________________
अर्थानामर्जने दुःखमजितानां च रक्षणे ।
आये दुःखं व्यये दुःखं धिग् द्रव्यं दुःखवर्धनम् ।। त्वया घटिकायां सुखं कल्पितं, किन्तु केनचित् साऽपहता तर्हि दुःखं, तत एनत्सुखमपि दुःखमिश्रितं स्यात् । एवं सा घटिका न सर्वदा तिष्ठेत्, कदाचिद् नष्टाऽपि स्यात्, ततोऽपि दुःखं जायते । एवं अभिलाषा त्वाकाशसमाऽस्ति । अतोऽभिलाषाया अवधिरेव न भवति । एकेच्छा पूर्णा, तदनन्तरमन्या, सा पूर्णा तदनन्तरमेवाऽन्याऽभिलाषा प्रकटीभवति अतोऽत्राऽपि न सुखमपि तु दुःखमेवाऽस्ति । अत्रैकः प्रसङ्गो लिख्यते मया -
___ कौशाम्ब्यां नगर्यां पुरोहितस्य सर्वविद्याकुशलस्य काश्यपस्य कपिलनामा पुत्र आसीत् । बाल्यकाले एव पितुर्मृत्युर्जातः । ततः कपिलोऽनाथो जातः । कपिलमनादृत्य राज्ञा पुरोहितपदेऽन्यो ब्राह्मणो नियुक्तः । एकदा कपिलमाता पतिसमृद्धि स्मृत्वा रुरोद । साश्रुनयनः कपिलो मातरं किमिति रोदिषीति पप्रच्छ ।
मात्रा उक्तं - यथाऽयं पुरोहितः समृद्धोऽस्ति तथैव तव पिताऽपि समृद्ध आसीत् । किन्तु त्वं न पठितवान् अतो राज्ञा पुरोहितपदे एष नियुक्तः ।
कपिलोऽवोचत् – अहं पठितुमिच्छामि । कुत्र गन्तव्यं मया ?
मातोवाच - वत्स ! अत्र तु सर्वेऽपि ईर्ष्यालवः सन्ति । ततो यदि त्वं पठितुमिच्छेस्तर्हि श्रावस्ती नगरी गच्छ । तत्र पितुर्मित्रमिन्द्रदत्तोऽस्ति, स त्वां अध्यापयिष्यति ।
कपिलस्त्वरया इन्द्रदत्तसमीपं गत्वा स्वपरिचयं दत्तवान् । पठनेच्छा प्रदर्शिता, प्रार्थना चाऽपि कृता ।
स द्विज उवाच – तव मनोरथः श्रेष्ठः श्लाघ्यश्चाऽस्ति । किन्त्वहं निष्परिग्रही, अतस्तवाऽऽतिथ्ये न शक्तः । ततस्तव नित्यभोजनं कथं भवेत् ? भोजनाभावे च पठनं दुष्करमस्ति ।
कपिलेनोक्तं – भिक्षयैव, भिक्षा न लज्जायै द्विजानाम् ।
इन्द्रदत्त उवाच - सत्यम् । किन्तु यदि कदाचित् भिक्षा त्वया न प्राप्येत तदा त्वं कथं पठिष्यसि ? ततः स एव द्विजः कपिलं गृहीत्वा कस्यचित् श्रेष्ठिनो गृहमागतवान् ।
किं याचसे - इत्युक्तं श्रेष्ठिना । द्विज उवाच - अस्मै बालाय भोजनं प्रतिदिनं देहि ।
श्रेष्ठिनाऽपि तदङ्गीकृतम् । अतः कपिलस्तद्गृहे भुञ्जानः पठति स्म । तत्र गृहे एका दासी सर्वदा कपिलस्य भोजनं परिवेषयामास । तस्यामनुरक्तो बभूव कपिलः । परस्परमनुरक्तौ तौ सानन्दं दिनानि गमयामासतुः ।
एकदा तत्र दासीनामुत्सवः प्रावर्तत । सा दासी पुष्पादिचिन्तयोद्विग्ना जाता । ततस्तेन सा पृष्टा उवाच - अद्याऽस्माकमुत्सवोऽस्ति । किन्तु पुष्पादिकाभावे दासीनां मध्ये मे हीनता स्यात्, ततः खिन्नाऽस्मि ।
३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org