________________
इत्यभीष्टमभूत्पद्यनिर्मातुः ? भव्येशेनोदीरितं - "नैव, भारतभूमिरित्येव तस्याऽऽशयोऽभूत् । केवलं पादपूरणाय 'भारतभूमिका' इति लेखनीयमापतितम् । चातकेन त्वरितमुत्तरितम् - अरे, तदा तु तेन लेखनीयमासीत् - आसिन्धोः सिन्धुपर्यन्ता यस्य भारतमेदिनी। मातृभूः इत्यादि । किमभूत्काठिन्यमत्र ?
भव्येश उदवमत् – तदा तु तस्य पद्यलेखकस्य कवित्वख्यातिः प्रसरेत् । न शास्त्रकारत्वख्यातिः । सर्वमिदमनर्गलप्रलापं श्रुत्वा मया सर्वे सूचिता यदिदं पद्यं भारताय समुत्सृष्टजीवनस्य राष्ट्रभक्तस्य तपस्विनः कृतविद्यस्य च स्वनामधन्यस्य विनायकदामोदरसावरकरस्याऽस्ति । अत्र या परिभाषा तेनोपस्थापिता सा हिन्दुत्वं साधु व्यनक्ति । स महाराष्ट्रीयभाषायाः सुप्रतिष्ठितो लेखकः, उपन्यासकारश्चाऽभूत् । संस्कृतमनीषी, कविश्चाऽभूत् । 'काला पाणी'त्याख्ये स्वकीये उपन्यासे तेन स्वतन्त्रतादेवीमुद्दिश्य सुप्रेरिकागीतिरेका व्यलेख्यत यत्र प्रथमो भागः संस्कृतेऽस्ति, तदनन्तरं गीतिर्मराठीभाषायाम् । "स्वतन्त्रते ! भगवति ! त्वामहं यशोयुतां वन्दे । जयोऽस्तु ते श्रीमहन्मङ्गले शुभास्पदे शिवदे।" इत्यादिपङ्किभिर्गीतिरियमारभ्यते । सोऽयं समर्थः कविरासीत् । अनुष्टुप्छन्दसः पादपूरणाय तेन किमप्यनुचितमनुष्ठितं स्यादिति किं सम्भवति? स स्वैरं व्यलेखिष्यत् - "आसिन्धोः सिन्धुपर्यन्तां यस्य भारतभूरियम् । मातृभूः पितृभूश्चैव" । तदाऽर्थावगतिनिर्बाधाऽभविष्यत् । किन्तु 'भू' पदस्य वारंवारमावृत्तिर्भवद्भ्यो नाऽरोचिष्यत । भारतमेदिनीत्यपि तेन लिखितुं वाञ्छितं स्यात् । किन्तूपमन्युश्रौतायनसदृशानां वेदवीथीपथिकानां शैलीमनुहरता "हैव शश्वत्' शैली चाऽनुकुर्वता तेन भारतभूमि रतभूमिकेत्युपन्यस्ता । अत्र का खलु बाधाऽर्थावबोधे ?
सुहृत्संलापस्याऽस्य मध्य एव भव्येशपत्नी भारती त्वरितमागत्य सर्वानस्मान् सूचितवती यत्तस्या भागिनेयः प्रतिवेशस्थामेकां कन्यां द्रष्टुम्, अर्थात् विवाहाय वधूविनिश्चयं कर्तुमत्र समायातोऽस्ति । भव्येशगृहे एव कन्यामाकार्य ते तां तस्मै दर्शयिष्यन्तीति कार्यक्रमो विनिश्चितोऽभूत् । ततश्च कन्या च भागिनेयश्चाऽन्ये चाऽपरस्मिन् कक्षे स्वजनैः सह स्थिताः । यूयमपि समागत्य पश्यन्तु कन्यां, स्वाभिमतं च प्रकटयन्तु । सर्वे वयं सहर्षं तस्मिन् कक्षे समुपसृताः । कन्यावरणं सम्पन्नम् । तत्रैव च वाग्दानमपि पुरोहितेनैकेनाऽकार्यत ।
मङ्गलावसरेऽस्मिन् समवेतेषु सुहृज्जनेषु मिष्टान्नोपहरणाय भारती भव्येशमाकारयितुं "श्रूयतां, श्रूयतां जातु" इत्यादि बहुशो जल्पन्ती तस्याऽवधानमाक्रष्टुमियेष, किन्तु भव्येशोऽन्यत्र दत्तावधानोऽभूत् । चातकेन सर्वमिदं दृष्ट्वोद्गीर्णम्, "प्रजावति ! नाम्नाऽऽकारणेन विना नाऽयं कर्णौ प्रहेष्यति । आकार्यतां 'भव्येश' इति ।" भारत्या कथितं हन्त ! धर्मशास्त्रविरुद्धमाचरणमुपदिशति भवान् कथमहं पूज्यं पति नाम्नाऽऽह्वयेयम् ?" तावता सर्वेऽपि संलापेऽस्मिन् समवायन्त । मया पृष्टं - "धर्मशास्त्रे कुत्र निषिद्धमस्ति पत्युर्नामग्रहणम् ?' श्रौतायन उपदिशत् - "प्रसिद्धः स श्लोकः ।
आत्मनाम गुरोर्नाम नामाऽतिकृपणस्य च । श्रेयस्कामो न गृह्णीयज्ज्येष्ठापत्य-कलत्रयोः ।"
मया द्रुतमेव प्रत्याख्यातम् – “अस्मिस्तु न कुत्राऽपि पत्युर्नामग्रहणं प्रतिषिद्धम् । स्वकीयं नाम, गुरुनाम, अतिकृपणस्य, पत्न्या, ज्येष्ठापत्यस्य च नामग्रहणं प्रतिषिद्धम् । स्वकीयं नाम, गुरुनाम, अतिकृपणस्य, पत्न्या, ज्येष्ठापत्यस्य च नामग्रहणमश्रेयस्करम् । कुत्राऽस्ति पतिनामग्रहनिषेधः? किमिति वराक्यो भारतीयाः
४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org