________________
पत्न्यः 'ओः, अजी, श्रूयतां, शृणु' इत्यादिभिः अनुरणनात्मकध्वनिभिः प्रतीकैर्वा स्वदयितं सम्बोधयितुं विवशीक्रियन्ते ? अथवा किमस्मिन् पद्ये पत्युर्नामग्रहणानिषेधस्य छन्दस्यवकाशाभावात्पतिनामोल्लेखो नाऽपार्यत कर्तुम् ?"
मध्य एव श्रौतायनेन स्वकीयं शास्त्रार्थविवेचनकौशलमभिव्यक्तं – “धिक्, शब्दलाघवस्य प्राशस्त्यं जानन्तोऽपि भवन्तो मिथ्याप्रपञ्चैरधिक्षिपन्ति धर्मशास्त्रप्रणेतृन् । पतिनामग्रहणं प्रतिषिद्धमस्त्यत्रैव "नामातिकृपणस्य च" इति पतिपदार्थस्याऽतिकृपणपदार्थेऽन्तर्भावः स्फुटः । पतिमतिरिच्य कः स्यादतिकृपणः इति विदन्ति भारतीयाः पत्यः । धर्मशास्त्रप्रणेतारोऽपि तदिदं रहस्यं जानन्ति स्म, अतः पृथङ्नामग्रहणमकृत्वा तन्त्रेण तादृशोऽर्थोऽत्राऽन्तर्भावितः । तत आरभ्य पत्नीभिः स्वपतीनां नामग्रहणं त्यक्तम् ।"
मया प्रोक्तं, "धन्योऽसि श्रौतायन ! उपमन्यो ! धन्यं च ते शब्दलाघवं हस्तलाघवं च । अस्य कूटपथस्य रहस्यं त्वं जानासि, स्मृतिकारो जानाति, पत्न्यश्च जानन्ति । "अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा ।" अस्माकं त्वज्ञातपूर्वमेवाऽऽसीत्तदिदं सर्वम् ।"
तावता भव्येशेन तत्पत्या भारत्या च मिष्टान्नद्रोणिकाः सुरभितपेयचषकाणि च सर्वेषु समवेतेष्वतिथिषु समुपहृतानि । वाग्दानकृत्यस्य किञ्चित् स्वस्तिवाचनादि, आशीर्वाचनादि वाऽनुष्ठानमवशिष्टमभूत् । अतः पुरोहितेन सर्वे वयं कुक्कुटकलकलाद्विरताः कारिताः ।
पूजाप्रसङ्गे पुरोहितो नवग्रहाणां प्रसादनाय श्लोकमिमं यदा पठन्नभूत् - "ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।। गुरुश्च शुक्र: शनिराहुकेतवः सर्वे ग्रहाः शान्तिकरा भवन्तु ।"
तदा चातकेन पृष्टो भव्येशः "भ्रातः ! शृणु पद्यमिदं, विनिर्दिश च कीदृशमत्र च्छन्दः ?" भव्येश उदतरत् – “उपजातिरियम्। किं न जानासि ?" चातकोऽभाषत – “जानामि । उपजातिरेव; किन्तु चरणत्रये एव । तृतीये चरणे वर्णाधिक्येन वंशस्थता इन्द्रवंशात्वं वाऽस्यां समुत्पन्नम् । “गुरुश्च शुक्रः शनिराहुकेतवः' इति द्वादशाक्षरा वृत्तिः संजायते, इन्द्रवज्रा, उपेन्द्रवज्रा वा एकादशाक्षरा ।"
उपमन्युः श्रौतायनः समबोधयत् - "अरे त्यज त्वदीयमिमं पैंगलं प्रश्नम् । यथा वैयाकरणकिरातात्सन्त्रस्ता अपशब्दमृगा ज्योतिर्नटविटगायकभिषगाननगह्वरेषु निलीयन्ते तथा त्वादशात्कविकिरातात् सन्त्रस्ताश्छन्दोभङ्गा वैदिक-पुरोहित-पत्रकारादीनामाननगह्वरे न निलीयेरंस्तर्हि कुत्र गच्छेयुः?" भव्येशगृहे समाकारितेन पुरोहितेन निभृतमस्माकं सोऽयमालापो न जाने कथं श्रुतो यत्स सुतरामधिक्षिप्तमवमानितं चाऽऽत्मानमनुभवन् सर्वानस्मानेकपदे एव ताडयितुमधावत् । तस्य सुदृढां देहयष्टिं दृष्ट्वा, करगतामपरां प्रत्यक्षकाष्ठयष्टिं च दृष्ट्वा त्वरितमेवाऽस्माभिर्निरचीयत यत्सम्प्रति पलायनमेव वरम् । “साधु भ्रातर्भव्येश ! स्मृतमस्माभिरत्यावश्यकं कार्यमेकम् । तदधुनैव करणीयम् । समयः समापतितः । अतः प्रतिष्ठामहे साम्प्रतं । श्वस्त्वां द्रक्ष्यामः" इति वदन्तो वयं सर्वेऽक्षतदेहेन्द्रियाः परावृत्ताः स्व-स्वगृहान् ।
सी/८, पृथ्वीराज रोड, जयपुर - ३०२००१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org