________________
कथा
चौर्यम् मुनिधर्मकीर्तिविजयः
बिन्दो ! बिन्दो ! क्षणं तिष्ठ । कुत्र गच्छसि ?
बिन्दुस्तु तीव्रगत्या धावितवान् । ततो मालत्या: शङ्का दृढीभूता ।
किं शृणुयात् भवान् ! बिन्दुः किञ्चिदपि गृहीत्वा गच्छन्नस्ति । त्वरितमागच्छतु भवान् । स्वकार्यैकाग्रमनाः स सुरेश उत्थातुं नेच्छति स्म । तथाऽपि मालत्या आग्रहेण बहिरागतवान् । तदैव रिक्तहस्तो बिन्दुः प्रत्यागच्छति स्म ।
वारं वारं मयाऽऽराटिः कृता, तथाऽपि कथं त्वं न स्थितवान् ? वद वद, किं गृहीत्वा धावितवानासीत् ? निस्तेजा: बिन्दुरुवाच श्रीमति ! न किमपि ।
त्वं मायाव्यसत्यभाषी चाऽसि । यदि हस्ते किमपि नाऽऽसीत् तर्हि कथं नाऽतिष्ठ: ?
कम्पितदेहः स न किमपि कथयितुं शक्त आसीत् ।
बिन्दो ! मा बिभेषि । यत् सत्यं स्यात् तत् कथय । वत्स ! किं गृहीतं त्वया ? इति प्रेम्णा पृष्टवान्
सुरेशः ।
-
महोदय ! मम हस्ते संमार्जन्यवस्करश्चैवाऽऽस्ताम् ।
पुनरसत्यं त्वमुक्तवान् ? आरक्षकानाह्वयतु । एष तु ताडनाधिकार्येवाऽस्ति । तव विश्वासेनेदं गृहं तुभ्यं समर्पितं, किं तद् वस्तूनां चौर्यार्थम् ? इत्यालपन्ती मालती रक्तवदना जाता ।
सुरेश उक्तवान् - मालति ! शान्ता भव, स्थिरा भव । एषा रीतिर्नोचिता सत्यस्य शुद्ध्यर्थम् । बिन्दो ! त्वं तु बुधः प्राज्ञश्च बालकोऽसि । मां पश्य, अवस्करस्त्वया कुत्र क्षिप्त: ? अत्यन्तप्रेमपूर्वकं बिन्दोर्हस्तं गृहीत्वा सुरेशस्तत्स्थानं गतवान् । बिन्दुनेङ्गितेन यत्राऽवस्करः क्षिप्तस्तत् स्थानं निर्दिष्टम् । रभसा मालती तत्स्थानस्य परितो दृष्टि कृतवती, किन्तु किमपि न दृग्गोचरं जातम् ।
महोदय ! बाबुजी !.... इत्येव बिन्दुः कथयितुं शक्तो जातः । धन्यवादो धन्यवादः ! कथय, वत्स ! किं गृहीत्वा गतवानासीः ? महोदय ! किञ्चिद् द्राक्षादिकमधः पतितमासीत्, तदेव मया गृहीतम् । सहसैव मालत्युक्तवती - मम कथनं सत्यमासीद् न वा ! बिन्दो ! द्राक्षादिकस्य किं कृतं त्वया ?
Jain Education International
६९
For Private & Personal Use Only
www.jainelibrary.org