________________
विचारणम्
धारास्थ - वाग्देवीमूर्तिमधिकृत्य
प्रा. अभिराजराजेन्द्रमिश्रः
नन्दनवनकल्पतरोर्विगतेऽङ्के वाग्देवीमूर्तिविषयिणी काऽपि चर्चा कृताऽऽसीत् । तद्विषये सत्यं किमपि
प्रस्तूयते ।
याऽऽकृतिस्तत्र पत्रिकायाः सम्मुखीने आवरणपृष्ठे मुद्रिता, सा वाग्देव्या धारस्थित भोजशालाया मूर्तिर्नैवाऽस्ति । यतो हि खण्डितहस्ताऽसौ मूर्तिः साम्प्रतमपि लन्दनस्थिते 'इण्डिया ऑफिस लाइब्रेरी' नाम्नि भवने तिष्ठति । तस्याः मूर्तेश्चरणान्तिके स्वहस्ताक्षरोऽयं भोजदेवस्येत्यपि समुट्टङ्कितं वर्तते ।
इमां मूर्तिं प्रत्यक्षमक्षिलक्ष्यीचकार सर्वप्रथमं प्रो. वेङ्कटराघवन्महोदयः मद्रासविश्वविद्यालयीयविपश्चितल्लजः । शृङ्गारप्रकाशं भोजदेवोपज्ञमधिकृत्य तेन शोधकार्यं कृतमासीत् । तदध्ययनसन्दर्भ एवाऽसौ तत्र गतवानासीत् । तत्रैव तेन वाग्देवीप्रतिमाविषयेऽपि श्रुतमथ च तस्याः फोटोचित्रमिदम्प्रथमतया स्वदेशे आनीतम् । वेङ्कटराघवानीतेन वाग्देवीचित्रेणैव तेन भारते तस्याश्चित्राकृतेद्द्रुतगत्या प्रचारः प्रसारश्चाऽप्यभूत्। सम्प्रति सुब्रह्मण्यस्वाम्यपि तत्सन्दर्भे प्रयतत इति वरम् ।
मया प्रत्यक्षमेव चतुरशीतिस्तम्भसंवलितायां भोजशालायां शारदासद्मेतिनाम्ना विख्यातायां तत् स्थानद्वयं दृष्टं भोजसमारोहावसरे, यत्रैकस्मिन् मण्डपे वाग्देव्या भोजार्चितायाः सा मूर्तिरासीत्, अपरस्मिश्च मालवेश्वरस्य सिंहासनं प्रतिष्ठितमासीत् । तत्समक्षमेव राजसभाकवयः ( धनपाल - परिमल -छित्तप-योगेश्वरकमलायुधाद्याः) समुपविशन्ति स्म । तत्सर्वं तस्मिन् भवनेऽद्यापि यथावद्राजते ।
हा हन्त ! सम्प्रति केवलं न तत्र सा मूर्तिर्न भोजासनम् । हृदयहीनैर्निर्मर्यादैस्तुरुष्काक्रमणकारिभिमूर्तिर्भञ्जिता । शारदासद्मनाम्नी भोजसभा चाऽपि मस्जिदीकृता । मूर्तिमण्डपं सिंहासनमण्डपं च परितो विशालाक्षरैः कुरानायतयस्तैरुट्टङ्किताः । सर्वा अपि भोजग्रन्थाः शिलाटङ्कितास्तत्रैव कुट्टिमे स्थापिताः । सततागमनागमनं कृतवतां जनानां पादघर्षणेन सर्वेऽपि ते ग्रन्थाः सम्प्रत्यवाच्यतां गताः ।
भोजशाला सम्प्रति मस्जिदीकृता । यद्यपि तत्र नित्यं प्रातः सायं 'नमाज' न प्रस्तूयते । तथाऽपि हिन्दवस्तत्र केवलं दर्शनार्थमनुमन्यन्ते ।
१९१०मितख्रिस्ताब्दे यदा लॉर्ड कैनिंगमहोदयः भोजशालापरिसरस्य सम्मार्जनं कारयन्नासीत् तदा भोजाधीश्वर्या वाग्देव्या इयं रमणीया मूर्तिः भवनस्य पृष्ठभागे निपातिता प्रक्षिप्ता वा तेन प्राप्ता । भोजदेवस्य हस्ताक्षरवशादेव सा मूर्तिरनायासं प्रत्यभिज्ञाता । नृशंसप्रक्षेपवशादेको बाहुर्वाग्देव्यास्त्रुटित आसीत् ।
Jain Education International
५२
For Private & Personal Use Only
www.jainelibrary.org