ष्यमाणं प्रतितन्त्रं, मध्ये समुत्पद्यमानं वैमनस्यमित्येतेन मुख्यमन्त्रिणो नयनाभ्यां रक्तमेव स्रवति स्मेति सत्यम् । सिद्धज्जवदहमपि एकाकी ग्रामाद् ग्रामं चलितुं यदि शक्नुयां, यदि च चन्द्रिकायां काननानां मध्ये संचरितुं शक्नुयां, कुट्याः पुरःशालायां निद्रां कुर्वते मह्यं यदि केपि केऽपि अन्नं ददीरन्, सिद्धज्जवद् गानेन जनानां मनांसि स्पृष्ट्वा तेषां प्रीतेः पात्रं भवेयं चेद् इतीच्छा मुख्यमन्त्रिणो मनसि तीव्रतयोदपद्यत । तस्याः स्मृतिरेव घटिकापर्यन्तमाह्लादमजनयत् । सिद्धज्जस्य विषये तस्य मनसि जाताऽऽर्द्रता तस्य नयनयोरपि दृष्टा । सिद्धज्जेन कृतां विज्ञप्ति सफलयितुं न शक्यमित्यपि मुख्यमन्त्रिणो भाति स्म । पूर्वेद्युः प्रातर्लक्षजनानां कोलाहलं नियन्त्रितं कृत्वा प्रवादमेव (अथवा मायामेव) सृष्टवान् सिद्धज्जः सम्प्रति च तादृशमेव दिव्यमौनं मूर्तं कृत्वा सर्वेषां पुरस्तात् मनुष्यवत्, रिक्तपादः सन्निव, ध्यानमग्न इवाऽतिष्ठत् । 90, 9th Cross Naviluraste, Kuvempunagar, MYSORE 570023 Page #93 -------------------------------------------------------------------------- ________________ विनोदकथा चित्रम् मुनिकल्याणकीर्तिविजयः नन्विदानीं तु स युग एव व्यतीतः । अधुनां तु गालिब-महोदयस्य शब्दानेव स्मरामः केवलं - "दिल ढूंढता है फिर वही फुर्सत के रात-दिन !!" कदाचित् कस्यचिज्जन्ययात्रायां कुत्रचिद् ग्रामे गताः स्याम । तत्र च रात्रौ कस्यचिद् विशालस्य निम्बतरोरधस्तात् खट्वोपरि मसृणमसृणा तूलशय्या क्षीरधवलास्तरणेनाऽऽस्तीर्णा स्यात् । तदुपरि च जन्ययात्रायां समागता विशिष्टप्राघूर्णका यथा - चिकित्सको, न्यायवादी, प्राध्यापको, निवृत्तसैनिक - इत्यादयो विविधान् वार्तालापान् कुर्वाणाः स्युः । यथा यथा च रात्रिर्व्यतीता स्यात् तथा तथा वार्तारसोऽपि वृद्धिङ्गत एव भवेत् । तदात्वे च श्रुता वार्ताः प्रसङ्गाश्च न कदाऽपि विस्मृता भवेयुः । तस्यां रात्रावपि विविधैर्जनैर्विविधाः प्रसङ्गा अनुभवाश्च वर्णिताः । वार्तानां मुख्यविषय आसीत् - आपत्तितः स्वरक्षणम् । कश्चन समुद्रतटे सञ्जाताया आपत्तेर्व्यतिकरं कथितवान्, अपरश्चाऽभयारण्ये विहर्तु गतः सन् व्याघ्राक्रमणात् कथं रक्षित इति वणितवान् । केनचित् स्वगृहे लग्नादग्नेः कथं रक्षिताः सर्वे इति निरूपितं, केनचिच्च द्वितीयविश्वयुद्धकाले प्रशान्तमहासागरे प्रवसतां तेषां नौका जर्मनदेशीयसबमरीनाक्रमणात् कथं रक्षिता इत्यस्य रोमोद्गमकं वर्णनं कृतम् । 'एतत् सर्वं तु स्यान्नाम, किन्त्वेकदाऽहं मुम्बईमहानगरे ताजमहालउपाहारगृहे यामापत्तिं सम्मुखीकृतवान् तदग्रतो भवतामापत्तीनां न काऽपि गणना' - इति कश्चन सुरूपः सज्जनः स्मयन्नुक्तवान् । विलक्षणं तत्स्वरमाधुर्यं गाम्भीर्यं च श्रुत्वाऽन्ये इवाऽहमपि तद्वृत्तं श्रोतुमुत्कर्णोऽभवम् । 'ताजमहालः !?' कश्चनाऽऽश्चर्योद्गारं प्रकटितवान् । 'आम् । मुम्बईनगरे एपोलो-नौकाशयस्य पुरतो विद्यमानमस्ति तत् । ममैकः सुहृद् आङ्ग्लदेशात् समागतः सन् तत्रस्थे पथिकगृहे न्युषितवान् । तस्य चित्रसङ्ग्रहणेऽत्यधिकाऽभिरुचिरासीत् । मयाऽपि च चित्रशालायां पठित्वा श्रेष्ठता प्राप्ताऽऽसीत् । ततस्तस्य पितामहस्य पूर्णचित्रमालेख्य मया लण्डननगरस्थे तस्य गृहे प्रेषितमासीत् । एतेन सोऽतीव प्रसन्नतां प्राप्य मां पत्रेण कथितवानासीद् यद् – 'यदाऽहं भारतं प्रत्यागच्छेयं तदा भवते ताजमहाल-उपहारगृहे *सन्धि दास्यामि' ।' * Party. ८४ Page #94 -------------------------------------------------------------------------- ________________ 'ततश्च यदा स प्रत्यागतस्तदा स तत्रैव न्युषित्वा स्ववचनपालनार्थं मामप्याहूतवान् । अतोऽहमपि मे पितृव्यस्य सूट-परिधानं परिधाय निर्यासेन (Scent) च सुवासितो भूत्वा तत्र प्राप्तवान्' । 'अथ च ताजमहाले एकत्र क्रिस्टलाख्ये प्रकोष्ठे यूरोपीयचित्रकाराणां श्रेष्ठचित्राणि सघोषणं (auction) विक्रीयन्ते स्म । अस्मादृशास्तु तत्क्रयणस्य विचारमपि कर्तुं न शक्नुयुर्यत एकैकं चित्रं सहस्रशो रूप्यकैविक्रीयते स्म । राज्ञो रविवर्मण एकं चित्रं पञ्चसहस्रेण विक्रीतं, केवलमेकमेव चित्रं ननु ! अन्यान्यपि कानिचन चित्राणि त्रिसहस्रेण चतुःसहस्रेण वा विक्रीतानि । सहस्रद्वयान्न्यूनं त्वेकमपि चित्रं नाऽऽसीत् । चित्राणां विषया अपि वैविध्यपूर्णा आसन् । कुत्रचित् सायङ्कालदृश्यं, कुत्रचित् सूर्योदयदृश्यं, क्वचित्तु वनगहनानि चित्रितानि, क्वचिच्च चित्रे हरिणयूथमासीत्' । 'अथ चाऽहमपि लघुचित्रकारस्त्वासमेवाऽत एतादृशानि सौन्दर्योपेतानि चित्राणि निरीक्ष्योत्तेजितो भूत्वा च घोषणेनाऽहमपि क्रयिकाणां मध्ये सम्मिलितो भूत्वा विक्रयघोषणायां धनघोषणेन भागं गृहीतवान् । (केवलं घोषणमेवाऽऽसीन्मे ध्येयं यतो मम कोषे केवलं पञ्चषष्टिर्धनागारे (Bank) च पञ्चत्रिंशं शतं रूप्यकाणामासीत् । यदि वंश-परम्परागतं गृहमपि विक्रीणीयांस्तदा पञ्चसहस्राणि प्राप्येरन् । किन्तु तत्र च धने ममेवाऽन्येषामपि दायादानामधिकार आसीत् ।)' मम मित्रेण मे कर्णे जपितमपि – 'यदेवं घोषणं कर्तुं लग्नोऽसि तन्मन्ये लक्षाधिपो जातोऽसि वा? सावधानो भवाऽन्यथाऽऽजीवनं कैङ्कर्येणाऽपि तव मोक्षो न भविता !' मयोक्तं - 'नैव रे ! अहं तु केवलं मनोविनोदार्थमेव भागं गृह्णामि । मम मर्यादां च नैवाऽतिक्रमिष्ये' । 'एवमेव च बहूनि चित्राणि विक्रीतानि । तावतैकं नूतनं चित्रं विक्रयणार्थं फलके स्थापितम् । तस्मिन् कश्चन रक्तवर्णमुखो मनुष्यश्चित्रित आसीत् । प्रदर्शितमात्र एव तत्र केनचित् स्वर्णाभोपनेत्रधारकेन सज्जनेनोच्चघुष्टम् – 'एकसहस्रं रूप्यकाणि' ।' _ 'एतन्निशम्यैव सर्वे स्तब्धा जाताः । यत इतः पूर्वं तु यानि चित्राणि प्रदर्शितानि तेषां प्रारम्भः शतेन शतद्वयेन वा जात आसीत् । ततः शनैः शनैस्तानि सहस्राणां द्विकं त्रिकं पञ्चकं वा प्राप्तान्यासन् । (तावन्मूल्यवृद्धौ तु ममाऽपि सिंहभाग आसीत्, मध्ये मध्ये किञ्चिद्घोषणेन ! ।) किन्तु चित्रेऽस्मिस्तु प्रदशितमात्र एव यत्तेन सज्जनेन सहस्रमुख़ुष्टं तेन समग्रेऽपि प्रकोष्ठे निःशब्दता प्रसृता । पञ्चषान् क्षणान् यावन्न केनाऽपि किमप्युक्तम् । तावता यद्यपि ममाऽन्तरिच्छा नाऽऽसीत् तथाऽपि मम मुखान्निःसृतं सहसा - 'सार्धं द्विसहस्रम् !!' इति । इदानीं तु स्मशानेऽपि यादृशी न स्यात् तादृशी शून्यता वातावरणे प्रसृतेव' । 'अथ ममाऽपि भानं जातं यन्मया कीदृशी मूर्खताऽऽचरिताऽस्तीति । मम हृदयं वेगेन स्पन्दितुं प्रारभत । मम दृष्टिस्तस्मिन् सोपनेत्रे ततश्चोद्घोषके भ्राम्यति स्म । तदोद्घोषकेणाऽपि प्रथमं मयि ततश्च सोपनेत्रे ‘स किञ्चिद् वर्धयेत्' इत्याशया दृष्टिर्निपातिता । किन्तु सोपनेत्रस्य तु मन्ये जिद्वैव कीलिता जातेव ** तदात्वे तु पञ्चसहस्रमपि हि दुरासदमासीत् । ८५ Page #95 -------------------------------------------------------------------------- ________________ स सर्वथा तूष्णीमभवत् । ततश्चोद्घोषको घटीं दृष्ट्वा सहसैवोक्तवान् – 'सार्धं द्विसहस्रमेकवारं द्विवारं ! त्रिवारम् !!' सहैव हस्तस्थं काष्ठमयं द्रुघणं फलके आस्फालितवान्' । 'श्रुत्वैतत् ममाऽपि वदनं तु स्यूतमिव जातमेव, हृदयमपि मन्ये स्पन्दनात् स्खलितमिव । धमनीषु रक्तप्रवाहोऽपि स्थगित इव । समीप एव स्थितेन मम सुहृदोच्चैः कथितमपि – 'किं कोऽप्यग्रे वर्धितुमिच्छति वा ?' किन्तु सर्वेऽपि तूष्णीमेव स्थिताः, ननु मूका इव सञ्जाताः । न कस्याऽप्योष्ठपुटौ स्पन्दलेशमपि प्राप्तौ । 'पाशनिगडितोऽहं खलु, !' मया चिन्तितम् । 'कोषे पञ्चषष्टिर्धनागारे पञ्चत्रिंशं शतं गृहस्य च पञ्च सहस्राणि, तान्यपि पञ्चानां दायादानाम् ! एवमपि यतः कुतोऽपि धनमृणेनाऽपि याचित्वा सञ्चिनुयां तथाऽपि सार्धं द्विसहस्रं तु न स्यादेव । तथैनद् रक्तवर्णीयमुखस्य चित्रं क्रीत्वाऽपि किं वा करवाण्यहम् ?' - 'तदा मया स्मृतं यन्मे मित्रमप्यत्रैवाऽऽसीत् । तं द्रष्टुं मया परितोऽवलोकितं किन्तु स न कुत्राऽपि दृष्ट: । अहो ! सोऽपि गतवान् वा ! । नैव नैव, स तु मत्तः किञ्चिद् दूरं स्थित्वा मुखं च करवस्त्रेण पिधाय हसन्नासीत् । एतद् दृष्ट्वा तु मम मनः सर्वथा विचलितम् । इतो मे मस्तकोपरि वज्राघातो जातोऽस्ति ततश्चाऽयं हसति ? किन्तु किं वा क्रियेताऽधुना ? निर्वाणदीपे किमु तैलदानम् ? अथवा सहसा हि कृतं कार्यं कथं मा भूद् विपत्तये ? इति विचारयन्नहं स्थितः ।' 'मत्क्रीतात् तच्चित्रादनन्तरं तु बहूनि चित्राणि प्रदर्शितानि सघोषणं च विक्रीतानि, किन्तु सशपथं वदामि यन्मया तेषामेकतमदपि न विलोकितम् । वस्तुतोऽहं शून्यमनस्को जातो येन सार्धं द्विसहस्रमृतेऽन्यत् किमपि न विचारयामि स्म । 'को वा मे ऋणं दास्यति ? वचनपत्रं (Promissory note) यदि दद्यां तर्हि को वा मे वचनं मंस्यते ? अथवा तमुद्घोषकं गत्वा कथयेयं - कृपया क्षम्यताम्, अहं धनं दातुं न समर्थ - इति, किन्तु कथं कथयेयं ? यतः पूर्वमपि विविधचित्राणां घोषणेषु सहस्रं यावत् त्वहमपि घोषितवानासम् !' 'उद्घोषको हि मेऽधुना शैक्सपियर - रचित* नाट्ये वर्णित: शायलोक् इव प्रतिभाति स्म यः शरीरादेककिलोमितं मांसं कर्तयेत् । ननु सर्वा अपि दिशो मत्कृतेऽवरुद्धा जाताः । सर्वतो घोरान्धकारो दृश्यते इव । तथा पादयोरधस्तादपि दृढं कुट्टिममासीदतो भूमिरपि मार्गं दातुं सिद्धा नाऽऽसीत् खलु !' 'एवं चिन्तयतो मे हि सर्वेषामपि चित्राणां घोषणं विक्रयणं च समाप्तं जातम् । इदानीं तु यैरपि चित्रं क्रीतमासीत् ते सर्वेऽपि धनप्रदाने चित्रप्रेषणसूचनार्थं च व्यस्ता अभवन् । तेषां सर्वेषां पङ्क्तावहमन्तिम आसम् । तत्र मां दृष्ट्वा मे सुहृद् मुखं करवस्त्रेण पिधाय पुनरप्यागतः । किन्तु सहायार्थमागत इति मा चिन्तयन्तु ! स तु मे पीतैरण्डतैलमिव मुखं दृष्ट्वा बलाद् हास्यं निगृह्णन् धावितवांस्ततः । इयमापत्तिस्तु मयैवैकलेन सम्मुखीकर्तव्याऽऽसीत् । अहं मनस्येव स्वं क्रोशन् गालिं ददामि स्म । यदि कश्चन लुण्टाक: * The Merchant of Vennice. * * तदात्वे तु पञ्चसहस्रं हि दुरासदमासीत् । ८६ Page #96 -------------------------------------------------------------------------- ________________ समागत्य स्वीयभुषुण्डेः सर्वा अपि गुलिका ममोरसि प्रक्षिपेत् तदा तस्मै धन्यवादान् समर्प्य म्रियेय - इत्यपि कल्पनां कृतवानहम् । किन्तु न कोऽपि चमत्कारो जातः प्रत्युत पङ्क्तौ स्थिता जनाः क्रमशो विरलीभूताः । अधुना तु ममाऽग्रतः केवलं द्वित्रा एव जना अवशिष्टा आसन्' ।। 'उद्घोषकाय किं वा कथयिष्याम्यहम् ?' इत्येव चिन्तयन्नहं स्थित आसीत् तदैव किञ्चिदविचिन्तितं जातम् । नीतिशास्त्रं तु किमपि वदेत् खलु, तथाऽपि मूर्खतामाचरतोऽपि जनस्य सहायमीश्वरप्रेरितः कश्चन करोत्येव । मत्पृष्ठतः कस्यचित् शब्दाः श्रुता मया - 'कृपया क्षम्यताम् ! कि भवानेव स सज्जनो येन डोबीग्री-इत्यस्य चित्रं क्रीतं खलु ?' मयोक्तं - 'कस्य चित्रमस्ति तदिति नु नैव जानाम्यहं, किन्तु मयैव तत् क्रीतमिति तु सर्वथा सत्यम्', इत्युक्त्वा मया पृष्ठतो विलोकितं तदैको वितारको दृष्टः ।' 'भगवतः साक्षात्कारो न मया कदाऽपि कृत आसीत् किन्तु तदात्वे मयाऽनुभूतं यदयं न वितारकोऽपि तु भगवदवतार एव ! यतो मया पृष्ठतो विलोकितमात्र एव तेन पृष्टं – 'यदि भवते त्रिसहस्रं रूप्यकाणि दीयेरन् तदा किं भवान् तच्चित्रं विक्रीणीयाद् वा ?' श्रुतमात्रे तस्य प्रश्ने प्रथमं त्वहं मे शरीरेऽङ्गल्यग्रेण संदश्य निर्धारितवान् यन्नाऽहं स्वप्नं पश्यामि । तदनु देवदूतमिव भासमानं वितारकं हर्षातिरेकेणाऽऽशिश्लिक्षुरपि तस्मै च कोषस्थं सर्वमपि धनं दित्सुरप्यहं न जाने कयाऽप्यन्तःप्रेरणया वाणिज्यवृत्तिमाश्रित्य गभीरतयाऽकथयम् – 'अहं चित्रं तु विक्रेष्यामि, किन्तु न त्रिसहस्रेणाऽपि तु सार्धत्रिसहस्रेण !' ।' _ 'सोऽपि यथागतं प्रतिगतः क्षणार्धेन च प्रत्यागतः सार्धत्रिसहस्रेण सह ! ततो मया सहस्रं कोषे निक्षिप्तं, सार्धद्विसहस्रेण च चित्रं क्रीत्वा तस्मै प्रदत्तम् । तावता दूरत इदं सर्वं निरीक्षमाणो मे सुहृन्मत्समीपमागतः । इदानीं हास्यं ममाऽऽस्ये विलसमानमासीत् तन्मुखं च किञ्चिदिव विषण्णं प्रतिभाति स्म । ततः सहसैव किञ्चिद्धसितुं प्रयतमानः स मामुक्तवान् – 'भोः ! साहसिक ! अधुना सग्धिस्तु भवता प्रदातव्या, यतो मत्कारणादेव त्वं 'ताजमहाल'मागतवान् सहस्रं चोपार्जितवान्' । तदा मयोक्तं सन्धि तु गृहे दास्यामीह तु सपीतिमेव दास्ये । चलतु कॉफीपानार्थम्' ।' 'वदन्तु महोदयाः ! कथमस्मान् भगवान् परीक्षते रक्षति च खलु !' इत्युक्त्वा तेन सज्जनेन यदा स्ववृत्तं समर्थितं तदैवाऽस्माभिर्जातं यत् स्तोकवेलायामेव प्रभातं भविष्यतीति । ततः सर्वे 'बाढं बाढ'मित्युच्चारयन्तः स्वस्वावासं प्रतिगताः । अहमपि प्रत्यागतः । किन्तु विचारयामि केवलं यदिदानीं तु तादृशो युगो व्यतीत एव खलु !! [E.V.LUCAS इत्यस्य TIGHT CORNER इति कथाया ज्योति-वैद्येन विरचिताद् बूरे फंसे- इति गूर्जररूपान्तरात् अनूदितमिदम् ।] Page #97 -------------------------------------------------------------------------- ________________ विनोदकथा काष्ठच्छिदः कथा मुनिकल्याणकीर्तिविजयः अस्माभिः सर्वैरपि बाल्ये तस्य नीतिमतः काष्ठच्छिदः कथा श्रुतैवाऽस्ति, यथा - कदाचिदरण्ये काष्ठभारमानेतुं गतस्य मार्गे च तृषादितत्वात् कूपाज्जलं पातुकामस्य तस्य हस्तादकस्मात् कुठारः कूपे पतितः । कुठारेण विना च तस्य जीविकैव न स्यादिति कृत्वा स रोदितुं लग्नः । तस्य सरलस्वभावं दृष्ट्वा दुःखितं च तं ज्ञात्वा वनदेवस्य हृदि तदुपरि करुणोत्पन्ना । तेन तत्रैव प्रकटीभूय, स्वशक्त्या कूपादेको रजतमयः कुठारो निष्कास्य तस्मै प्रदत्तः, किन्तु तेन निर्लोभतया स न स्वीकृतः । ततो देवेन स्वर्णमयः कुठारो निष्कास्य तस्मै प्रदत्तः, किन्तु सोऽपि तेन 'नैष मदीय' इति निराकुर्वता न गृहीतः । ततो देवेन तस्मै तदीय एव लौहः कुठारो कूपान्निष्कास्य तस्मै प्रदत्तः । तदा 'एष एव मदीयः' इति कथयता तेन स गृहीतः । तदा तस्य नीतिमत्तयाऽतीव प्रसन्नेन देवेन तत्प्रशंसां कृत्वा द्वावपि रजतसुवर्णमयौ कुठारौ तस्मै उपायनत्वेन प्रदत्तौ । एतावत्पर्यन्तं तु वयं सर्वेऽपि कथामेनां जानीम एव । किन्त्वस्मिन् नूतने युगे सा कथा ततोऽप्यग्रे प्रवर्तते, यथा - अथ च सुवर्णमयस्य रजतमयस्य च कुठारस्य प्राप्त्या काष्ठच्छिद आर्थिकी परिस्थितिः सद्य एव परावर्तिता जाता । तेन नगरमध्ये नूतनं गृहं कल्पितं, काष्ठच्छेदनवृत्तिं च परित्यज्य वाणिज्यमप्यारब्धम् । इदानीं तस्य गणनाऽपि मान्येषु श्रेष्ठिषु जाता । तस्य व्यवहारोऽप्यतीव सरल उत्तमश्चाऽऽसीदतस्तेन प्रभावितेन केनचिदग्रगण्येन श्रेष्ठिना तस्मै स्वकन्याऽपि परिणायिताः । एवं च तस्य जीवनं सरसतया प्रवर्तमानमासीत् । अथाऽन्यदा तस्य मनः पूर्वतनस्मृतिभिः समाकीर्णं जातं यथा – किलाऽहं काष्ठिक आसम् । अरण्ये च काष्ठार्थं प्रतिदिनं गच्छामि स्म । आनीतेन च काष्ठभारेण वृत्तिं निर्वहामि स्मेत्यादि । तेन चिन्तितं यदद्याऽरण्यं गत्वा तानि स्थानानि यदि पश्येयं तदा वरमिति । अतः स वनं गन्तुमुद्यतो जातस्तदैव च तत्राऽऽगतवत्या तत्पत्न्या पृष्टं – 'अयि भोः ! कुत्र जिगमिषुरस्ति भवान् ? यदि विपणौ गन्ता तदाऽहमप्यागच्छेयं, किञ्चिद् वस्तुजातं क्रेतव्यमस्ति (Shopping) । अनेनोक्तं – 'नाऽहं विपणौ गच्छन्नस्मि । किन्तु यदि भवत्यै गन्तव्यं तर्हि सुखेन गच्छतु, गृह्णातु चैतद् धनम्' । तदा साशङ्कया तया पृष्टं – 'तर्हि भवान् कुत्र प्रस्थितोऽस्ति ? सत्यं वदतु' । एतेनोक्तं - 'कथयामि कथयामि' इत्युक्त्वा ८८ Page #98 -------------------------------------------------------------------------- ________________ स्वस्मृतिविषयेऽरण्यगमनविषये चोक्तं तेन । तदाऽनया कथितं – ‘एवं वा? तहमपि आगच्छामि । अत्रैव भ्रामं भ्रामं निविण्णाऽस्मि ननु !' । 'तहि झटिति सज्जीभूयाऽऽगच्छतु, एषोऽहं प्रचलितः' इत्यनेन निर्दिष्टम् । सद्य एव द्वावपि प्रस्थितौ वनदिशि । अयं च तस्यै तानि सर्वाण्यपि स्थलानि दर्शितवान् यत्र स पुरा काष्ठानयनायाऽऽगच्छन्नासीत् । क्रमेण च स कूपोऽपि तयोर्दृष्टिपथमागतः । तदाऽनेन देवदर्शनस्य कुठारत्रयस्य च प्राप्तेविषयेऽपि तस्यै कथितम् । तच्छ्रुत्वा विस्मिता सा कूपं द्रष्टुं निकषागता । यावच्च साऽत्र कियज्जलमस्तीत्यादि निरीक्षितुमवनता तावत् सन्तुलनाद् भ्रष्टा सती कूपेऽपतत् । एतद् दृष्ट्वा भीतभीतस्तत्पतिर्धावित्वा कूपकण्ठे स्थित्वा तां विलोकयितुं लग्नो यावत् तावत् सा नैव दृष्टिगोचराऽभवत् । अतः स्वं स्वभाग्यं च निन्दन् स क्रन्दितुमारब्धः । इतश्च तस्य क्रन्दनं श्रुत्वा वनदेवस्य मन आर्टीभूतम् । तेन समागत्य करुणया पृष्टं – 'किं जातं भोः ! ?' अनेनोक्तं – 'प्रभो ! मे प्राणवल्लभा पत्नी कूपान्तः पतिताऽस्ति । तस्या रक्षणार्थं न कमप्युपायं जानामि, न जाने किं भविता? तया विना च जीवनमपि दुष्करं मम' । एतेन वनदेवस्य हृदि दया समुद्भूता, तेन तत्क्षणमेव कूपात् विश्वसुन्दरीकल्पा काचन सुन्दरी समुद्धृत्याऽस्य पुरत उपस्थापिता । तदाऽनेनाऽपि सत्वरमेव तस्या हस्तं गृह्णता कथितं – 'प्रभो ! इयमेव मे प्राणवल्लभा पत्नी, भवत्करुणया प्राप्ता, अनुगृहीतोऽस्मि भवता' इत्यादि। एतद् विलोक्य साश्चर्यं पृष्टं वनदेवेन - 'भो ! मया तु, भवान् पूर्ववदेवाऽत्यन्तं नीतिमान् सज्जनश्चाऽस्तीति - चिन्तयतैवैषा सुन्दरी भवत्पुरत उपस्थापिताऽऽसीत्, किन्तु मन्ये भवान् परावृत्तो जातोऽस्ति, अन्यथैवं नैव सम्भवेत् !' । तदाऽनेनोक्तं – 'प्रभो ! नाऽहं परावृत्तोऽस्ति, न चाऽप्यनीतिमान् सञ्जातोऽस्मि, किन्तु भविष्यच्चिन्तयैव मयैवं कृतम्'। 'काऽसौ भविष्यच्चिन्ता ननु ?' 'प्रभो ! यदा भवता मत्पुरत इयं सुन्दरी समुपस्थापिता तदा मया चिन्तितं यद् - यद्यहमेनां निषेत्स्यामि तदा प्रभुर्मेऽन्यां सुन्दरी दर्शयिष्यति, यदा च तामपि निषेत्स्यामि तदा प्रभुर्मे पत्नीमुपस्थापयिष्यति । यदाऽहं तां स्वपत्नीत्वेन स्वीकरिष्ये तदा प्रभुर्मयि प्रसन्नो भूत्वाऽन्ये द्वे अपि सुन्द? मह्यमेव दास्यति' । 'तत् तु सत्यमेव खलु !' । 'एष एव मे चिन्ताया विषयोऽस्ति प्रभो ! । अहमेनामेकामपि मत्पत्नी पालयितुं तस्या योगक्षेमादिकं च निर्वोढुं काठिन्यमनुभवामि, तर्हि यदि पत्नीत्रयं लभ्येत तदा कथमहं तासां पालन-पोषणं करिष्यामीति भीत्या चिन्तयैव च किञ्चिद् विचारणं कृत्वेमां प्रथमसुन्दरीमेव पत्नीत्वेन स्वीकृतवान् । एवं च कुर्वाणोऽहं किमनीतिमान् असज्जनो वा ? नाऽहं परावृत्तः किञ्चिदपि किन्तु परिस्थितिवशेनैव मयैतत् कृतम् !!' ८९ Page #99 -------------------------------------------------------------------------- ________________ मर्म नर्म कीर्तित्रयी ग्राहकः (आपणिक) भवता यदिदं रेडियो-यन्त्रं मे विक्रीतं तस्य ध्वनिगुणवत्ताऽतीव श्रेष्ठाऽस्ति, किन्तु अहं तत् परावर्तयितुमिच्छामि यतस्तत्र उत्तमाः कार्यक्रमा न प्रसार्यन्ते !! आपणिकः ...!!... अपूर्वः भवतो यावतीं प्रशंसां करोमि तावत्यल्पैव ! अद्वितीयः अद्य भवता मे महत्त्वं ज्ञातं खलु ? अपूर्वः नैव भोः ! अद्य मयैतज्ज्ञातं यन्मूर्खसमक्षमलीकोच्चारणेऽपि न काऽपि बाधेति !! दग्धः भवान् भवतः सहभागी (Partner) च कथं वाणिज्यं कुरुतः ? दुर्विदग्धः सहभागिना धनं विनियोजितमस्ति, मया त्वनुभवो विनियोजितोऽस्ति, वाणिज्यं च वर्षत्रयावधिकं भविष्यति । दग्धः वर्षत्रयानन्तरं किं भविष्यति खलु ? दुर्विदग्धः मत्पार्वे धनं भविष्यति सहभागिनश्च पार्वेऽनुभवः !! ज्ञः सुज्ञः भवान् पर्यटनसमये किमिति कदाऽपि भवत्पत्नीं न नयति ? कारणद्वयमत्राऽस्ति । प्रथमं तावत् – व्ययोऽ| भवति, द्वितीयं तु - आनन्दो द्विगुणो भवति !! ९० Page #100 -------------------------------------------------------------------------- ________________ माता यदाऽहं बालाऽऽसं तदा न कदाऽप्यनृतं वदामि स्म । तर्हि भवत्या तत् कदा प्रारब्धम् ?! पुत्रः (चिकित्सकं) महोदय ! पूर्वमहं यत् सर्वमपि गृहकार्य सानन्दं करोमि स्म तदिदानी न कर्तुं शक्नोमि । कृपया मां परीक्षताम् । (परीक्षणानन्तरं) कृपया स्पष्टभाषया वदतु - किं जातं ममेति । चिकित्सकः भवान् अलसः सञ्जातोऽस्ति । इदानीं चिकित्सापरिभाषया तदेव कथयतु, येनाऽहं मम पत्न्यै तद् बोधयितुं शक्नुयाम् ! रुग्णः माधवः माता मातः ! इतः परमहं न कदाऽपि शालायां गमिष्ये । किमिति भोः !? पश्यतु मातः ! अहं पठितुं लेखितुं वा नैव जानामि, शिक्षकश्च मां वदितुं नैवाऽनुमन्यते !! माधवः शिक्षकः (विद्यार्थिन) कानि तानि त्रीणि पदानि यानि प्रायशो बहवो विद्यार्थिनः प्रयुञ्जते ? विद्यार्थी अहं नैव जानामि ! शिक्षकः सत्यमुक्तं भवता । रमणः पिता पितः ! ह्यो भवता यद् गणितसङ्कलनं कर्तुं मे साहाय्यं कृतं तत् सर्वथा मिथ्याऽभवत् । एवं वा ? तदर्थं क्षमा याचे भोः ! न कामपि चिन्तां करोतु, यतो न कोऽप्यन्यः पिता तत्र सफलोऽभवत् !! रमणः Page #101 -------------------------------------------------------------------------- ________________ प्राकृतविभागः पाइयविनाणकहा आ. श्रीविजयकस्तूरसूरिः (१) धम्मोवएससवणे पुत्तलिगातिगस्स कहा सद्धम्मस्सवणे जोग्गा, सोयरा कहिया तिहा । पुत्तली-तितयस्सेह, दिटुंतो पण्णविज्जइ ।। भोयनरिंदसहाए एगया को वि वइएसिओ समागओ । तया तीए सहाए कालीदासाइणो अणेगे विउसा संति । सो वेएसिओ नरिंदं पणमिअ कहेइ – “हे भोयनरिंद ! अणेगविउसवरालंकियं तुव सहं नच्चा पुत्तलिगातिग-मुल्लंकण तुम्ह समीवे हं आगओ म्हि" एवं कहिऊण सो समुच्चत्त-वण्ण-रूवं पुत्तलिगातयं रण्णो करे अप्पिऊण कहेइ – “जइ सिरिमंताणं विउसवरा एआसिं उइअं मुल्लं करिस्संति, तया अज्ज जाव अन्ननरवरसहासु जएण मए लद्धा जे विजयंकंकिआ लक्खचंदगा ते दायव्वा, अन्नह अहं विजयंकचिन्हिअं सुवण्णचंदगमेगं तुम्हाओ गिहिस्सं" । रण्णा ताओ पुत्तलीओ मुल्लकरणत्थं विउसाणमप्पिआओ । को वि विउसो कहेइ - "पुत्तलिगागयसुवण्णस्स परिक्खं णिहसेण हे मणिगारा ! तुम्हे कुणेह, तुलाए वि आरोविऊण मुल्लं अंकेह" । तया सो वइएसिओ ईसिं हसिऊण कहेइ - "एरिसप्पयारेण मुल्लनिरूवगा जयंमि बहवो संति, अस्स सच्चं मुल्लं जं सिया, तं णाउं भोयनरिंदसभाए समागओ म्हि" । एवं सोच्चा पंडिआ पुत्तलिगाओ करे गहिऊणं सम्मं निरूविति, परंतु पुत्तलिगातिगस्स रहस्सं णाउं न तीरंति । तया कुद्धो नरिंदो वएइ – “एयाइ महईए परिसाए किमु को वि एयासि मुल्लं काउं न समत्थो ?, धिद्धि तुम्हाणं"। तया कालीदासो कहेइ – “दिणत्तएणाऽवस्सं मुल्लं काहामि' त्ति कहिऊण सो पुत्तलिगाओ गहिऊण घरंमि गओ । वारंवारं ताओ दट्टण बहुं विआरेइ । सुहुमदिट्ठीए ताओ निरिक्खेइ । तया ताणं पुत्तलीणं कण्णेसु छिद्दाइं पासेइ, पासित्ता तेसु छिद्देसु तणुगं सलागं पक्खिवेइ, एवं सव्वाओ सलागापक्खेवेण निरूविअ तासिं मुल्लं पि अंकेइ । तिदिणंते नरिंदसहाए गच्चा निवस्स पुरओ कमेण ताओ ठविऊण तेण वुत्तं – “पढमाए पुत्तलिगाए मुल्लमेगकवड्डिआत्तं, बीआए एगं रूवगं, तइआए मुल्लमेगलक्खरूवगमत्थि" । तं मुल्लं सोच्चा सव्वा सहा अच्छेरमग्गा जाया । वइएसिएण कहिअं - "एएण सच्चं मुल्लमुत्तं, ममावि तं चिअ अणुमयं" । राइणा कालीदासो पुट्ठो - "तुमए समपमाणवण्ण-रूवाणं एआसिं कहं विसमं मुल्लं कहिअं?" ति । कालीदासो कहेइ - "हे नरिंद ! मए पढमपुत्तलिगाए मुल्लं ९२ Page #102 -------------------------------------------------------------------------- ________________ कवड्डिआमेत्तं कहिअं, जओ इमीए कण्णच्छिद्दे सलागा पक्खिविआ, सा बीअकन्नच्छिद्दाओ निग्गया । तओ सा एवं उवदिसेइ - "जयंमि धम्मसोयारा तिविहा उत्ता, पढमो सोयारो एरिसो होइ, जो अप्पहियगरं वयणं सुणेइ, सुणित्ता अवरकण्णाओ निस्सारेइ, न य तयणुसारेण पयट्टेइ । सो सोयारो पढमपुत्तलिगासरिसो ओ, तस्स किंपि मुल्लं न" । अओ मए पढमसोयारसमपढमपुत्तलिगाए मुल्लं कवड्डियामेत्तं कहिअं १ । बीअपुत्तलिगाए कण्णे पक्खित्ता सलागा मुहेण निग्गया, सा एवं कहेइ - "जयंमि केवि सोयारा एआरिसा हुंति, जे उ अप्पहियगरं वयणं सुणंति, अन्नं च उवदिसंति, किंतु सयं धम्मकिच्चेसु न पवट्टंति, एरिसा सोयारा बीअपुत्तलिगासरिसा नायव्वा" तओ बीअपुत्तलिगाए मुल्लं मए रूवगमेगं कहिअं २ । तइअपुत्तलिगाए कण्णे पक्खित्ता सलागा बाहिरं न निग्गया, परंतु हियए ओइण्णा, सा एवं उवदिसइ – “केवि भव्वजीवा मम सरिच्छा हवंति, जे उ परलोगहियगरवयणं उवउत्ता सम्मं सुणेइरे, धम्मकज्जेसु जसत्तिं पवट्टंते, एरिसा सोयारा तइअपुत्तलिगाए समाणा नायव्वा" तओ मए तइअपुत्तलिगाए मुल्लं लक्खरूवगं ति जाणाविअं ३ । एवं कालीदासस्स वयणं सोच्चा भोयनरिंदो अन्ने वि य पंडिआ संतुट्ठा | सो वइएसओ पराइओ समाणो तं चंदगलक्खं नरिंदग्गओ ठवेइ । राया तं सव्वं कालीदासस्स अप्पेइ । एसो पुत्तलीतिगदितं नच्चा सन्नाणदायगं । 'धम्मस्सवणकम्मंमि, हियएण पवट्टह' ॥ धम्मोवएससवणे पुत्तलिगातिगस्स कहा समत्ता ॥ " (२) समावराहचोराणं सिक्खाए कुमारमंतिणो कहा "जारिसो माणवो होइ, सिक्खणं तस्स तारिसं ।" समावराहचोरेसुं, कुमारस्से - ह नायगं ॥ पाडलिउत्तनयरे जियसत्तुनरिंदस्स कुमारा नाम चउबुद्धिनिहाणो पहाणो आसि । सो जारिसा अवराहिणो आगच्छंति ताणं परिक्खिअ, तारिसं दंडं देइ । एगया कोट्टवालेण चउरो चोरा कुमारमंतिणो पुरओ ठविआ । कुमारमंती तेसिं बुद्धीए परिक्खं करिऊण दंडं दाहीअ, जहा पढमचोरस्स उत्तं "तुं भद्दओ वि होऊण, एरिसं अकज्जं काउं तुव किं जुत्तं' ?, किं तव एयं सोहेइ ? गच्छसु तुं, मा कयावि एवं कुणेज्जा" इअ वोत्तूण मंतिणा सो विसज्जिओ । बीअं चोरं आहूय मंतिणा सावमाणं परुसक्खरपुरस्सरं वुत्तं – “हे मुरुक्खसेहर ! सुकुलुप्पन्नेणाऽवि तुमए एरिसं कज्जं कयं, किं ते लज्जा विनाऽऽगया ? गच्छसु, मुहं मसीए लिंपसु, मा मुहं पुणो दंसेसु त्ति ?” सो वि विसज्जिओ । ९३ गुज्जरकहाए - - Page #103 -------------------------------------------------------------------------- ________________ तइअं चोरं बोल्लाविऊण, लत्ताए पहरिअ 'तुम्हाओ पाहाणो वि सोहणो' इअ सतिरक्कारं अद्धचंदेण निक्कासिओ । चउत्थो तु पच्छामुहं किच्चा गद्दहमारोहिऊण सव्वनयरंमि भमाडिउमाइट्ठो । अवराहस्स एगत्ते भिन्नभिन्नदंडो एएसिं कहं दिन्नो कुमारमंतिण त्ति अच्छरिअसंजुआ सव्वे सहाजणा जाया । तेर्सि हिययगयभावं नाउं 'चउण्हं चोराणं कि जायं' ति निरूवणत्थं रण्णा चरपुरिसो पेसिओ । एगपहरंमि गए सो चरपुरिसो समागओ समाणो नरिंदं कहेइ – "हे महाराय ! पढमो कोमलेण वयणेण उवलंभिओ संतो गेहे गंतूण, अप्पं पि उवलंभं असहंतो जीहं दंतेहिं पीसिऊण मच्चु पत्तो । बीओ परुसक्खरेहिं तिरक्करिओ सो 'अहं कयाऽवि मुहं न दंसिस्स' ति कहिऊण विएसं गओ । तइओ जो सहामझे ताडिओ, सो गिहाओ बाहिरं गंतुं न इच्छेज्जा । चउत्थो उ जो गद्दहमारोहिऊण नयरभमणमाइट्ठो सो उ गद्दहोवरिं परंमुहमुववेसिअ नयरे भमाडिज्जमाणो, विविहावमाणवयणेहिं च पउरेहिं हीलिज्जमाणो निल्लज्जो नियघरसमीवं समागओ संतो तक्कोउहल्लदंसणत्थागयनिअभज्जं कहेइ – 'अहुणाऽहं अवसिट्ठासु दोसु रच्छासु भमिअ सिग्धं आगमिस्सं, तओ तुमं जलं सिग्धं उण्हं कुणेसु' इअ चरपुरिसकहिअवुत्तंतं सुणिऊण सव्वे कुमारमंतिस्स बुद्धि पसंसन्ति । . उवएसो - सब्भावं च असब्भावं, चउचोराण पेक्खिअ । तुम्हे कुमारमंतिव्व, 'होह तह परिक्खगा' ॥ समावराहचोराण सिक्खाए कुमारमंतिणो कहा समत्ता ॥ गुज्जरकहाए (३) तरणब्भासे सेट्ठि-नाविआणं कहा सुट्ठ नाणं सुहा लच्छी, रमणी सुंदरी तहा निप्फलं तं विणा धम्मं, एत्थ सेट्ठिस्स नायगं ॥ एगया कोवि धणवंतो सेट्ठी नावमारुहिऊण समीवदीवं वच्चंतो अत्थि । तस्स पासे महाघडिआलयं वट्टइ । नाविगो घडिआलयं दटुं तत्थाऽऽगओ । सेट्ठि पुच्छइ – 'हे सेट्ठि ! अहुणा केत्तिलो समओ संजाओ ?। सेट्ठिणा वुत्तं – 'किं तुमं घडिआलयं न पाससि ?' । पासामि अहं, किंतु घडियालयनाणकला मम नत्थि । पुणो वि सेट्ठिणा पुढे – 'ववहारनाणं तुमए सिक्खिअं न वा ?' तेणुत्तं – 'दीणस्स मम को सिक्खणं देज्जा?' । सेट्ठिणा भणिअं - 'जइ तुमं न भणित्था, तेण तव जीवणस्स चउत्थभागो मुहा गओ' । पुणरवि सेट्ठिणा पुढे – “किं तुं परिणीओ सि न वा ?' । तेणुत्तं – 'कटेण जीवणनिव्वाहं करोमि, एरिसाए दीणावत्थाए मज्झ को कन्नं देइ ?, कया वि को वि कन्नं देज्जा, तह वि दुक्खेण उयरं भरंतो हं तीए निव्वाहं कहं करेमि ?' । सेट्ठिणा उत्तं - 'इत्थि पुत्तं च विणा संसारे किं सुहं होज्जा?, Page #104 -------------------------------------------------------------------------- ________________ अओ तुम्ह अद्धजीवणं निप्फलं गयं' । पुणरवि सेट्टिणा पुढे – 'हे मुक्ख ! तुं वावार-दव्वज्जणकलं जाणेसि न वा ?' । तेणुत्तं 'अहं नावाचालणं विणा किमवि नाऽवगच्छेज्जा' । सेट्ठिणा उत्तं -"तओ तुम्ह पाओणजीवणं निष्फलं गयं"। एरिसवत्ताए विज्जमाणीए समाणीए अण्णवमज्झमि पचंडो वाओ पाउब्भूओ, "पवहणंपि सयसिक्करमहुणा होस्सइ"त्ति णाऊण नाविएण उत्तं – 'हे सेट्ठि ! तुम्ह तरणनाणं अत्थि न वा ?' । सेट्ठिणा कहिअं - 'हं सव्वं अन्नं जाणामि, किंतु तरणनाणं मम नत्थि' । तया नाविगो आह – 'हे सिरिमंत ! अहुणा इमं पवहणं मम आहीणं नत्थि, अईव पचंडवाएण पणोइअं समीववट्टिसिलाए तुट्टिस्सइ, सयसिक्करं च हविस्सइ, मज्झ पाओणजीवणं निष्फलं गयं, तुम्ह उ सव्वं जीवणं मुहा गयं, मम हि तरणनाणं अत्थि, तेण समुदस्स पारं पाविस्सं, तुम एत्थ समुद्दे बुड्डिस्ससि इअ कहितो सो नाविगो सिलप्फालिअनावाए सयखंडिअजायाए समुद्दे पडिऊण पारं पत्तो, सेट्ठी उ तरणनाणाभावे समुइंमि बुड्डिओ। एवं सव्वाओ कलाओ सिक्खिऊण जो भवसमुद्दतरणाय धम्मकलं न सिक्खित्था सो सेट्ठी विव भवसमुद्दे मज्जइ ॥ उवएसो सरीरमाहु नाव त्ति, जीवो वुच्चइ नाविओ । संसारी अण्णवो वुत्तो, तं तरंति 'महेसिणो ॥ धम्मनाणविहीणस्स, सेट्ठिणो अद्धिमज्जणं । दट्ठणं 'तरणब्भासे भावओ उज्जमेह भे' ॥ तरणब्भासे सेट्ठिनाविआणं कहा समत्ता ॥ सूरीसरमुहाओ (४) तिव्वपावोदए कालसोअरिअस्स कहा घोरहिंसापसत्ताणं, समाही न कया वि खु । कालसोअरिओ नायं, मच्चुकाले मइच्चुओ ॥ रायगिहे नयरंमि सेणिओ नाम राया आसि । तम्मि नयरे कालसोअरिओ नाम सूणावई अत्थि । सो अभव्वो दिणे दिणे महिसपंचसयं हणेइ । तओ तेण घोरहिंसाए सत्तमनरगपुहवीओ वि अब्भहियं पावमुवज्जिअं । चरमकाले सो सोलसमहारोगेहिं गहिओ । अइतिव्वासुहकम्मोदएण सो पंच वि इंदियत्थे विवरीए वेएइ – सुहविसए असुहे अणुहवइ । तस्स सुलसो नाम पुत्तो अभयकुमारमंतिस्स संगेण धम्मिट्ठो संजाओ अस्थि । सव्वायरेण पिउस्स वाहिपडियारं कारेइ । तह वि सो कत्थ वि रइं न लहेइ, ताहे सुलसो नियमित्तं अभयकुमारं पुच्छेइ । अभयकुमारो भणेइ - 'हे भद्द ! तुम्ह पिउणा जीवहिंसाओ घोरपावं समज्जिअं, तं असुहकम्मं इह भवे उइण्णं, ता इंदियाणं जं पडिकूलं होज्जा तं कुणसु - "कंटकसेज्जाए एअं ठवेहि, न उ सुहसिज्जाए, असुइमलमुत्ताइणा विलिंपेसु, मा चंदणेहिं, पिबावसु खारतिक्खदुग्गंधनीराइं, १. महर्षयः । Page #105 -------------------------------------------------------------------------- ________________ न उ साउजलं, जेण सो रइं पावेज्ज' । सुलसेणाऽवि तहाकए पत्तपरिओसो सो कालसोयरिओ कंचि कालं जीविऊण मच्, पाविअ सत्तमनरगपुढवीए समुप्पन्नो । सयणेहिं तस्स पए सो सुलसो ठविओ, भणिओ य - 'अंगीकुणेहि नियजणगववसायं' । सो वि नियपियराणुभूयं दुहं संभरंतो 'न तरामि पावफलाई सोढुं' ति जंपमाणो नेच्छेइ । सयणा भणंति – 'पावं अम्हे विभागेण गिहिहिमो' । तओ तेसिं बोहणाय सुलसेण तिण्हकुहाडेण निअपाओ निद्दयं ताडिओ। आरसंतेण य भणिया बंधवो – 'भो ! भो ! दुक्खं 'विभइऊण थेवं थेवं गिण्हह, जेण मे सुहं होज्जा' । सयणेहिं भणिअं– 'पुत्त ! सुट्ठ गिण्हामो, जइ अम्हासु संकमज्ज, किं तु नत्थि उवाओ, जेण अन्नसंतिअं दुहं अन्नंमि न संकमेइ' । तओ सुलसो कहेइ – 'तो किं भणेह - अम्हे तुह पावं विभइस्सामो'?त्ति । एवं तेण वुत्ता लद्धनिण्णया तुण्हिक्का ठिआ सयणा । जीवहिंसाओ विरओ सो सुलसकुमारो अभयकुमारेण भगवओ महावीरस्स समीवे सावगघम्म गाहिओ । विहिणा सम्मं तं पालिऊण देवलोगं पत्तो ।। उवएसो - अच्चंतासुहकम्मस्स, फलमेत्थ परत्थ य । जाणित्ता 'हियमिच्छंतो विरमेसु तुमं तओ' ॥ तिव्वपावोदए कालसोअरिअस्स कहा समत्ता ॥ सक्कयकहाए (५) सुपत्तदाणभावणाए सालिभद्दपुव्वभवस्स कहा ॥ पुव्वजम्मम्मि दाणेच्छा, अंते पत्तेसु जायए । तीए सुही नरो होज्जा, सालिभद्दो नियंसणं । कम्मिवि नयरम्मि नयरसेट्टी आसि । तस्स चत्तारि पुत्ता, चउरो य ण्हुसाओ संति । सो सेटिवरो कोडीसरो वि अच्चंतो लोही वट्टइ, कयाई दाणं न देइ । एगया चत्तारि पुत्तवहूओ जिणमंदिरदसणत्थं सिंगारं सज्जिअ गिहाओ निग्गयाओ । मग्गे जुव्वणमएण इओ तओ अवलोगणेण गच्छंतीणं तासि लहुपुत्तवहूए एगा वुड्डा संघट्टिआ पडिआ य । तीए वुड्ढाए उत्तं - "रे रे संमुहं किं न पासेसि ?, आहूसणेहिं वित्तेहिं वेसेहिं च मयंधा तुमं?, तुम्ह पिउणा ससुरेण वा किं दीणदुहियाणं दाणं दिण्णं ?, नयरंमि किं जसकित्तिकम्मं कयं ?, जेण एवं उद्धत्तणेण चलेसि, गव्वंधा मं पि संमुहत्थं न पेक्खसि?" एवं उत्ता समाणी जिणमंदिरे चेइआई वंदित्ता, घरंमि आगच्च कोवंधा कोवघरंमि ठिआ समाणी परिवारेण सह नाऽऽलवेइ । तया तीए पिएणं जेट्ठपुत्तवहू कारणं पुट्ठा, कारणं कहिअं । तं सोच्चा तेहिं चऊहिं पुत्तेहिं वियारिअं - 'अम्हाणं पिआ लोहंधो 'दूरे सद्धम्मकज्जंमि दव्ववओ' नाइजेमणं पि न करेइ, तेण अम्हाणं जसो कित्ती अ कुओ?, अओ केण वि उवाएण नाइभोयणं कायव्वं' । पिउवच्छलेण लहुभाउणा वुत्तं - १. विभज्य Page #106 -------------------------------------------------------------------------- ________________ 'अहं पियरं कज्जवावारे तह ठविस्सामि, जह सो नाइभोयणं न जाणिस्सइ, तुम्हेहिं च आमंतिअ सव्वे नाइजणा घरंगणे भोयाविअव्वा ।' तेहिं अणुमयं । अण्णंमि दिणे कंमिवि महूसवपसंगे नाइजणा आमंतिआ । घरंगणे रसवई पउणीकया, सव्वे य नाइजणा भोयणत्थं समागया । तंमि समये लहुपुत्तेण पिया कयविक्कयवावाराइकज्जे रुधिओ । समागयलोगहलबोलसवणेण पियरेण पुढे – 'किं अज्ज जणकोलाहलो सुणिज्जइ ?' लहुपुत्तेण वुत्तं - 'कि पि न, कारणपसंगेण समागया होज्जा' । संदेहेण पिउणा उत्थाय वायायणाओ बाहिरमवलोइअं, तया भुंजमाणा णाइजणा दिट्ठा । चिंतिअं च किल 'पुत्तेहिं हं वंचिओ म्हि !, हा ! हा ! धिद्धि मं, किंपि मए सुकयं हत्थेण न कयं' । एवं अधिइमावन्नो सो जिमंतलोगपंतीए बाहिं दूरट्ठिअं साहुजुगलं भिक्खत्थं भममाणं पासेइ । तं दट्ठण तस्स सुहभावो जाओ, विआरिअं च 'धन्नो हं, जं एअं मुणिजुगलं मम दिट्ठिपहमि आगयं, इओ गंतूण मुणिवराणं पाए पणमिअ सुद्धमाहारं देमि' । एवं विआरयंतो सुपत्तदाणदिण्णमणो सो नीसरणीए ओयरंतो खलियपाओ सहसा हिट्ठम्मि भूमियले पडिओ, निविडयरउवघाएण तक्खणे मच्चुं पत्तो । आहारदाणवियारणाए बद्धमणुआऊ सो आहीरगेहे संगमो नाम पुत्तत्तणेण समुवन्नो । एगया महूसवे तस्स गेहे माऊए पुत्तत्थं मग्गित्ता पायसभत्तं रंधिअं। माया पुत्तस्स थालीए खीरं परिवेसिअ पओयणत्थं अन्नहिं घरे गया । जया सो संगमो भोयणत्थं उवविठ्ठो, तया तस्स पुण्णुदएण को वि पच्चक्खायमासिअभत्तखमणगो पारणदिणे भिक्खत्थं भमंतो तत्थ आगओ। सो संगमो तं महातवस्सि पासेइ, पासित्ता पुव्वभवदाणपरिणामवसाओ तस्स आहारदाणपरिणामो जाओ । 'एयस्स महामुणिणो हं दाणं देमि' त्ति उत्थाय साहुं बोल्लाविऊण सुद्धभावेण सव्वं पायसं अप्पेइ । पुण्णाऊ सो मरिऊण सुपत्तदाणप्पहावेण रायगिहे नयरे गोभद्दसेट्ठिगिहे भद्दासेट्ठिणीए सालिभद्दो नाम पुत्तो संजाओ ॥ उवएसो - सालिभद्दपुराजम्मं, पुण्णाणुबंधिपुण्णयं । सोच्चा 'सुपत्तद्दाणम्मि, उज्जमेह दिणे दिणे' ॥ सुपत्तदाणभावणाए सालिभद्दपुव्वभवस्स कहा समत्ता ॥ जणपरंपराओ ९७ Page #107 -------------------------------------------------------------------------- ________________ प्राकृतविभागः कथा सज्जणसंगो मुनिकल्याणकीर्तिविजयः तं ठाणं तहा मलमलिणं आसी जहा तस्स वण्णणमवि न काउं सक्कइ । तत्थ बहवे कीडाइया वसीअ । तेसिं निवासठाणं परिवारा परियणा वि य तत्थेव अहेसि । एत्थ मलिणे ठाणे वि वसिऊण ते कीडया सुहिणो आसी । इओ वि सुहयरं जीवणं जीविउं सक्कं ति तेसिं चिंतणस्स विसओ चेव न कयाइ वि जाओ। जहा वसणेसु वासणासु य काम-कोहाईसु माण-मोहाईसु अहंकार-लोहाईसु य पडिए जीवे दट्ठण संतपुरिसाण दया उप्पज्जइ तहेव एगया कोई भमरो तं ठाणमइक्कमिउं गच्छंतो ते असुइगणेसु पडिए कीडए दट्ठण करुणापुण्णहियओ जाओ। तेण चिंतियं – 'जइ एए मे कहणं मन्निज्जंति तो हं ते उत्तिमेसु Page #108 -------------------------------------------------------------------------- ________________ उज्जाणाइठाणेसु नएमि ताव' । सो जाव एयं चिंतेइ तावेगो असुइट्ठाणस्स कीडगो तं पुरओ मिलिओ। तं दट्ठण महुयरेण कहियं - 'कहं अत्थि भो कीडया ! ?' तेणुत्तं – 'अम्हाणं नणु किं दुक्खं ? सयणपरियणेण सद्धि ससुहं वसामो एत्थ ठाणे' । अणेण कहियं – 'तं तु जुत्तं चेव' । कीडएण वुत्तं - 'भो ! महुयरा ! कइया वि अम्ह गिहे पाहुण्णगत्तणेण समागच्छेज्ज, जेणऽम्हे जहसत्तिं तुम्ह सक्काराइयं करेमो' । भमरो कहेइ – 'अहं अवस्सं आगमिस्सं, किन्तु पढमं तुमए मम गिहे समागंतव्वं'ति । 'अवस्सं अवस्सं'ति कीडएण भणियं । एवं पइदिणं तेसिं संलावो हवइ । ___ अह एगया भमरेण अईव निब्बंधेण भणियं जहा - 'अज्ज तुमए मह गिहे आगंतव्वं चेव' । तओ कीडओ तं अणुमण्णेउं तेण सह उज्जाणं पई गओ । उज्जाणे उ सव्वत्थ हरियतरुणो पुप्फगुम्मे विविहवण्णे य चित्तपतंगे दट्ठण सो कीडओ अइव आणंदिओ जाओ, तहा तस्स दुक्खं पि जायं जं - 'कत्थ अम्हाण तारिसं मलमलिणे ठाणे कलुसियं जीवणं कत्थ य एएसिं भमराणं सुयंधिपुण्णे ठाणे मणोहरं जीवणं ? नूणमहं मुरुक्खो चेव जो तारिसे असुइठाणे भमरं निमंतियवंतो' । इओ य भमरो सोच्छाहं सव्वं पि उज्जाणसोहं कीडगस्स दरिसेइ, जहा – 'एत्थ जूइ-जाइमालइ-चंपग-पाडल-मचकुंदाईणि विविहवण्ण-सुयंधसोहियाणि पुष्पाणि संति, तत्थ उ नाग-पुन्नागचंपगासोग-बउल-तिलय-अंब-निंबाइणो रुक्खा विलसंति, पुणो तत्थ नाऽइदूरे ठाणे लहुगमेगं तलायं अत्थि जस्स निम्मलजलंमि पउम-कुमुय-कमल-रत्तुप्पलाईणि पंकयपुप्फाई वियसियाई, तेसिं च मज्झे हंसजुवलयाई रमंति । कमलाई दट्ठण कीडओ अईव हरिसनिब्भरो जाओ । तेण चिंतियं – 'कहं विय सुंदराणि एयाणि कमलाणि ! जइ हं एगवारमेव ताइं फरिसेमि तेसिं च सुयंधं अग्घाएमि ता सोहणं, तओ मे जइ जीवियं पि णस्सेज्ज तहा वि न का वि चिंता । भमरो उ आणंदाइरेगेण तं सव्वं पि दरिसेंतो वण्णणं च कुव्वंतो अग्गे पत्थिओ । कीडगो पुण तलायसमीवं गओ । तलायतीरंमि चेव तेणेगं पत्तयं दिटुं, तओ सो सव्वसत्तीए तंमि चडिओ । तं च पत्तयं सणियं सणियं जलंमि वहमाणं कमलस्स पासे समागयं, तओ सो कीडगो कमलमुणालमवलंबिऊण उवरिं चडिओ कमलदलाण मज्झे य गंतृणुवविट्ठो । तओ कमलदलाण सुउमालं फरिसं मयरंदस्स सुरहिगंधं तलायजलनिमित्तं च सीयलयं अणुहवंतो सो तत्थ चेव निद्दावसो जाओ । इओ य भमरो तं अपेच्छंतो चिताउरो जाओ, जहा – 'कत्थ सो गओ? उज्जाणाओ सगिहं गंतुं मग्गं पि न जाणंतो सो जइ कत्थ वि विट्ठो हवेज्ज ता हं किं करिस्सं? ममोवरि विस्संभं काऊण सो एत्थ आगओ, मए उण तस्स संभालणं न कयं !' तओ भमरेण सव्वमवि उज्जाणं तस्सुद्धिकए निरिक्खियं, परं सो कत्थ वि न दिट्टो । ताव य संझाकालो जाओ, सव्वाणि य कमलाणि मउलिउमारद्धाई। कीडगो वि मउलिए एगंमि कमले निद्दापरव्वसो सुत्तो आसि । अओ भमरेण नोवलद्धो । अह बिइए दिणे गोसंमि देवपूयणत्थं बहूणि पुष्पाणि उज्जाणाओ उद्धरिउं देउले नीयाणि, तेसु ९९ Page #109 -------------------------------------------------------------------------- ________________ य पुप्फेसु कीडगजुयं कमलं पि अहेसि । मउलियकमलदलाण मज्झाओ कीडएण देवट्ठाणं दिटुं, घंटानाओ सुओ, दीवमाला निरिक्खिया भगवओ य दरिसणं कयं । एएण सव्वेण तस्स हिययं अहोभावेण भरियं । तेण चिंतियं – 'नूणं एसो पभावो मम मित्तस्स भमरस्स चेव अस्थि जस्स संगेण अहं सग्गतुल्ले उज्जाणे भमिउं कमलदलफरिसणसुहं च अणुहविउं देवउलं पत्तो भगवद्दरिसणं च पाविओ । भमरा ! तए मम जीवियं चेव परावट्टियं' । ताव य पूयाविही समारद्धो । पुप्फेहिं भगवंतं अच्चेंतेण अच्चगेण कमलपुष्पं भगवओ मउडे आरोवियं । तं दट्ठण कीडगेण चिंतियं जं - 'जस्स देवट्ठाणस्स सोवाणाण फरिसं पि काउं न अरिहो हं सो अज्ज देवदंसणं पत्तो, तत्तो वि सोहग्गवसेण देवमत्थए ठाविओ । महुयरा मित्ता ! तुज्झ संगण पेच्छ हं कं अवत्थं पाविओ म्हि ! धण्णो खु तं जो मं नरगाओ उद्धरिऊण एत्थ आणीअ' । अह निच्चकमाणुसारं पहाए सव्वाई पि देवपूयाए पुप्फाई गंगाणदीए पवाहे परिट्ठवियाइं । तत्थ कमलं पि आसि कमलमज्झे य कीडगो वि । तेण धण्णत्तं अणुहवंतेण विचारियं जं - 'अहो ! मे सोहग्गस्स अवही चेव णत्थि ! सव्वहा गरहणिज्जाओ तारिसाओ असुइठाणाओ हं अज्ज परमपवित्तं गंगाणइं पाविओ म्हि मम मित्तस्स भमरस्स पहावेणं । मह जीवियं सव्वहा सहलं जायं । जइ अज्ज वि तस्स मित्तस्स दरिसणं हवेज्ज तो कयण्णुयं दरिसिऊण अंतिममापुच्छणं करेमि ताव' । इओ य भमरो वि सव्वत्थ तं गवेसंतो तलायदिसिं गओ । तत्थ य केणइ कहियं जं - 'कीडगो कमलपुप्फमज्झे सुत्तो आसि, तं च कमलपुष्पं देवपूयत्थं गहियमत्थि' । तत्तो सो सिग्घं चेव देवालयं पत्तो, तत्थ य तं गवेसंतो दिट्ठवंतो जं सव्वाणि पुष्पाणि गंगापवाहे छड्डियाणि त्ति । तओ सो गंगापवाहोवरि उद्दुतो इओ तओ जाव निरिक्खइ ताव कीडगेण सो सच्चविओ। उच्चसरेण तेण कहियं – 'भो महुयरा ! मित्त ! मह तुहदसणस्स चेव अहिलासो आसि, भगवओ किवाए सो वि पूरिओ मे मणोरहो जाओ' । भमरेण कहिअं - 'खमसु मेऽवराहं मित्त !, मह कारणाओ ते एरिसी दसा जाया, किंतु मा चिंतं कुणसु, अहं इण्हि चेव तुह रक्खणत्थं पयत्तं करेमि' । ताहे कीडएण भणियं – 'मित्ता ! पढमं मे कहणं सुणसु ताव - तुम्हारिसस्स सज्जणमित्तस्स संगेणऽहं असुइठाणाओ नियत्तो उज्जाणसरिसे उत्तिमे ठाणे समागओ, तओ कमलपुप्फेणं संगओ हं देउलं पत्तो देवमउडंमि य चडिओ, तत्तो य परमपवित्ताए गंगानईए पुण्णपवाहे पवहिउं सोहग्गं पत्तो । इयाणिं मम न को वि जीवियाहिलासो, केवलं तुह संगेण मह जीवणं पल्लढें तेण तुह उवगारं मण्णेमि मित्ता !....' । भमरेण अंसुपुण्णनयणजुत्तेण कीडयं रक्खिउं बहवे पयत्ता कया किंतु न ते सहला जाया। कीडओ उ आणंदेण कमलपुष्प॑मि ठिओ गंगानईए पवहिओ, भमरो य चिराय तं विलोइअवंतो । १०० Page #110 -------------------------------------------------------------------------- ________________ प्रश्न: लघुकथैषा श्रूयताम्..... जनस्यैकस्य जीवनं विषमयं सञ्जातम् / / आशायाः किरणाणुरपि कुत्रचिन्नैव गोचरो भवति स्म। अतस्तेन चिन्तितं - जीवननाश एवाऽधुना गतिरिति / एतदर्थं च, नगरमध्ये रेलयाननिर्गमनस्थलं गत्वा, रेलयानप्रयाणकाले मध्ये पतित्वा, प्राणनाशः कर्तव्य इति तेन निर्णीतम्। ___ एवं स्थितेऽपि, गृहान्निर्गच्छता तेनाऽन्योऽपि सङ्कल्पः कृतो यत् - मार्गे पुरत आगच्छतां जनानां मध्याद् यद्येकोऽपि जनस्तं दृष्ट्वा ईषदपि स्मितं कुर्यात्, स्मित्वा च तन्मानसे उत्साहं किञ्चित् प्रकटयेत्, तदा मरणयोजनां तत्रैव त्यक्त्वा गृहं प्रतिनिवर्तितव्यम्। ...... तिष्ठत्वेषा कथाऽत्रैव, तस्य च जनस्य का गतिर्जातेत्यपि विस्मियताम् / प्रश्नस्त्वेक एवोत्तिष्ठतेगृहान्निर्गमनानन्तरं तस्य जनस्य मार्गे यदि भवानेव नाम पुरतः समागमिष्यत् तदा ? वदतु, तस्य का गतिरभविष्यत् किल ? किं भवान् तावत् तस्य गृह प्रतिनिवर्तने निमित्तीभूतोऽभविष्यत् खलु ? विचारयतु तावत् !! (गूर्जरमूलं - सुमन्त देसाई) For Private & Personal use only