________________
ग्रामेऽन्विष्टं नगरेऽन्विष्टं शैलेऽन्विष्टा दरी-दरी ! बबं बबंबं बं लहरी !
शिवगाथेयं शिवङ्करी ॥ ४॥
पैनलविद्वद्भिः कुलपतयः । अन्विष्यन्ते स्म बृहस्पतयः ॥ अन्ताराष्ट्रियकीर्तिमण्डिताः । विविधविषयसम्मान्यपण्डिताः ॥ विद्याविनयपारगा दक्षाः । स्वच्छच्छवयोऽपक्षविपक्षाः ॥ प्रावृषेण्यजलदाः समवर्षाः । सन्तुलितानभ्युदयनहर्षाः ॥ तैश्च विश्वविद्यालयकीर्तिः । स्फीताऽभूदवदाताऽधीतिः ॥ विपरिवर्तितं संविधानकम् । प्रत्नमल्लके नवं पानकम् ॥ गणिकानृत्येऽस्मिन् पाखण्डाः । मध्ये कूर्दितवन्तो भण्डाः ॥ सर्वेषामिह नग्नः स्वार्थः । तस्माद् विकलोऽभूत्परमार्थः ॥ आर्यो वाञ्छति निजं समाजम् । अर्हं मनुतेऽन्योऽप्यभिराजम् ॥ लालाटिकं वरयते मन्त्री । स्वविटमेव वृणुते षड्यन्त्री ॥ उदासीनतां भजति कुटुम्बः । कोऽपि नृपोऽस्तु को नु मे लम्भः ॥ निर्घोणस्य यथाऽऽसीत् सत्त्वम् । अन्धस्याऽपि तथा नेतृत्वम् ॥ त्रुटिता ननु शारदा विपञ्ची । कुलपो जातो यतः प्रपञ्ची ॥ महनीयोच्चशिक्षणं नष्टम् । तद् दृष्ट्वा वाङ्मातुः कष्टम् ॥ कुलपतयो ज्ञानोदधिकल्पाः । ये पञ्चषा अजातविकल्पाः ॥ शासनाय नो ते रोचन्ते । यतो न तत्परितो हिण्डन्ते ॥ किं करणीयं किं वरणीयं स्मरणीयौ वा रुद्र-हरी बबं बबंबं बं लहरी !
शिवगाथेयं शिवङ्करी ॥ ५ ॥
दिल्ल्यां लटकमेलकं जातम् । नेतृगृहे मङ्गलप्रभातम् ॥ शासनपक्षेऽथवा विपक्षे । नेतुः स्वर्गः स्वस्मिन् कक्षे ॥ भोजनचाहनसेवक सौख्यम् । आजीवनमिह यात्रासौख्यम् ॥ स्वर्णं दग्ध्वा यथा निर्मितम् । स्वर्णभस्म तच्चौषधं स्मृतम् ॥ जनतां दग्ध्वा तथा कल्पितम् । जनताभस्म नेतृभिस्सततम् ॥ तज्जनताभस्मना विवृद्धाः । एते भान्ति कुबेरसमृद्धाः ॥ विस्मृतदुस्सहदण्डाघातः । यथा गृहे श्वा पुनरपि भ्रातः ॥ न्यक्कृतथूत्कृतधिक्कृतकायाः । कारादण्डितनेतृनिकायाः ॥
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org