SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ संस्कृतिप्रियः कैनिंगमहोदयो विलक्षणामिमामैतिहासिकी मूर्ति सयलं लन्दनं प्रेषितवान् । तत एव वाग्देवी भोजदेवस्य तत्रैव विश्राम्यति । तस्मिन्नेव सभामण्डपे भोजप्रशंसापरं गीतं गायता मया भावनोद्रेकवशात् अकस्मादेव रुदितमासीत् ।२ तत्कालीनो मध्यप्रदेशशिक्षामन्त्री श्रीविक्रमवर्मा मामश्रुकातरं दृष्ट्वा स्वयमपि वेदनातॊ जातः । तत्सर्वं मया स्वोपज्ञे शतके धारामाण्डवीये सविस्तरं वर्णितम् । भारतसर्वकारस्य दायित्वमिदं यदसौ तां मूर्ति यथाशीघ्रं लन्दनादिह समानयेत् राष्ट्रगौरवरक्षार्थम् । एवमुच्यते यद् दिल्लीतो दौलताबादं गच्छन् मुहम्मदबिनतुगलको मध्येमागं धारं लुण्टितवान् । तेनैव भोजशाला मस्जिदीकृता, शारदामूर्तिश्च मण्डपादपनीय भवनपृष्ठे प्रक्षिप्ता । न खलु सा कदाऽपि गुर्जरराज्ये गता । अस्माकं मित्रवर्याणां कवितल्लजानां तदानीन्तनमध्यप्रदेशसंस्कृताकादमीसचिवानां दूर्वासम्पादकानामस्मद्दौर्भाग्यादिदानीं कीर्तिशेषाणां श्रीमतां डॉ. भास्कराचार्यत्रिपाठिवर्याणामहर्निशप्रयत्नवशात् प्रथमभोजसमारोहः धारनगरे खैस्ते १९९१तमवर्षे समायोजितोऽभूत् । सर्वेऽपि कार्यकमा अन्यत्र सम्पादिताः । परन्तु एका विशिष्टा कविगोष्ठी जिलाधीशानुमत्या भोजशालायामेव समायोजिताऽभूत् वाग्देवीमण्डपसमक्षं, यस्याश्चर्चा मया प्राक्कृता । । तस्याः विशुद्धसारस्वतघटनाया अन्यथा दुष्प्रचारोऽखिलेऽपि नगरे मुस्लिमसमाजे कृतोऽसहिष्णुभिः पाखण्डिभिः कैश्चन । ते च जिलाधीशविरोधे शासनं जुह्वाञ्चक्रुः । वराकस्सोऽपि सङ्कटापन्नो जातः । मस्जिदे हिन्दूनामुत्सवः कथमनुमत इति दुष्प्रचारस्याऽऽशय आसीत् । अग्रिमे वर्षेऽपि भोजोत्सवोऽभूद् धारनगरे । परन्तु भोजशालाद्वारमस्माकं दर्शनार्थमपि नाऽपावृतम् । तृतीये वर्षे भोजोत्सवायोजनमेव निरुद्धम् । तद् विजयतां मूषिकभीरु भारतशासनं विजयताञ्चाऽद्याऽपि बर्बरसिंहः परधर्मो भयावहः !! १. यज्ञस्थानादवाच्यां दिशि विततशतस्तम्भशीर्षेः षडूनै निव्यूढाऽसौ समासीद्रससदननिभा शारदासद्मनाम्नी । यत्रोत्तुङ्गे गवाक्षे विविधमणिमये काव्यसीम्नां विधात्री वाग्देवी राजते स्म स्मितमसृणमुखी सम्मुखीना कवीनाम् ॥ धारा० ३२ कण्ठे स्तम्भं नियम्य प्रलपननिकषं नेत्रयोरिधारां गाने स्वेदं प्रकम्पं मनसि विचलनं भावशाबल्यशल्यम् । मध्येशालं निषण्णः ललितगुणगणं तेऽद्य गायामि राजन् ! संस्मृत्याऽऽत्र्तो विषण्णो भवति कृतमति: कान्दिशीकः कथञ्चित् ॥ धारा० ८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy