SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ तथाऽखिलं लीलया सहन्तः । दृश्यन्ते कृमयो विलसन्तः ॥ जयाजयौ वा लाभालाभौ । सम्पद्विपदौ हर्षविषादौ ॥ निजागार-कारागृहवासौ । शासनतवाद् व्याससमासौ ॥ उभयं समीकृत्य जीवन्तः । विलपन्तोऽन्तर्मुखैर्हसन्तः ॥ सत्यमेव योगिनस्तटस्थाः । नेतारो विषमे समवस्थाः ॥ परधनसुखिनोऽजगरजीवनाः । कृत्वाऽकिञ्चित्सकलसाधनाः ॥ लोकतवगरुडस्कन्धस्थाः । साक्षाल्लक्ष्मीपतिप्रतिष्ठाः ॥ जनता सुखिनी न स्यादेभ्यः । सुखिनस्त्विमे किन्तु जनताभ्यः ॥ कर्कटमहारोग इव नेता । जनताप्राणहरस्सुखभेत्ता ॥ तस्य न किमप्यौषधं दृष्टम् । शासनतवान्तरं न चेष्टम् ॥ वरमासीदाङ्ग्लप्रशासनम् । श्रेष्ठक्षमकोविदसमर्थकम् ॥ धिगुपवनं तद्यत्र नु काकाः । शास्तारः स्युः पिका वराकाः ॥ किमत्र कुर्मः किमत्र शृण्मः तरणीयेयं कथं तरी ? बबं बबंबं बं लहरी ! शिवगाथेयं शिवकरी ॥ ६ ॥ जनता जागरयति निर्भीकः । अभिराजो भारतावनीकः ॥ केषाञ्चिन्मुष्टौ जनतवम् । बद्धं जातं विपत्तितत्रम् ॥ जीर्णं शीर्णं गलितं पलितम् । त्याज्यमिदं क्रन्दनसंवलितम् ॥ रोदिति जनता हसति सांसदः । जीर्यति जनता नटति सांसदः ॥ जनताब्धौ नेता वडवाग्निः । जनतारण्ये नेता वह्निः ॥ क्षुद्रजनोदयमन्दरकल्पम् । धिगजनतवं निहतविकल्पम् ॥ करणीयं जनताब्धिमन्थनम् । पुनरपि भूयोऽप्यमृतनिमित्तम् ॥ येभ्योऽन्यथा खलेभ्यो मुक्तम् । राष्ट्र स्यात्तैः पुनर्नु भुक्तम् ॥ उत्तिष्ठत् जाग्रत प्रवीराः । भारतपुत्राः ! रणभुवि धीराः ॥ प्रागभवन् रिपवः परकीयाः । शातयन्ति सम्प्रति स्वकीयाः ॥ त्वामाह्वयति भारती माता । रक्ष राष्ट्रभूमिं त्वं त्राता !! भ्रष्टतत्रमिह दुष्टजनं जहि सिंहस्त्वमसितीक्ष्णनखरी ! बबं बबंबं बं लहरी ! शिवगाथेयं शिवकरी ॥ ६ ॥ Sunrise Villa, Lower Summer Hill, SHIMLA (H.P.) १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy