________________
किन्तु दूरवर्तिप्रदेशेषु वसतां हस्तिनामपि प्रणाल्या जलसमृद्धत्वस्य समाचारः प्राप्तः स्यादितीव नैके हस्तिनो विभिन्नेभ्यः प्रदेशेभ्यः शतशः किलोमीटराणां प्रवासं कृत्वा तत्र समागताः सन्ति । एष च प्रवासस्तैः कुत्राऽपि मार्गभ्रंशमप्राप्य निर्विघ्नतया कथं कृतः खलु ? यदि स्मृतौ सावुतीप्रणाल्या मानचित्र(map)मङ्कितं स्यात् तदैवैतत् सम्भवेत् किल !
आश्चर्यं त्वेतद् यत् प्रायो वर्षाणां सार्धद्वयदशकादारभ्य न कोऽपि हस्ती तत्र प्रणाल्यां समागतचरः। एवं स्थितेऽपि तेषां स्मृतिपटे एतन्मानचित्रमक्षुण्णं वर्तते । एतदेव दर्शयति यद् - जननानन्तरं हस्ती यमपि प्रदेशं गच्छति तस्य मानचित्रं तत्स्मृतिपटेऽङ्कितं भवति, यावज्जीवं च तत् स नैव विस्मरति ।
परमत्र प्रश्नस्त्वेष एव यत् त्रिंशद्वर्षानन्तरं प्रणाल्यां जलं समागतमिति तु हस्तिभिः कथं ज्ञातं किल ? एतदुत्तरं ज्ञातुमस्माभिः प्रतीक्षा कर्तव्या, संशोधनं प्रवर्तमानमस्ति ।
हस्तिनामेतादृशस्याऽऽचरणस्याऽयमेव भावार्थो यत् तन्मस्तिष्कं त्रिधा सामर्थ्यं धारयति, यथा - १. यं कमपि जातमनुभवं स्मृतिस्थं कर्तुं तत् समर्थम् । २. धारणास्वरूपेण तेऽनुभवास्तत्राऽवस्थिता भवन्ति । ३. यदा कदाऽपि च समये हस्ती ताननुभवान् पुनरुद्बोधयितुं समर्थोऽस्ति ।
एवं च हस्तिनस्तीवां स्मरणशक्तिमाश्रित्य नैके उदाहरणाः प्राप्यन्ते, किन्तु, इतोऽन्येऽपि बहवः पशु-पक्षिणः सन्ति येषां स्मृतिरनन्यसाधारणतया तीव्रा सत्यपि बहुप्रसिद्धिं नैव प्राप्तवत्यस्ति । इतः पादोनशतवर्षेभ्यः पूर्वमपि प्रकृतिविद एतदपि सम्यक्तया न जानन्ति स्म यन्मनुष्येतराणां सजीवानां मस्तिष्के स्मरणक्षमता विद्यते न वेति । ततः १९३५ तमे वर्षे ओस्ट्रियादेशीयेन विश्रुतेन जीवविज्ञानिना कोनराडलोरेन्सेनैदम्प्राथम्येनैतद्दिशि रसप्रदं संशोधनं समारब्धम् । विविधान् प्रयोगान् कृत्वा तेन दर्शितं यज्जन्मकाले पक्षिशावकानां मस्तिष्कमरञ्जितपटवत् सर्वथा स्वच्छं भवति, प्रथमापाते तस्मिन् यदपि स्मरणमब्यते तच्चिराय तत्राऽवस्थितं भवति । अयं च स्मरणप्रकारस्तेन विज्ञानिना मुद्राङ्कन(imprinting)रूपेण वणितः । लोरेन्सेन स्वीयाः प्रयोगा हंसशावकोपरि कृताः ।
तेन दृष्टं यद् - यदाऽण्डकवचं भित्त्वा शावको बहिरागच्छति तदा सामान्यतया स यत्किमपि गतिमद् वस्तु सचेतनं वा पश्यति तस्याऽऽकारं स्वीये मस्तिष्केऽङ्कयति, ततश्च तं स्वमातरं मत्वा स सदाऽपि तमेवाऽनुसरति । स्वीयप्रयोगकरणकाले बहुशः स स्वयमेव परिपक्वानामण्डानां समक्षमुपस्थितो भवति स्म, येन यदाऽण्डकवचं भित्त्वा शावका बहिरागच्छेयुस्तदा सर्वप्रथमतया ते तमेव पश्येयुः । यदा चैवं भवति स्म तदा ते शावकास्तमेव स्वीयं मातरं मत्वा तमेवाऽनुसरन्ति स्म । अथैकदा लोरेन्सो हंस्याः काष्ठमयीमाकृतिं तत्रोल्लम्बितवान् तन्तुसाहाय्येन च गतिमती तां कृतवान् । ततश्च यदा शावका अण्डेभ्यो विनिर्गतास्तदा ते तामाकृतिं दृष्ट्वा तामेवाऽन्वसरन्त । लोरेन्सेनैतदपि निरीक्षितं यदेतेषां शावकानां स्मृतिपटे यदिदं प्रथममङ्कनं भवति तदतीव चिरस्थायि भवति, तच्च नह्यल्पकालेनाऽपगच्छति ।
एवं च लोरेन्सस्य प्रयोगैमनुष्येतरजीवेष्वपि स्मरणशक्तेः सत्त्वं प्रमाणितं जातमैदम्प्राथम्येन । अङ्कनं भवतीत्येव ज्ञापयति यज्जन्मकालीनोऽनुभवो मस्तिष्कस्य कस्मिंश्चित् कोणेऽवस्थितोऽस्तीति, तन्नाम च
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org