SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ नूतनग्रन्थपरिचयः वागीश्वरीकण्ठसूत्रम् (आधुनिकं काव्यशास्त्रम्) (स्वोपज्ञवृत्ति-हिन्द्यनुवादसमेतम्) प्रणेता आचार्यहर्षदेवमाधवः सम्पादकोऽनुवादकश्च डॉ. प्रवीण-पण्ड्या प्रकाशकः राष्ट्रीय संस्कृतसंस्थानम्, ५६-५७, इन्स्टिट्युशनल एरिया, जनकपुरी, नवदेहली - ११००५८ प्रथमसंस्करणम् २०११, मूल्यम् रू. २४०/ आधुनिककाव्य-साहित्यकारेषु मूर्धन्यं स्थानं भजतः कविमहोदयस्य डॉ. हर्षदेवमाधवस्य नाम विश्रुतमेव संस्कृतसाहित्यजगति । स्वीयकाव्येषु नवनवान् प्रयोगान् कुर्वाणोऽयं महाभाग इदानीं नूतनसाहित्यशास्त्रविचारसरणिसमुद्घाटकत्वेनाऽलङ्कारशास्त्रग्रन्थग्रथनेऽपि स्वीयां प्रतिभा विनियुञ्जान आधुनिकसंस्कृतसाहित्यविकासार्थं सर्वप्रकारैः प्रयतमानो दृश्यते ग्रन्थस्याऽस्य विरचनेन । ग्रन्थस्याऽस्याऽन्तःसत्त्वमेवं प्रस्तौति मूर्धन्यः संस्कृतसाहित्यकार आचार्यश्रीराधावल्लभ-त्रिपाठिमहोदयः - ___ अस्मिन् षट्स्वध्यायेषु रस-गुणालङ्कारादयः पूर्ववर्तिभिराचार्यविमृष्टा विषया नवीनदृशा पुनरुन्मीलिताः, मैत्री-मुदिता-करुणोपेक्षेति-चतसृभिर्मूलवासनाभिः कथं समग्रं वाङ्मयमधिवासितमिति च सोदाहरणं निदर्श्य दशरूपककारादिभिर्दिङ्मात्रं प्रदर्शितः पन्थाः प्राशस्त्यं प्रापितोऽस्ति । अथ च मार्क्सवादास्तित्ववादपरावास्तववादप्रभृतिनवीनवादानां दलितसाहित्य-नारीसाहित्यादिनवप्रस्थानानां बिम्बविधानादिनव्यकाव्यकोटीनां चेदम्प्रथमतया प्रामाणिके विचारे प्रभविष्णुः साहित्यसंसारजिष्णुः प्रस्तौति तद्विचारमत्र हर्षदेवः ।। तदेवं ग्रन्थोऽयं संस्कृतसाहित्यसेविनां कृते नूत्लैकां दिशं समुद्घाटयिष्यति - इत्यत्र नास्ति शङ्कालेशः ॥ ४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy