________________
अहो आश्चर्यम् ! मुनिन्यायरत्नविजयः*
प्राणिगणमध्ये केषाञ्चनाऽतिविशिष्टमाचरणं भवति, यत् श्रुत्वा वयं निश्चितमेवाऽत्यद्भुतमिति वदन्तः शिरांसि धूनयामः । केन कारणेन ते विशिष्टमाचरणं कुर्वन्ति तत्त्वद्याऽवधि न जानीमः, तथाऽपि तद्वार्ताऽपि महती रोचिका इति कृत्वा कथयाम्येकामद्भुतां वार्ताम् ।
मधुमक्षिकाया नाम्ना वयं सर्वेऽपि परिचितचरा एव । ताः त्रिधा विभक्ताः । पुरुषाः, नपुंसकाः, स्त्रियश्च । स्त्री-मधुमक्षिका त्वेकैव भवति । सा तु राज्ञी । पुरुषाः स्तोकाः, ते राजेवाऽऽचरन्ति । नपुंसकास्तु सर्वकालं सेवका एव । सेवैव तेषां जीवनम् । * पू.आ.श्रीसिद्धसूरीश्वरजीसमुदायवर्ती ।
६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org