SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 'भोः ! न मया भवते धन्यवादः कथयितव्यः, प्रत्युत भवतो धनं मया स्वीकृतमित्येतदर्थं भवता मे धन्यवादः कथयितव्यः !!' (३) विलम्बः 'गुरो ! मया कदा मम बालकस्य शिक्षणमारब्धव्यम् ?' - एका माता गुरवे पृष्टवती । "किंवयस्कोऽस्ति ते बालः ?' - गुरुणा पृष्टम् । 'प्रभो ! पञ्चवर्षीयोऽस्ति सः' । 'पञ्च वा ? शीघ्र गृहं गत्वा तच्छिक्षणमारभस्व, त्वया पञ्च वर्षाणि विलम्बस्तु कृतोऽस्त्येव !!' (४) किमर्थम् ? गुरोराश्रमेऽध्येतुं गच्छन्तं कञ्चन साधकं तत्सुहृत् पृष्टवान् – 'भो ! भवान् किमर्थं गुरोः पार्वे गच्छन्नस्ति ? किं स भवते जीविकोपार्जनं शिक्षयिष्यते वा ?' 'नैव भोः ! किन्तु तत्सकाशे कृतेनाऽध्ययनेनाऽहं जीविकामुपाय॑ सा कथं नियोक्तव्येति शिक्षिष्ये' इति साधक उक्तवान् । (चतुर्णामप्येषामाधारः One Minute Nonsense - इत्याङ्ग्लपुस्तकम्) (५) मातुरनुशासनम् कश्चन युवा विविधशास्त्राणि पठित्वा महाविद्वान् समभवत् । ततो ज्ञानं प्राप्तुं बहवो जनास्तत्पावें समागच्छन्ति स्म सर्वदा, तस्य प्रशंसां च सर्वोऽपि जन: करोति स्म । अथ च तन्मातुः पार्वेऽपि जनाः समागत्य तं प्रशंसन्ते । ततश्च तया तस्योपरि पत्रमेकं लिखितं - ____ 'प्रियपुत्र ! अन्येषां साहाय्यार्थं त्वमेको जङ्गमो ज्ञानकोषो यद् जातोऽसि तदुत्तमं, किन्तु, एतावन्मात्रेण त्वं भगवतोऽपि सत्योऽनुयायी जातोऽसि इति तु मा मंस्थाः । शास्त्रज्ञानस्य विचारस्य विमर्शस्य साफल्यस्य प्रतिष्ठायाश्च कोऽप्यवधिरेव नास्ति । अहं त्वेवमभिलषामि यदेकदिने त्वमेतत् सर्वमपि दूरं त्यक्त्वा कुत्रचिद् दुर्गमे स्थाने स्थिते कस्मिंश्चिल्लघुन्याश्रमेऽज्ञाततया गत्वोपविश सर्वकालं च भगवद्ध्यानं कृत्वा सत्यस्य साक्षात्कारं कुरु' इति । (झेनकथा) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy