________________
निर्धनत्वेन कपिलो मौनमवलम्ब्य तस्थौ । दासी उक्तवती - अत्र धनश्रेष्ठी अस्ति । प्रभाते यस्तं जागरयति तस्मै स स्वर्णमाषौ प्रयच्छति । ततस्त्वं प्रभाते झटिति गत्वा मधुरस्वरेण मङ्गलपाठं कुर्याः ।
ततः कपिलः श्रेष्ठिगृहं गन्तुमुत्सुकः सन् रात्रावेव निर्गतः । तदा सः चौरबुद्ध्याऽऽरक्षकैर्बद्धः । प्रातः राज्ञः समीपं नीतः । राज्ञा पृष्टश्च स सर्वमपि वृत्तान्तमुक्तवान् ।
राजा करुणाो जातः । तेनोक्तं - यथेष्टं याचस्व, अहमेव दास्ये ।
कपिल उवाच – विचार्याऽऽगच्छामि, पश्चाद् याचिष्ये । ततोऽशोकवनं गतवान् । तत्र स दध्यौ -- द्वाभ्यां माषाभ्यां किं भवेत् ? ततः सुवर्णशतं याचे । न, तेनाऽपि किं स्यात् ? सुवर्णसहस्रं याचे । न, एतेन किं भवेत् ? पश्चात् सुवर्णलक्षादारभ्य यावत् कोटिसहस्रं राज्यं चाऽपि याचे । तदैव चित्ते शुभपरिणाम उद्गतः । मया किं चिन्तितम् ? सुवर्णमाषद्वयेनाऽपि कार्यं मे सिद्धयेदेव किन्तु सन्तोषो न जातः । मम मात्रा विद्यार्जनार्थमत्र प्रेषितोऽहम् । किन्तु कुलोपहासकरं कार्यं मया कृतम् । अलमेतैर्विषयैः ।
एवं संविग्नः स जातिस्मरणमवाप्य स्वयम्बुद्धो बभूव । तत्क्षणं केशानुत्पाट्य देवतादत्तं धर्मोपकरणमादाय नृपसमीपं गतवान् । तत्र गत्वोक्तवान् – 'यथा लाभस्तथा लोभो, लाभाद् लोभः प्रवर्धते' । चकितो राजा बहुशः सुवर्णग्रहणार्थं विज्ञप्तिं कृतवान् । तथाऽपि स कपिलमुनिः ते धर्मलाभोऽस्तु । इत्युक्त्वा ततो निर्गतवान् ।
एतेन ज्ञायते - इच्छा न कदाऽपि परिपूर्णा भवति । यत्रेच्छा तत्र राग-द्वेषस्वरूपः कषायः, यत्र कषायस्तत्र क्लेशः, यत्र च क्लेशस्तत्र दुःखम् । अतोऽभिलाषारहितं यत् सुखं तदेव वस्तुतः सुखमिति ।
अन्ते, बन्धो ! क्षणिक-शाश्वतसुखयोरन्तरं ज्ञात्वा धर्मे एव प्रयतं कुरु । यतः सत्यं शाश्वतं सुखं च धर्माराधनायामेवाऽस्ति, तथैवाऽत्र परत्र च तेनैव सुखं प्राप्यते । त्वमपि बाह्यपदार्थेभ्यो मनोऽपास्याऽऽत्मिकगुणानां विकासनरूपस्य शुद्धधर्मस्यैवाऽऽराधनाद्वारेण सत्यं शाश्वतं च सुखं प्राप्नुया इति शम् ।
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org