________________
नूतनग्रन्थपरिचय:
__ ग्रन्थचतुष्टयी पूज्याचार्यवर्यश्रीविजयसूर्योदयसूरीश्वराणां तथा पूज्याचार्यवर्यश्रीविजयशीलचन्द्रसूरीश्वराणां प्रेरणया स्थापितेन कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्मृति-संस्थानेन प्रकाशिता आचार्यवर्यश्रीविजयशीलचन्द्रसूरिभिस्तच्छिष्यैश्च संशोधनपूर्वकं सम्पादिताश्चत्वारो नूतनग्रन्था अनतिचिरादेव लोकार्पणं प्राप्ताः । तेषां परिचयोऽत्र प्रस्तुतोऽस्ति -
१. कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितमहाकाव्यस्य दशमं पर्व- आचार्यश्रीविजयशीलचन्द्रसूरिभिस्तिसृणां तालपत्रीयहस्तलिखितप्रतीनामेकस्याश्च कर्मदीयहस्तलिखितप्रतेरुपयोगेन संशोधनपूर्वकं सम्पाद्य समीक्षितवाचनारूपेणेदं प्रकाशितमस्ति । ग्रन्थेऽत्र चतुर्विंशतीर्थकृतां श्रीमन्महावीरस्वामिनां तच्छिष्याणां तच्छ्रावकादीनां च विशदं चरितं निरूपितमस्ति । ग्रन्थस्य हार्द प्रकटीकुर्वती प्रस्तावना, विस्तृता विषयसूचिर्नैकानि च परिशिष्टानि प्रकाशनस्या-ऽस्योपादेयतामत्यधिकं वर्धयन्ति, सहैव दुर्गमपदानामल्पपरिचितपदानां च बोधकानि टिप्पणकानि चाऽप्यतीवोपयोगीनि सन्ति ।
ग्रन्थसम्पादकाः आ.श्रीविजयशीलचन्द्रसूरयः प्रकाशनवर्षम् वि.सं. २०६८, ई. २०१२; पृष्ठसंख्या २४+२५६ (क्राउन) मूल्यम् ३५०/- रूप्यकाणि
२. आचार्यश्रीभद्रेश्वरसूरिविरचिता कहावली - प्रायो वैक्रमीये ९५०तः ९७५ तमे संवति विद्यमानैराचार्यश्रीभद्रेश्वरसूरिभिः प्राकृतभाषायां गद्य-पद्यमय्यां विरचितोऽस्त्ययं ग्रन्थः । ग्रन्थेऽत्र चतुर्विशतेस्तीर्थकराणां द्वादशानां चक्रवर्तिनां नवानां वासुदेव-बलदेव-प्रतिवासुदेवानां नारदानां बहूनामन्येषां महात्मनां तथा विशेषतः श्रीमन्महावीरस्वामिनामन्वये सञ्जातानां महापुरुषाणां श्रीहरिभद्रसूरिपर्यन्तानां विशदचरितान्यालेखितानि सन्ति । अस्य ग्रन्थस्य द्वौ परिच्छेदौ स्तः । तयोश्चैकः प्रथम एवाऽद्यत्वे हस्तलिखितग्रन्थरूपेण प्राप्यते । तस्य च द्वौ खण्डौ । तयोश्च प्रथमः खण्डोऽत्र वैक्रमीय- पञ्चदशतमशत्यां लिखितस्यैकमात्रस्य तालपत्रीयग्रन्थस्याऽतीवभ्रष्टस्याऽवलम्बनेन महता परिश्रमेण संशोध्य सम्पाद्य च प्रकाशितोऽस्ति । अत्र खण्डे प्रथमतीर्थकरश्रीऋषभदेवस्वामिनश्चरितादारभ्य त्रयोविंशतीर्थकृतां श्रीपार्श्वनाथस्वामिनां समेषामपि च चक्रवर्ति-वासुदेव-बलदेव-प्रतिवासुदेवानां नारदानां नैकेषां चाऽन्येषामपि महात्मनां चरितान्यालिखितानि सन्ति । प्रायेणाऽऽलङ्कारिकवर्णनरहितेऽस्मिन् ग्रन्थेऽत्यन्तं सरलाया मधुरायाश्च प्राचीनप्राकृतभाषाशैल्या आस्वादो भवति । ऐदम्प्राथम्येन प्रकाशितस्याऽस्य ग्रन्थस्य साहित्यिकं सांस्कृतिकं च मूल्यमपारं वर्तते जागतिकविद्वत्समाजे ।
ग्रन्थसम्पादकः आ.श्रीविजयशीलचन्द्रसूरिशिष्यो मुनिकल्याणकीर्तिविजयः पृष्ठसंख्या ४४+४२५ (क्राउन) __मूल्यम् ३५०/- रूप्यकाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org