________________
३. मलधारि-आचार्यश्रीनरचन्द्रसूरिविरचितः प्राकृतप्रबोधः - कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितस्य सिद्धहेमशब्दानुशासनस्याऽष्टमाध्याये प्राकृतव्याकरणेत्यपरनाम्नि प्रयुक्तानामुदाहरण-प्रत्युदाहरणानां रूपसिद्ध्यर्थं सुगमप्रक्रियां निरूपयन्नयं ग्रन्थो वैक्रमीये त्रयोदशे शतके ग्रथितोऽस्ति महामात्यश्रीवस्तुपालगुरुभिराचार्यश्रीनरचन्द्रसूरिभिः । स चैकस्यास्तालपत्रीयहस्तलिखितप्रतेश्चतसृणां च कर्मदीयहस्तलिखितप्रतीनामवलम्बनेन सपरिश्रमं संशोध्य सम्पाद्य च प्रकाशितोऽस्ति । अस्याऽध्ययनेन प्राकृतव्याकरणस्थाः प्रयोगाः सरलतयाऽवबुध्यन्ते प्राकृतभाषाणां च विशदो बोधो भवति ।
ग्रन्थसम्पादिका सा.श्रीदीप्तिप्रज्ञाश्रीः पृष्ठसंख्या १४+२५८ (डबलडेमी) मूल्यम् २५०/- रूप्यकाणि
४. कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्य गद्यात्मकसारोद्धारः - पूज्याचार्यश्रीविजयशुभङ्करसूरिभिः प्रायः ३६०००श्लोकप्रमितस्य त्रिषष्टिशलाकापुरुषचरितमहाकाव्यस्य महाकाव्यप्रौढिसमलङ्कतं पद्यात्मकं स्वरूपं सारल्योत्सुकानामभ्यासिनां कृतेऽत्र ग्रन्थे गद्यात्मकतया वर्णनादिबाहुल्यरहिततया च समासेन विरचितमस्ति । सहैव परिशिष्टपर्वमप्यनयैव रीत्या सङ्क्षिप्य निर्मितमस्ति । समग्रोऽप्ययं गद्यात्मकः सारोद्धारः प्रायः पञ्चाशद्वर्षेभ्यः पूर्वं मुद्रितचर एवाऽऽसीत्, किन्तु साम्प्रतकालेऽलभ्यं तत् प्रकाशनम् । अतः सप्तसु विभागेष्वाधुनिकशैल्या पुनः सम्पाद्य प्रकाशितोऽयं ग्रन्थः संस्कृताभ्यासिनां जैनधर्मस्य जिनादिमहापुरुषचरितादेश्च जिज्ञासूनां कृतेऽत्यन्तमुपकारकोऽस्ति ।
ग्रन्थकर्ता आचार्यश्रीविजयशुभङ्करसूरिः ग्रन्थसम्पादकः मुनिधर्मकीर्तिविजयः पृष्ठसंख्या १५०० प्रायः (सप्तानामपि विभागानाम्) (डेमी)
मूल्यम् ७००/- रूप्यकाणि (सप्तानामपि विभागानाम्) चतुर्णामपि ग्रन्थानां - प्रकाशकः कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यनवमजन्मशताब्दीस्मृतिसंस्कारशिक्षणनिधिः,
अमदावादनगरम् प्राप्तिस्थानम् १. श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मन्दिर २. सरस्वती पुस्तक भण्डार
१२, भगतबाग, नवा शारदा मन्दिर रोड, ११२, हाथीखाना, रतनपोळ, पालडी, अमदावाद-३८०००७
अमदावाद-३८०००१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org