________________ प्रश्न: लघुकथैषा श्रूयताम्..... जनस्यैकस्य जीवनं विषमयं सञ्जातम् / / आशायाः किरणाणुरपि कुत्रचिन्नैव गोचरो भवति स्म। अतस्तेन चिन्तितं - जीवननाश एवाऽधुना गतिरिति / एतदर्थं च, नगरमध्ये रेलयाननिर्गमनस्थलं गत्वा, रेलयानप्रयाणकाले मध्ये पतित्वा, प्राणनाशः कर्तव्य इति तेन निर्णीतम्। ___ एवं स्थितेऽपि, गृहान्निर्गच्छता तेनाऽन्योऽपि सङ्कल्पः कृतो यत् - मार्गे पुरत आगच्छतां जनानां मध्याद् यद्येकोऽपि जनस्तं दृष्ट्वा ईषदपि स्मितं कुर्यात्, स्मित्वा च तन्मानसे उत्साहं किञ्चित् प्रकटयेत्, तदा मरणयोजनां तत्रैव त्यक्त्वा गृहं प्रतिनिवर्तितव्यम्। ...... तिष्ठत्वेषा कथाऽत्रैव, तस्य च जनस्य का गतिर्जातेत्यपि विस्मियताम् / प्रश्नस्त्वेक एवोत्तिष्ठतेगृहान्निर्गमनानन्तरं तस्य जनस्य मार्गे यदि भवानेव नाम पुरतः समागमिष्यत् तदा ? वदतु, तस्य का गतिरभविष्यत् किल ? किं भवान् तावत् तस्य गृह प्रतिनिवर्तने निमित्तीभूतोऽभविष्यत् खलु ? विचारयतु तावत् !! (गूर्जरमूलं - सुमन्त देसाई) Jain Education International For Private & Personal use only www.jainelibrary.org