________________
Jain Education International
ब्रह्मोपदेश:
डॉ. आचार्यरामकिशोरमिश्रः
अङ्गिरामुनिनेतृत्वे ब्रह्मोवाच गतानृषीन् । दिनस्यान्तोऽस्ति सूर्यास्तो निशान्तो भास्करोदयः ॥१॥
दुःखागमः सुखान्तश्च दुःखान्तश्च सुखोदयः । सङ्ग्रहान्तो विनाशश्च विनाशान्तश्च सङ्ग्रहः ॥२॥
संयोगान्तो वियोगश्च वियोगान्तो द्विमेलनम् । मृत्युश्च जीवनस्यान्तो मरणान्तश्च जीवनम् ॥३॥ अहिंसा चाऽत्र हिंसान्तस्त्वहिंसा च कृपोदयः । सर्वस्याऽन्तोऽस्ति संसारे ज्ञानमनन्तमुच्यते ॥४॥
४
For Private & Personal Use Only
www.jainelibrary.org