________________
आस्वादः
निद्रा
मुनिकल्याणकीर्तिविजयः
अस्मिन् जगति विद्यमानानां प्रत्येकं जीवानां सामान्यं साधारणं च सुखं किं नाम ? - इति प्रश्नस्यैकेनैव शब्देनोत्तरं दातव्यमिति यदि कथ्येत तदा तदुत्तरमस्ति - निद्रा । आबाल-वृद्धानां समेषामप्ययमनुभवोऽस्ति यत् - श्रमानन्तरं, भोजनानन्तरं, पठनानन्तरं यावद् दुःखानुभवानन्तरमपि सर्वेषां निद्रव शरणं भवति । निद्रायाश्च समाश्रयणेन सर्वोऽपि श्रमः, सर्वोऽप्यायासः, यावत् सर्वमपि दुःखं विस्मर्यते, प्राणी च नितरां सुखानुभवलीनो भवत्यानिद्राकालम् । एवं च सर्वेषामपि प्राणिनां साधारणं सुखमस्ति निद्रा, निद्रात्यागानन्तरं तु भवतु नाम दुःखं वा शोको वा । एनमेवाऽर्थं मनसि निधाय गूर्जरादिभाषासु किञ्चनाऽऽभाणकमप्यस्ति यथा
"सूतां त्यारे समाधि, जाग्या त्यारथी उपाधि-"
(सुप्तावेव समाधिः, जागरणे तूपाधिः !!) कर्मशास्त्रेषु तु यद्यपि निद्रा दर्शनावरणकर्मणो भेदतया प्रतिपाद्यते, यतो निद्रया जीवस्य दर्शनशक्तिरावियते; तथा निद्रारतो जीवो जागृतिहीनो भवति, अजागृतस्य च कुतः पुण्यसम्भव इति निद्रा पापकर्मतयाऽपि परिगण्यते । एवं सत्यपि निद्राया अवगणना कर्तुं न शक्यते, यतः कैवल्यप्राप्तेरुपान्त्यसमय एव सा क्षयं याति । ततश्च यथाशक्यं तां निगृह्य, सत्कृत्य च साधको जेतुं प्रयतते, जागृतो भवितुं चाऽऽरभते ।
२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org