________________
उक्तं सर्वैः विमुखैः चम्पक !
तब न सुहृदो न भवाम ॥ कोऽपि न वदति, कोऽपि न लपति
चम्पक एष उदासः । नैव च क्रीडा, कोऽपि न विहसति
नास्ति कथा-परिहासः ॥ मातुः पाश्र्चे गतः चम्पकः
मात्रा ज्ञातं सर्वम् । चम्पकस्य दोषान् निर्दिश्य
मात्रा कथितं सत्यम् ॥ 'वत्स ! न कलहः कर्तव्यश्च
अनृतं नहि वक्तव्यम् । नैवैकेन यदुक्तं कस्मै
कदापि तत् कथनीयम् ॥ मित्रैः सह सौहार्द कार्य
मिष्टभाषया वाच्यम् । क्रोधः शत्रुः क्रुधा भाषणं
पषं वाक्यं त्याज्यम् ॥ चम्पकेन गत्वा मित्रेभ्यः
क्षमा प्रार्थिता सद्यः । ऋजुतायुक्तां मैत्री तैः सह
कर्तुं गृहीतः शपथः ॥ अधुना सर्वे चम्पकेन सह
स्निग्धतया भाषन्ते । क्रीडामग्नाः सर्वे वृक्षे
हर्षयुताः वर्तन्ते ॥ त्यक्त्वा अनृतं मैत्र्यां नित्यं
पैशुन्यं खलु त्यक्त्वा वदन्तु प्रियवाणी क्रीडन्तु
प्रसलहृदयाः भूत्वा ॥ 8, RajTilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-380058
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org