SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अकारान्तप्रथमान्तपदैः श्रीमहावीरस्तोत्रम् आचार्यश्रीविजयनेमिसूरीश्वरशिष्यः प्रवर्तकमुनिश्रीयशोविजयः (उपजातिश्छन्दः) देवरस चिन्तामणि-देववृक्षजैत्रप्रणामश्शमवारिधारः । चामीकरोद्योतशरीरभासः श्रीवीरनाथो भवहानिदोऽस्तु ॥१॥ प्रौढप्रभावो भुवनैकपूज्यः कन्दर्पदापहदेहभासः । संसारकान्तारगतिश्रमघ्नः श्रीवीरनाथो भवहानिदोऽस्तु ॥२॥ कामोन्मदिष्णुद्विपदर्पघातपञ्चाननो विश्वजनप्रपूज्यः । प्रौढप्रतापप्रविराजमानः श्रीवीरनाथो भवहानिदोऽस्तु ॥३॥ मिथ्यात्वरात्रिप्रबलप्रघातसूर्यायमाणः शिवदानशौण्डः । धीरत्वजेयाचलवंशनाथः श्रीवीरनाथो भवहानिदोऽस्तु ॥४॥ दुःखान्धुमग्नाखिललोककाम्य-रज्जूयमाणातुलवाग्विलासः । संसारनीरेश्वरपोतपाद: श्रीवीरनाथो भवहानिदोऽस्तु ॥५॥ सर्वोपसर्गग्रहदोषघातो ध्यातोऽपि संसोढमहोपसर्गः । यश्चित्रचारित्रधरो जिनेन्द्रः श्रीवीरनाथो भवहानिदोऽस्तु ॥६॥ अप्रार्थितार्थप्रदताविलासहीणामरागोऽसमपुण्यदानः । श्रीकेवलालोकविभातलोकः श्रीवीरनाथो भवहानिदोऽस्तु ॥७॥ श्रोत्रामृतास्वादमहाप्रपाभदेवासुरासेव्यवपुःप्रभावः । संसारतर्षापहवाग्विलासः श्रीवीरनाथो भवहानिदोऽस्तु ॥९॥ इतिश्रीश्रमणजनमनश्चमत्कारिचरणकरणचातुरीकाचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरपादपद्मेन्दिन्दिरायमाण विनेयप्रवर्तक यशोविजयविरचितं प्रथमान्तपदकदम्बमयश्रीमहावीराष्टकं समाप्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy