SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ जगतोऽन्तः प्रलयोऽस्ति प्रलयान्तो जीवोदयः । यज्ञदानादिसर्वान्तो ज्ञानमनन्तमुच्यते ॥५॥ कोऽमर: कोडजरो विश्वे मुनिना पृष्टः सोऽब्रवीत् । य आत्मा स परमात्मा य आत्मज्ञानी सोडमरः ॥६॥ शक्तिमानस्ति को लोके ? स ईश: सर्वशक्तिमान् । यः सविताऽस्य जगतः स भर्ताऽस्ति हर्ता च सः ॥७॥ सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियच नाऽनृतं ब्रूयादीशाप्तौ न व्यथा भवेत् ॥८॥ भक्षयाडल्पं वदेश्वाऽल्पं मिलेश्चाऽल्पं जनान् सदा । स्वपिहि चाऽल्पं लोकेऽस्मिन् ईशभक्तिं सदा कुरु ॥॥ यस्तर्केणाऽनुसन्धत्ते स धर्मं वेद नेतरः । ईश्वरः सर्वभूतेषु, एष धर्मः सनातनः ॥१०॥ धनादिसम्पदां ज्ञानं सर्वश्रेष्ठमुदुच्यते । ज्ञानाच्चाउनेश्वरस्याऽपि प्राप्तिर्भवति निश्चिता ॥११॥ कोऽस्ति कर्ता कोऽस्ति भर्ता संहर्ता जगतश्च कः ? ब्रह्मा कर्ता विष्णुर्भर्ता हर्ता च शिवशङ्करः ॥१२॥ मूर्तित्रयं सदीशस्य ब्रह्मा विष्णुः सदाशिवः । भजते यस्त्रयानेतान् कल्याणं तस्य निश्चितम् ॥१३॥ ऐश्वर्यवैभवाभ्यां च तृप्ति व हि प्राप्यते । सुखं शान्ति च ज्ञानेन सदैव लभते नरः ॥१४॥ ज्ञानादृते च मुक्तिर्न न च मोक्षो जनादिह । प्रोक्ता ज्ञानमेव विद्या सा विद्या या विमुक्तये ॥१५॥ तस्माज्ज्ञानमेव धार्यं हृदये मनसा सदा । ज्ञानेन भगवत्प्राप्तिर्भविष्यति न संशयः ॥१६॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy