SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकम् आचार्यश्रीविजयनेमिसूरीश्वरशिष्यः प्रवर्तकमुनिश्रीयशोविजयः पञ्चेन्द्रियदमं देव्यं पञ्चज्ञानोपदेशकं पञ्चवर्गविनिर्मुक्तं स्तोष्ये वीरं जिनेश्वरम् ॥१॥ अव विश्वाश्रयो वीर ! शिवावासः सुरेश्वर ! श्रीषूष ! शिष्यशासाय स्वास्य ! श्रिया विलालस ! ॥२॥ श्रीवर: श्रेयसे साररावास्यः स सुरेश्वरः सर्वेषां लालसाहासः शीलशाली शिवावहः ॥३॥ वरैश्चर्येव विश्वस्य सर्वाय सहसा वर । श्रीवीरेशसुरावि उल्लासय शिवश्रियम् ॥४॥ सुरासुरसुसेव्याहिं सूरिं शूररवं वरम् । सरलं सुरवं सस्यं सुरं सेवे ऋषीश्वरम् ॥५॥ यस्येश्वरस्य सारस्य सर्वाशाविलसं यशः । श्रेयःसुरसुवल्ली वः सोऽयं वीर: शिवाय वै ॥६॥ सर्वांहससुसंहारं सर्वावं सुरवेश्वरम् ।। अरुषं संश्रये वीरं शशिलेश्यं वशीश्वरम् ॥७॥ सुरसः सुरवो यस्य वीर: सेव्यः शिवाय वः । स्वेरीशाश्रेयलासाहिः सोवार्यवीर्यशाल्ययम् ॥८॥ सर्वसारं न वीरं सूर्यलासं सुरेश्वरम् । हेयाहेयसुशासेशं संश्रये सावशोऽवशः ॥९॥ इतिश्रीसकलसुरासुरेन्द्ररेन्द्रविवन्द्यपादारविन्दाचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरशिष्यप्रवर्तक यशोविजयविरचितं पञ्चवर्गविनिर्मुक्तं श्रीमहावीराष्टकं समाप्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy