________________
(१) वरग्रामः
Jain Education International
भगवत्पार्श्वनाथस्तवः
डॉ. आचार्यरामकिशोरमिश्रः
बड़ागाँव
खेकड़ायां वैरग्रामे पार्श्वनाथस्य मन्दिरम् । तस्य श्रीपार्श्वनाथस्य करोमि मनसा स्तवम् ॥१॥
वन्दे जिनं जगति जैनसमाजपूज्यं, ज्ञानप्रदं च जनताशुभचिन्तकं च । यं जैनदेवमधुना हृदये भजामि । तं पार्श्वनाथमथ साधुवरं नमामि ॥२॥
भाषोपदेशक वराय समत्वदाय, साधारणादिजनशर्मसमीक्षकाय, विप्रादिशूद्रजनतासमताप्रदाय, तस्मै नमो भगवते महते जिनाय ॥३॥
अध्यापका यमवदञ्च कुशाग्रबुद्धिम्, विद्यार्थिजीवनदिनेषु च सन्मतिं तम् । यः साधनासमयकष्टसहस्रभोगी, तं पार्श्वनाथमथ जैनमुनिं नमामि ॥४॥ यः कर्मणा च मनसा च हृदा च वाचा, जीवस्य पीडनविराम इहेत्यहिंसा । तत्पालकं यमथ शर्मकरं स्मरामि, तं पार्श्वनाथमथ जैनमुनिं नमामि ॥५॥ सिद्धो महापुरुष आत्मपरो मुनिर्यः, ज्योतिर्मयश्च जिनराडथ योगिमान्यः । निर्वाणलाभमकरोदिह साधुचितं तं पार्श्वनाथभगवन्तमहं नमामि ॥६॥
३
For Private & Personal Use Only
www.jainelibrary.org