________________
आस्वादः
पशु-पक्षिणां स्मरणशक्तिः
मुनिकल्याणकीर्तिविजयः
एकस्य प्रश्नस्योत्तरं केवलमनुमानेन दीयताम् । किञ्चाऽस्य प्रश्नस्य वास्तविकमुत्तरं तु वैज्ञानिका अपि नैव जानन्ति, केवलमनुमिन्वन्त्येव ते । अत उक्तं - केवलं तर्कबलेनैव प्रत्युत्तरयन्तु – सङ्गणकयन्त्रस्य स्मृतेः (Memory) सन्दर्भ मनुष्यमस्तिष्कस्य स्मृतिक्षमता कियत्यस्ति ? अर्थात् मनुष्यस्य स्मरणशक्तिः कियतां मेगाबाइटानां(MB) गिगाबाइटानां(GB) वा सङ्ग्रहं कर्तुं समर्था ? यद्यप्येतादृशं साम्यमत्र कर्तुं सर्वथाऽशक्यमेव, यतः सङ्गणकयन्त्रं तावत् स्वीयस्मृतौ सर्वामपि सामग्री शून्यमेकश्चेत्यङ्कद्वयरूपेणैव सङ्ग्रह्णाति, मस्तिष्कं तु स्मरणसामग्री रासायणिकसङ्केतरूपेण सगृह्णाति । एवं सत्यपि रोबर्ट-बर्जनामकेनाऽमेरिकीयरसायणशास्त्रिणा स्मृतिक्षमतायाः परीक्षणं कृत्वाऽनुमानबलेन निर्धारितं यद् वयस्कस्य सामान्यमनुष्यस्य मस्तिष्कं प्रायः १०००गिगाबाइटमितां स्मरणसामग्री सङ्ग्रहीतुं समर्थमिति, अर्थात् मस्तिष्कस्य क्षमता ०-१ तुल्यानां ८०,००,००,००,००,००० अङ्कानां (नाम तन्मितायाः सामग्रयाः) सङ्ग्रहं यावन्नैव क्षीयते । बहूनां संशोधकानां त्वियं सङ्ख्याऽल्पा प्रतिभाति । मानवमस्तिष्कस्य प्रत्येकं कोषः द्वौ वा त्रीन् वाऽङ्कान् सङ्ग्रहीतुं क्षमोऽस्ति, अतस्तत्क्षमता ३०००गिगाबाइटमिताऽवधारणीयेति । ___अथो भवतु नाम मनुष्यमस्तिष्कस्य सङ्ग्रहक्षमता या काऽपि, अस्माभिरत्र चिन्तनीयो विषयस्तु पशु-पक्षिणां स्मृतिशक्तिमधिकृत्याऽस्ति । अस्माकं प्रश्नोऽप्ययमेवाऽस्ति यत् - मनुष्यस्य स्मृतिशक्तेस्तुलनायां पशु-पक्षिणां स्मृतिः कियती कीदृशी चाऽस्ति ? - इति । अथ च यदा पशु-पक्षिणां स्मृतिविषये विचारयेम तदाऽस्माकं स्मृतौ सर्वप्रथम दृष्टान्तं हस्तिन एवाऽवतरति, यतो हस्तिनः स्मृतिविषये यावत्यः किंवदन्त्यो जनश्रुतयश्च सन्ति तावत्यो न कस्याऽपि पशोः पक्षिणो वा विषये सन्ति । यद्यपि तासु बह्वयोऽवितथैव सन्ति, वैज्ञानिकाश्चाऽपि ता अनुमन्वते, यतः सर्वेषामपि भूचर-सजीवानां मनुष्यसहितानामपेक्षया हस्तिनो मस्तिष्कं बृहत्तममस्ति । आफ्रिकीयहस्तिनो मस्तिष्कं सार्धषट्किलोग्राममितमस्ति एशियाखण्डीयगजस्य च मस्तिष्कं सार्धपञ्चकिलोग्राममितं भवति महत्तमतया । (हस्तिनोऽपेक्षया नैकगुणभारयुतस्य व्हेलमत्स्यस्य मस्तिष्कं केवलं किलोग्रामद्वयमितमेव भवति ।) तथा मस्तिष्केपि यत्र चिरकालीनानि स्मरणानि सगृह्यन्ते स temporal lobes - इत्याख्यो विभागोऽपि गजविषये सुविकसितोऽस्ति । अतः स्मर्तव्यान् शुभाशुभाननुभवान् सामान्योऽपि गजो न मासान् यावदपि तु वर्षाणि यावन्नैव विस्मरति ।
उदाहरणमेकं पश्यामः – जर्मनीदेशस्य ड्रेस्डेननगरस्थे प्राणिसङ्ग्रहालये जम्बोनामाऽऽफ्रिकीयो हस्ती द्वाभ्यां हस्तिनीभ्यां सह संवासित आसीत् । अथैकदा तस्याऽन्त्रे कश्चन रोग उत्पन्नः । ततश्च तेनाऽऽहारग्रहणं स्थगितम् । कर्मचारिभिस्तस्य बहव उपचाराः कृताः परन्तु नैष्फल्यमेवाऽर्जितम् । अन्ततो
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org