SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पूर्वक्षणपर्यन्तं देवतुल्यसुखमनुभवन् जनोऽपि क्षणादूर्ध्वं दुःखभाग् भवेत् । हताशो जनः स अनन्यगतिकतयाऽऽत्मघातं कर्तुमपि प्रयतेत । अत्र किं कारणम् ? - बन्धो ! कारणमेकमेव यत् सुखं कुत्र ? कथं च सुखं प्राप्यते ? इति न चिन्तयति जनः, उत तच्चिन्तयितुं जनानां समीपे समय एव नास्ति यथा पशव कुत्रचिदपि सुखप्राप्तेः सम्भावना स्यात् तत्राऽचिन्तयित्वैव धावन्ति, तथैव वयमपि जना इतस्ततः सुखाभिलाषेण निरन्तरमकारणमेवाऽटामः । तत एव दुःखिनः स्मो वयम् । हन्त ! अस्माभिर्यत् सुखरूपेण स्वीकृतं तन्न सुखम्, अपि तु सुखाभास एवाऽस्ति । किं नाम सुखम् ? यन्न कदाऽपि नष्टं स्यात्, यत् सर्वदा सामीप्ये एव वर्तते, यत्त्वन्यान्याभिलाषशून्यं स्यात्, तदेव वस्तुतः सत्यं शाश्वतं सुखं चोच्यते । सुखाभासो नाम मृगतृष्णावद् दूरतः सुखरूप आभासमानोऽपि वस्तुतो न सुखरूपः स्यात्, कदाचित् सुखरूपो दृश्यते, तथाऽपि कस्मिन्नपि काले नश्येत् सः । सुखं तु शुद्धधर्माराधनयैव प्राप्यते, यतो धर्मः शाश्वतः सत्यरूपश्चाऽस्ति । यः शाश्वतोऽस्ति स एव शाश्वतं सुखमपि दातुं शक्तः, नाऽन्यः कोऽपि । अद्यावधि यैर्यैर्महाजनैरेषः शाश्वतधर्मः सम्यगाराधितस्तैस्तैस्तत् शाश्वतं सुखमपि प्राप्तमेव । किन्तु यैः क्षणिकस्य नश्वरस्य च धन-गृह- पत्नी - कुटुम्ब - आभूषणादिकस्य प्राप्त्यर्थं जीवनं व्यतीतं तैः क्षणार्धं क्षणिकं सुखाभासतुल्यं सुखं प्राप्तं, किन्तु कालान्तरे तु दुःखमेवाऽवाप्तं न तु शाश्वतं सुखम् - इति । यथा स्वयं दरिद्रोऽन्यं जनं धनिकं कर्तुं न शक्तोऽस्ति तथैव क्षणिकसुखं कथं शाश्वतं सुखं दातुं समर्थं भवेत् ? बन्धो ! सुखं न वस्तुषु व्यक्तिषु च, किन्तु तत्तद्वस्त्वादिकानां स्वीकरणे यादृशी दृष्टिस्तादृशं सुखमवाप्यते । यदि दृष्टिः सतः सत्यस्य च ग्रहणे शुद्धा निर्मला च स्यात्तदा सर्वत्र सदा सुखमेवाऽनुभूयते । तथाऽपि दुर्भाग्यं यत् - अस्माभिर्वस्तु-व्यक्ति - वातावरणेषु चैव सुखं कल्पितं, तन्नोचितम् । किं नाम वस्तुतः सुखमिति शास्त्रे चोक्तम् - परमं पदं नाम मोक्ष, मोक्षे एव शाश्वतं सुखम् । अस्माभिर्या सुखस्य व्याख्या कल्पिता साऽत्र न युज्यते । पश्य यन्न दुःखेन संभिन्नं न च भ्रष्टमनन्तरम् । अभिलाषापनीतं च तज्ज्ञेयं परमं पदम् ॥ अस्माभिर्धनेषु सुखं कल्पितं, किन्तु तत्र त्वतीव दुःखमस्ति । प्रथमं तदर्जने दुःखम् । धनार्जनार्थं किं किं न कृतम् ? माया - प्रपञ्च - कषायादिकमासेवितं, एवं शीत-उष्ण वर्षादिकमपि सोढं त्वया । ततस्तद्रक्षणे अतीव कष्टं सोढम् । ततस्तद्विगमेऽपि दुःखं जातम् - एवं धने कल्पितं सुखं तु दुःखमिश्रितमस्ति । उक्तं च Jain Education International - ३६ For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy