________________
बालकाव्यम्
कलहप्रिय: चम्पकचटकः डॉ. हर्षदेव माधवः
चम्पकचटकः कलहप्रियोऽस्ति
दिवसे कुरुते निद्राम् । संलापे ब्रूते अनृतं च
___ कुरुते सदैव निन्दाम् ॥ परिहासे क्रुद्धो भूत्वा ननु
परुषं कथयति शीघ्रम् । वक्रो भूत्वा व्यवहारेषु
सदा दुनोति स्वमित्रम् ॥ वीक्ष्य दर्पणे स्वप्रतिबिम्बं
करोति चचप्रहारम् । पिशुनः कथयति किमपि रहस्यं
सुहृदो विना विचारम् ॥ शुको नवीनो मिता सारिका
श्रवणः काकः चपलः । मनीषा नाम कपोती
सन्ध्या काकी भेकः विमल: ॥ सर्वे मिलिताः अहो कीदृशी !
चम्पकस्य दुर्जनता ! अधुना तेन न मैत्री शक्या
तरिमन् नाऽस्ति सुजनता ॥ सर्वैः अधुना कृता प्रतिज्ञाः
संलापो न हि तेन । नैव च क्रीडा, नैव भोजनम् ।
अलं तेन गमनेन ॥ 'इट्टाकिट्टा' वयं त्वया सह
मैत्री नहि करवाम।
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org