SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ यद्यपि निद्रा सर्वथा दुर्जयाऽस्ति, सम्पूर्णतया जागरणरत एव साधकः कदाचित् तां जयति, अन्ये तु तां जेतुं प्रयतमानाः कदा तया जिता भवन्ति तदपि नैव ज्ञायते । अतो योगाभ्यासारम्भकानां कृते ऐदम्प्राथम्येन गुरूणामियमेव शिक्षा भवति यद् – यदि सम्यक्तया योगाभ्यासं कर्तुमिच्छुकास्तहि सम्यगाहारं सम्यविहारं सम्यनिद्रां चाऽऽद्रियध्वमन्यथा यदा कदाऽपि योगाभ्यासभ्रष्टा भविष्यथ । एवमेव त्यागिवृन्देष्वपि एतादृश्येव हितशिक्षा दीयमाना श्रूयते यद् - आहारो निद्रा च यथा यथा वय॑ते तथा तथा वृद्धिङ्गतौ भवतः, यथा यथा च न्यूनीक्रियेते तथा तथाऽपचिनुतः - इति । अथ च साधकानां लाभार्थं निद्रां विषयीकृत्य महापुरुषेण विनोबाभावे-इत्यनेन केचन विचाराः प्रस्तुताः सन्ति तेऽत्र समुल्लिख्यन्ते - यद्यपि निद्रा प्रमादोऽस्ति तथाऽपि यदि लाभालाभदृष्ट्या चिन्त्यते तदा निद्रैका सर्वथाऽऽवश्यकी परिस्थितिरस्ति । निर्दोषा गाढा च निद्राऽतीव पवित्राऽस्ति । साधूनां सत्पुरुषाणां च निद्राऽपि कश्चनोत्तमो योगाभ्यास एव । तेषामिव शान्तां गाढां च निद्रां कश्चन भाग्यशाल्येव प्राप्नोति । गाढनिद्रातुल्या न काऽपि भगवत्प्रार्थना, वस्तुतस्तु च गाढनिद्रैव समाधिरस्ति योगग्रन्थवणिता । निद्रां त्यक्त्वा यदि कश्चन भगवत्प्रार्थना कर्तुमिच्छति तर्हि न तदुचितं, यतस्तथा कुर्वतस्तस्य निद्रा प्रार्थना चेति द्वयमपि विनश्यति । अपि च भगवांस्त्वस्ति जननीतुल्यः, स तु न कदाऽपीच्छति यत् तस्य भक्तो निद्रां त्यक्त्वा प्रार्थनां कुर्यादिति । किञ्च, निद्राया महत्ता केवलं दैर्येण न स्वीक्रियतेऽपि तु स्तोकाऽपि सा यदि गाढा गभीरा चाऽस्ति तदाऽतीव महत्त्वपूर्णा फलप्रदा च । एकाग्रेण मनसा कृतं मुहूर्तमात्रमप्यध्ययनं चाञ्चल्येन कृतात् प्रहरमितादध्ययनादपि प्रभूतं फलं यथा प्रदत्ते तथैव निद्राविषयेऽपि तत् सत्यमस्ति । स्वस्थनिद्रायास्त्रीणि लक्षणानि सन्ति - उत्साहवृद्धिः, विकारशमनं, ज्ञानपरितोषश्च । एतत्प्राप्तये च गाढा निःस्वप्ना च निद्राऽऽवश्यकी । तत्कृते च आदिनं यदपि क्रियेत तत् तथा कर्तव्यं यथा तद् न निद्रां वा प्रभावितं कुर्यात् न वा स्वप्नस्य च कारणं भवेत् । यस्मिन् विषयेऽस्माकमासक्तिरप्रीतिर्वाऽस्ति तद्विषयका एव स्वप्नाः प्रायशो भवन्ति, अर्थाद् रागविषयका द्वेषविषयका वैव स्वप्नाः दृश्यन्ते । अतः सावधानतया तथा वर्तितव्यं यथा जागृतावेवाऽल्पाल्पौ राग-द्वेषौ स्यातां, तथा याऽपि क्रिया स्वप्नं प्रभावयेत् सा क्रिया झटित्येव स्थगनीया । मम मतेन तु स्वप्नदर्शनमेवाऽयोग्यमस्ति । अतो यदि भगवान् स्वयमेवाऽपि स्वप्ने समागत्याऽस्माकं किञ्चन सूचनं दद्यात् तदा भगवते निवेदनीयं यद् यदि परं जागृतावेव सर्वसमक्षं सूचनीयोऽहं, न पुनश्चौर्येणैवं स्वप्नेषु-इति । मम स्वकीयोऽनुभवोऽस्ति यद् गाढया स्वप्नरहितया निर्दोषया च निद्रया विचाराणां यादृग् विकासो भवति तादृक् तु निर्विकल्पसमाधिनैव यदि परं भवति नाऽन्यया कयाचिदपि परिस्थित्या । शयनात् पूर्वं सर्वोत्तमा विचाराः कर्तव्या येन चिन्तने तेषां बीजान्युप्येरन्, ततो गाढनिद्रारूपया मृत्तिकया तान्याच्छाद्येरन्, तदा तेषां बीजानामत्युत्तमो विकासो भविष्यति । ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy