________________
भक्षितं मया ।
एतावता कालेन कथं भक्षितं त्वया ? वत्स ! सत्यं कथय ।
महोदय ! तत्रैव प्रक्षिप्तं मया । सर्वैस्तत्स्थाने दृष्टे सति पञ्चषा द्राक्षादयः प्राप्ताः ।
बिन्दोः स्कन्धे हस्तं दत्त्वा 'मया सह त्वमागच्छ' इत्युक्तं सुरेशमहोदयेन । द्वौ अप्यपवरके गतवन्तौ। कपाटमुद्धाट्य द्राक्षादिकं तद्धस्ते दत्त्वाऽकथयत् सुरेशः - 'बिन्दो ! भक्षयैतद् द्राक्षादिकम्' । महोदय ! न, न, इच्छा नाऽस्ति । ममाऽपराधं क्षमतां भवान् ।
त्वं भक्षय, अहं कथयामि
इत्याग्रहेण सुरेशेन बहिस्स गन्तुमादिष्टः ।
अनया रीत्यैव प्रेष्या दुष्टा भवन्ति । नोपालम्भ:, किन्तु तस्य प्रशंसनं करोति भवान् । अद्य द्राक्षादिकमचोरयत्, श्वोऽन्यत् किमिपि चोरयिष्यति ? इत्युक्तवती मालती साक्रोशम् ।
मालति ! बिन्दुर्न चौर:, किन्तु वयं चौराः स्मः । कथमस्माभिरेतादृग्वस्तूनि भक्षणीयानि यानि सर्वैर्न प्राप्यन्ते ? चौर्यस्य जन्म अत एव भवति । वयं प्रतिदिनमाकण्ठं द्राक्षादिकं भक्षयामः । एको बालो भक्षणेच्छयाऽध:पतितं द्राक्षादिकं भक्षयेत् तत्र का हानि: ? किं जातम् ? इत्युक्त्वा सुरेशो हसितवान् । द्राक्षादिकस्य न मूल्यं किन्तु मनो दूषितं तन्नोचितम् । भवानेवैतादृशानां मनोमालिन्यस्य वृद्धि
―
करोति । मालति ! दुःखिनी मा भव । प्रसन्नमनसा शान्त्या च विचारय । यावत्सर्वैः सर्वाणि वस्तूनि नावाप्येरन् तावन्न चौर्यं निवारयितुं शक्यम् । चौर्यं न रुचिकरं, किन्तु चौर्यं मनुजस्य पराधीनताऽस्ति ।
इतो बिन्दुर्बहिरगच्छत् । स सायङ्काले जातेऽपि न प्रतिनिवृत्तः । बिन्दोः कृते या भोजनस्थाली स्थापिताऽऽसीत् तां निरीक्ष्य मालत्या मनस्युद्वेगः प्रसृतः । तन्मन एवं प्रश्नयति यत् – सोऽसत्यमवोचत्, किन्तु बिन्दुरपि बालक एवाऽस्ति । बुभुक्षितस्स: कुत्राऽटेत् ? ततो द्वित्रवारं बहिरागत्य दृष्टं, सर्वत्र निरीक्षितं, किन्तु स न दृग्गोचरीभृतः । ततस्सा स्वमनस्येवाऽशान्तिमनुभवन्ती - धिग् मां, लघ्वीघटनाऽपि बृहद्घटनास्वरूपेण परावर्तिता मयेति चिन्तितवती ।
कुन्दन ! किं बिन्दुस्त्वया दृष्टः ?
'जी', 'नन्दीबाबु' महोदयस्याऽपवरकेऽस्ति ।
तत्र गत्वा बिन्दोर्हस्तं गृहीत्वा मालती सुरेशमहोदयस्याऽपवरके आगतवती । पश्यतु, प्रातःकालादेव बिन्दुरेष 'नन्दीबाबु ' महोदयस्याऽपवरके बुभुक्षित एव स्थितोऽस्ति ।
तत्र किं कुर्वन्नासीत् ? बिन्दो !
बिन्दोर्नयनयोर्वहमाना अश्रुबिन्दव एव प्रत्युत्तरमयच्छन् ।
सुरेशः किमपि वदेत् तत्पूर्वमेव 'चल, भोजनं कुरु' इत्युक्त्वा बिन्दोर्हस्तं गृहीत्वा तं पाकशालायां नीतवती मालती । उदरं भृत्वा भक्षयेः, भयं माऽऽसेवेथाः, इति वदन्तीं बिन्दोः पृष्ठे प्रेम्णा हस्तं प्रसारयन्तीं च मालतीं दृष्ट्वा सुरेशस्य हृदये प्रसन्नता प्रसृता, मनश्चाऽऽनन्देन भृतं जातम् ।
Jain Education International
७०
For Private & Personal Use Only
www.jainelibrary.org