SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ गत्वा तैर्म्युनिकनगरस्य निपुणः पशुचिकित्सक आहूतः । तेनाऽप्यागत्य हस्ती परीक्षितस्तस्मै च रोगनाशकमौषधं प्रदत्तम् । किन्तु तेन तन्नैव स्वीकृतम् । अनुभविना चिकित्सकेन निरीक्षणाज्ज्ञातं यत् समीपस्थायै हस्तिन्यै यो भोजनग्रासो दीयते स्म तमयं हस्ती कदाचिद् बलादाच्छिद्य स्वयमेव खादति स्मेति । एतदपि च प्रायः स्वयं भोजनं त्यक्तवति तयोर्भोजनकरणं तस्मै नैव रोचते स्मेति कारणात् । ततश्च चिकित्सकेन सुस्वादौ भोजनकवले तदौषधं निक्षिप्य स कवलो हस्तिन्यै प्रदत्तः । तद् दृष्ट्वा कुपितेन हस्तिना तं कवलमाच्छिद्य स्वमुखे निक्षिप्तः । किन्तु कवलं मुखे निक्षिप्तवतैव तेन चिकित्सककृता वञ्चना ज्ञाता तदौषधस्वादमभिज्ञाय । अतः सोऽतीव क्रुद्धो जातो निकटे स्थितं पाषाणखण्डं च शुण्डया गृहीत्वा चिकित्सकं प्रति प्रक्षिप्तवान् । दिष्ट्या चिकित्सको रक्षितोऽभवत् । किन्तु कुपितस्य हस्तिनस्ताण्डवं चिराय प्रवृत्तम् । वृत्तस्याऽस्य घटनानन्तरं सप्त वर्षाण्यतीतानि । तावता च नैकवारमपि स चिकित्सको ड्रेस्डेननगरे प्राणिसङ्ग्रहालयं गतवान् । तत एकदा स्वीयौ द्वौ पौत्रौ प्राणिसङ्ग्रहालयं दर्शयितुं तत्राऽपि विशेषतो जम्बोहस्तिनः खेलां दर्शयितुं नीतवान् सः । तदानीं तस्य वेषोऽपि बहुभिन्न आसीत्, शिरस्यपि च तेन शिरस्त्रं धारितमासीत्, कालबलाच्च तस्य देहोऽपि किञ्चिदिव परावर्तित आसीत् । सहैव सपौत्रः स सार्धशतमनुष्याणां समूहे स्थित आसीत् । एवं सत्यपि जम्बोहस्ती तं क्षणार्धेनैव प्रत्यभिज्ञातवान् तमाक्रान्तुं चाऽभिधावितवान् | वर्षसप्तकपूर्वं जातमनुभवमितोऽपि जम्बो नैव विस्मृतवानासीत् नाऽपि च तस्मिन्ननुभवे तेन सह कपटाचरणं कृतवन्तं चिकित्सकम् । एतादृश्या दृढायाः स्मरणशक्तेः कुप्रभावं बहुभ्यो वर्षेभ्यो युगाण्डादेशीया जना सम्यक्तयाऽनुभवन्तः सन्ति । तत्र हि देशे बहव आखेटका हस्तिनां दन्तयोः प्राप्त्यर्थं निर्मर्यादतया हस्तिनो घ्नन्ति । यूथमध्ये स्थितः कश्चन करी यदा समेषामपि यूथीयानां समक्षमेव हन्येत तदा ते करिणः कदाऽपि तामाघातजनिकां घटनां नैव विस्मरेयुः । हस्तिनो न कदाऽपि विस्मरन्ति नाऽपि क्षमन्ते ( Elephants never forget and cannot forgive) इत्युक्त्यनुसारं ते रात्रौ मनुष्याणां ग्रामाणि गत्वा गृहाणि क्षेत्रादिकं च सर्वमपि समाक्रम्य विनाशयन्ति, ये केऽपि च मनुष्यास्तन्मध्ये दृश्यन्ते तानपि निर्दयं घ्नन्ति । आफ्रिकीयवन्यजीवनाभ्यासकाः कथयन्ति यन्नैते हस्तिन एतत् सर्वमाहारार्थं कुर्वन्त्यपि तु मनुष्याणां धृष्टताया: प्रतीकारार्थमेव कुर्वन्ति । - इदमिदानीमेव संशोधकानां दृष्टिपथे हस्तिनां स्मृतिविषये नूतनमेकं वृत्तं समागतमस्ति । I आफ्रिकीये देशे बोट्सवानानामनि सावुतीचेनलाभिधा प्रणाली (canal) विद्यते । त्रिंशतो वर्षेभ्यः पूर्वं साऽत्यन्तं जलसमृद्धाऽऽसीत्, हस्तिसहितानां नैक पशु-पक्षिणां कृते सा विश्रान्तिदायिन्याश्रयस्थानं चाऽऽसीत् । अथाऽकस्मात् केनचिदज्ञातेन कारणेन तत्र स्थितं जलं शनैः शनैर्हीयमानं जातम्, अल्पेनैव च कालेन सा सर्वथा निर्जला जाता । ततश्च हस्तिनोऽन्ये च प्राणिनस्तत्राऽऽगमनान्निवृत्ता अभवन् । अधुना किल त्रिंशद्वर्षानन्तरं पुनरपि केनचित् कारणेन सा प्रणाली पुनरपि जलसमृद्धा जाताऽस्ति । भूस्तरशास्त्रिणामनुसारं भूगर्भे जातानां केषाञ्चिद् भूस्तरीयपरिवर्तनानां कारणादेवं जातमस्ति । भवतु तत्, Jain Education International २६ For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy