SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अनन्तलोकतोऽपि शान्तिदायिनी गरीयसी पुरन्दरस्य वज्रतोऽपि पुष्कलं द्रढीयसी वयं यदीयरक्षणे निरन्तरं पुरस्सराः तुषारशैलमण्डिता जयत्वियं वसुन्धरा !! न हिन्दवो महामदा न नानकावलम्बिनः न शाक्तशैवतान्त्रिका न जैनबौद्धयोगिनः परस्परं पृथङ्मता न वर्ततेऽन्यथा धरा ऋतम्भरा सनातनी जयत्वियं वसुन्धरा !!' (अभिराजगीता, पृ. ५५) इदानीमर्थलोभाज्जना देवभाषां संस्कृतं न पठन्ति, पाठयन्ति वा स्वपरम्परां कथमपि, किन्तु विबुधवाणी संस्कृतं परित्यज्य कस्याऽपि जनस्य कल्याणं भवितुं न शक्यते । समग्रे कुटुम्बे समाजे प्रदेशे राष्ट्रे जगति वा या दुर्भावना विद्यते, तस्याः संहरणं संस्कृतेनैव कर्तुं शक्यते । 'जयतु संस्कृतम्' इति गीते कवेर्वाणी सर्वथा श्रवणीया समाचरणीया च । 'राष्ट्रद्वेषं हरति संस्कृतं प्रान्तद्वेषं हरति संस्कृतं वेषद्वेषं हरति संस्कृतं भूषाद्वेषं हरति संस्कृतम् ।। वर्णद्वेषं हरति संस्कृतं जातिद्वेषं हरति संस्कृतं दृष्टिद्वेषं हरति संस्कृतं पङ्क्तिद्वेषं हरति संस्कृतम् ॥' (तत्रैव, पृ. ३८) 'यूयं यूयं वयं वयम्' इति गीते अन्यत्राऽपि च कविवर्येण राष्ट्रस्य दुर्गतिरपि न विस्मर्यते - 'सङ्गच्छामः सम्पश्यामः सन्तिष्ठामः क्षणे क्षणे - संसदि किन्तु हते निजपक्षे यूयं यूयं वयं वयम् ॥' (तत्रैव, पृ. ८५) यद्यपि सर्वथा रमणीयं मुद्रणमस्ति, तथापि यत्र-तत्र मुद्रणत्रुटिविद्यते । (प्र०-पृ. २२, ५४, ७०, १२६, १४४, १७०, १७२) कृतिरियमभिराजराजेन्द्रमिश्रस्य सर्वैः संस्कृतज्ञै राष्ट्रभक्तैः संस्कृतिनिष्ठैश्च संग्राह्या पठनीया च । जयतु संस्कृतं संस्कृतिश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy