________________
मस्तिष्केऽनुभवं स्मृतिस्थं कर्तुं सामर्थ्यमस्तीति - अर्थात् पशु-पक्षिणामपि स्मरणशक्तिरस्त्येवेति । एतस्मिंश्च प्रमाणिते जातेऽन्यः प्रश्न उत्थितः संशोधकानां समक्षं यत् - पक्षिणां मस्तिष्केऽनुभवाङ्कनस्येयं प्रक्रिया केन हेतुना प्रवेशिता प्रकृत्या ? एतस्य तार्किकमुत्तरं चिन्त्यते चेत्तर्हि ज्ञायते यत् - स्पर्धापूर्णायां वन्यसृष्टौ पदे पदे मरणभीतौ सत्यां स्वस्य रक्षणार्थमवस्थानार्थं ( survival) च शावकेन स्वीयमातुः सान्निध्य एवोषितव्यं, वियोगे तु मरणमेव स्यादतो जननान्तरमेव शावकस्य मस्तिष्के मातुराकारस्य मुद्राङ्कनं भवति यच्चाऽदृश्यरूपेण तस्य स्वीयमात्रा सह बन्धनं रचयति । अस्य बन्धनस्य च वशंवदः स शावकः सततं मातरमेवाऽनुसरन् तत्सान्निध्य एव वसति न किन्तु यत्र कुत्राऽपि गच्छति ।
एवं च स्मृतिपटे जातमिदं मुद्राङ्कनं शावकस्य कृते एका दृढा रक्षणव्यवस्था सिद्धा भवति । मुख्यतया च हंससदृशानां पक्षिणां विषये इयं व्यवस्थाऽतीव महत्त्वपूर्णा भवेद्यतस्तेषां पक्षिणां प्रायः सप्ताष्टाः शावकास्तु भवन्त्येव, तथाऽऽखेटकाः प्राणिनस्तान् दृष्टमात्रानेव हन्तुं प्रयतन्ते, किन्तु यदा ते स्वीयमातुः सान्निध्ये भवन्ति तदाऽऽखेटकादीनां भयं सर्वथाऽल्पीभवति । ततश्च बहूनां मासानामनन्तरं यदा वयस्कस्य शावकस्य स्वमात्रा सह सम्पर्क आकस्मिकतया सर्वथा च विच्छिन्नो भवेत् तदैव तन्मुद्राङ्कनं शनैः शनैरपमृज्यते तत्स्थाने च वन्यजीवनस्य विविधा अनुभवाः स्मरणस्था भवन्ति ये च तस्य पक्षिणो जीवनं रक्षितुं सहायका भवन्ति । एतादृशामनुभवानां साहाय्येन स पक्षी स्वीयं वर्तनं तथा परिवर्त्तयति यथा तस्याऽवस्थानस्य (survival) अवसरा अवकाशाश्चाऽधिका भवन्ति ।
स्मरणशक्तेः प्राबल्यस्याऽन्यदुदाहरणं चाष (Jay) पक्षिणोऽस्ति । स्वस्याऽऽहारार्थं बहूनि भक्ष्यवस्तूनि वृक्षकोटरेषु भृगूनामधस्तात् शुषिरेषु, पाषाणानां च रन्ध्रेषु भविष्यत्कृते गोपायति स: । यदा चाऽऽहारसङ्कटं भवति तदा स क्रमश एकैकं स्थानं गत्वा सञ्चितमाहारं निष्कास्योदरसात् करोति ।
एतेषां चाषाणां वर्षषट्कं यावदभ्यासार्थं निरीक्षणं कुर्वाणेन निकोला - क्लेटनाभिधेन जीवविज्ञानिनाऽवलोकनकाले लक्षितं यत् चाषेण सञ्चितो गोपितश्च सर्वोऽप्याहारो रक्षितो नैव तिष्ठति । चौर्यस्य कैतवस्य च बहवः प्रसङ्गा भवन्त्येव तच्छत्रुकृता यदा कदाऽपि । कस्मिन् स्थाने गोपितं भक्ष्यं चोरितमिति तु कदाचित् चाषो द्वित्रमासानन्तरमेव ज्ञातुं प्रभवति । नूतनाहारगोपनकालस्तु ततोऽपि द्वित्रमासानन्तरमुपतिष्ठति । अरण्ये च तस्य गोपनस्थानान्यपि प्रायो शतद्वयादप्यधिकानि भवन्ति । एवं स्थितेऽपि पञ्चषमासेभ्यः पूर्वं कतमात् स्थानादाहारश्चोरितो जात इति तु सम्यक् स्मृत्वा स पक्षी पुनरपि तस्मिन् स्थाने आहारगोपनं नैव करोति । एकवारं वञ्चितो विप्रलब्धश्च स पुनरपि तादृशं स्खलनं नैव करोति । स नूतनानि स्थानान्यन्विष्य तेषामभिज्ञानं स्वीये स्मृतिपुटे सङ्गृह्णाति । एवं च प्रतिवर्षं स्थानानि परावर्त्यन्त एव, तानि च शतशो भवन्ति । किन्तु चाषः सर्वाण्यपि तानि पुराणानि नूतनानि च स्मरत्येव । तत्र नूतनानि तावत् तत्राऽऽहारो गोपितोऽस्तीत्यतः, पुराणानि तु तत्र कदाऽप्याहारसञ्चयः भविष्यत्यपि न कर्तव्य इति !
-
Jain Education International
-
एतादृश्येव कदाचिच्चेतोऽप्यधिका स्मरणशक्तिः प्राणिजगति बहूनां जीविनां भवति । तदुदाहरणानि त्वागामिन्यां शाखायां चर्चयिष्यामः ।
( आधार : गूर्जरभाषीयं विज्ञानसामयिकं सफारी)
*
२८
For Private & Personal Use Only
www.jainelibrary.org