________________
कथा
वाचः फलम्
मुनिधर्मकीर्तिविजयः
कस्मिंश्चिद् ग्रामे एकस्तन्तुवायो वसति स्म । तस्य कार्य सुन्दरमासीत् । अतः सर्वेऽपि प्रशंसन्ति स्म तम् । किन्तु तस्य वाचि केवलं कर्कशतैव वर्तते स्म । सर्वैः सह सर्वदा तस्य क्लेश एव भवति स्म । ततः स सर्वेषामपि जनानामप्रियः आसीत् ।
तस्य पत्नी प्रशान्ता मधुरभाषिणी चाऽऽसीत् । सर्वैः सह तस्या व्यवहारोऽपि सौम्यः सौहार्दभृतश्च प्रवर्तते स्म । तया स तन्तुवायो बहुशः प्रबोधितः - भवतः कार्यं सुन्दरमस्ति, किन्तु केवलं कर्कशगिरा भवानवमानितः सर्वैः अतो मधुरवाचा सर्वैः सह व्यवहरतु - इति ।
स उवाच - किं करवाणि ? भवत्येवोपायं दर्शयतु । पत्नी आह - पञ्चदश दिनानि बहुघृतमिश्रितं पक्वान्नं भक्षयतु, येन वाणी स्निग्धा भवेत् ।
एवं पञ्चदशदिवसपर्यन्तं तन्तुवायेन पक्वान्नं भक्षितम् । ततो हस्तनिर्मितं सुन्दरं कम्बलं दत्त्वोक्तं पत्न्या – एतद् राजे देहि, किन्तु तत्र न किमपि वक्तव्यं भवता ।
ततः पत्नीकथितसूचनां मनसिकृत्य, कम्बलं गृहीत्वा राजसभायां स गतवान् । यथावसरं राज्ञे तत्कम्बलं समर्पितं तन्तुवायेन ।
तं दृष्ट्वैव राजाऽतीव प्रसन्नो जातः । पुनः पुनः प्रशंसति राजा । प्रसन्नमनसा राज्ञा पृष्टम् - एतादृशस्याऽतीव सुन्दरस्य कम्बलस्योपयोगः कदा करणीयः ?
तन्नुवायः उवाच - भवतोऽन्तिमयात्रायामस्योपयोग: करणीयः । तच्छ्रुत्वा राजा कुपितः, तं च तिरस्कृत्य राजसभातो निष्कासितवान् ।
.
७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org