________________
सिद्धप्पाजिगीतस्य नवदशाश्चरणा न समाप्ताः । तम्बूरवाद्यनादेन हस्ताङ्गलितालेन मधुरं गायति स्म। पूर्वसीमायाः सद्भिः साकं भाषमाण इव तस्मिन् गायति सति, तत्र क्वाऽपि जनसमूहस्य मध्ये त्रिचतुरेषु स्थलेषु युगपदेव हाहाकारः समजनि । युवजनसंस्कृतिशाखाया मन्त्रिण आप्ताश्चत्वारः कार्यकारिणः मेजेस्टिक्प्रदेशे स्थितस्य त्रिवेणीचित्रमन्दिरस्य समीपे अण्णम्मादेवालयं निकषा कृतवसतेराहितुण्डिकस्य डोम्बस्य सकाशात् पञ्चषान् सर्पान् सहस्ररूप्यकमौल्येन क्रीत्वा तान् स्कन्धलम्बितस्यूतेषु निगृह्य कार्योचितेषु स्थलेषु स्थिताः । समावेशायाऽऽगतानां सर्वेषां स्कन्धेषु स्यूतका लम्बन्ते स्मेति सत्यम् । कस्य स्यूतकात् सर्पा निष्पतिता इति केनाऽपि न ज्ञातम् । स्यूतकेभ्यो निष्पतिता व्यामदीर्घाः सर्पाः सभीति जनानां मध्ये असर्पन् । वेदिकायां नायकाः सिद्धज्जगीतं शृण्वन्तः शिरांस्यान्दोलयन्तः, परस्ताद् वीरावेशेनाऽधिकारयन्त्रं विरुध्य भाषणं कर्तव्यमित्येतदपि स्वल्पकालं व्यस्मरन् । जना अपि सिद्धज्जस्य कण्ठध्वनिना मन्त्रमुग्धा इवाऽऽसन् । तदा सर्पः सर्पः इति सभयो निनाद उत्थितः । तत्रत्यः सर्प एवाऽत्राऽपि आगतः किम् ? इत्यन्यस्यामपि दिशि जनाः सम्भ्रान्ताः । दृष्टवतामदृष्टवतां च सर्वेषां मनस्सु सर्प एव नरीनृप्यते स्म। जना अन्योन्यमुत्सारयन्ति स्म । सर्पमानीतवद्भिः सहाऽऽगता अधिकारारूढपक्षस्य कार्यकर्तारः स्कन्धलम्बितभस्त्रास्तत्र स्थितान् सकलान् प्रहर्तुमारभन्त । वर्षीयांसो भूमौ पतिताः पदाहता हा हतोऽस्मि इत्याक्रन्दन्तो दृष्टमृत्युमुखा इव शब्दायन्ते स्म । समस्तं जनसागरं सिकतातटवदावृण्वन्ति स्माऽऽरक्षकाः । ते हस्ताभ्यां दृढं दण्डान् गृहीत्वाऽस्यन्तो जनान् ताडयितुमुद्यताः । ताडनस्य पादरक्षामर्दनस्य रणकोलाहलस्य च विषयीभूता जना मार्गभ्रष्टाः काननप्रविष्टा इव जाताः । भूमौ स्थितान् सर्पो दशेदिति भीताः केचन युवानो वेदिकामारोहन् । तन्मध्ये वेदिकां भग्नां कर्तुमिच्छन्तोऽधिकारारूढपक्षस्य कार्यकर्तारोऽप्यासन् । कञ्चन कार्यकर्ता सोद्देशमेव सिद्धज्जं प्राणुदत् । सिद्धज्जो वेदिकाया अधः पतितः । तं नुन्नवान् संस्कृतिमन्त्रिणः कुम्भदासः । समग्रस्य कार्यक्रमस्य कण्टकपुरुषोऽहमेवेत्युक्त्वा सायं मद्यार्थं भूरि पूर्णपात्रं लब्धव्यमिति सोऽचिन्तयत् । इतः समावेशस्य सङ्घटकः कश्चित् सिद्धज्जं वहन्नधावत् । धावनवेलायां सिद्धज्जस्य तम्बूरं (तानपूरं वा) गग्गरं मुखवीणा चेति सर्वं क्वाऽपि क्वाऽपि पतितं जनपादाहतं चूर्णीभूतम् ।
अहं क्वाऽपि उन्मत्तप्रवाहे पतितः, मम देहः शिलाभिर्घट्यते इति सिद्धज्जस्याऽभात् । निर्जनारण्यमार्गे पक्षिणां कलरवस्य मध्ये वा, स्तोकस्य जनवृन्दस्य पुरो वा सिद्धज्जो गायति स्म । एतादृशं दृश्यं तु स प्रथमवारं वीक्षते स्म । अन्तिमतयेदं पश्यामि, शीघ्रं म्रिये इति तस्य भाति स्म । पूर्वशैलस्य महादेव ! राक्षसलोक एष एव नु ? इति सोऽचिन्तयत् । सङ्घटकः सिद्धज्जं स्कन्धे वहन् न्यायालयभवनस्य पुरस्ताद् बृहतो वृक्षस्याऽधस्तात् तृणशय्यायां निपात्य पुनरुद्यानं प्रत्यधावत् । वञ्चका गणिकापुत्राः करेण ग्राह्याः इत्यत्यावेशेन दन्तान् घट्टयन् सकांस्यवलयस्य हस्तस्य मुष्टिं दृढीकुर्वन् अधावत् । धावतस्तस्य सन्देहस्य विषयीभूतः कोऽपि गृह्येत चेत् तं शवं कर्तुं पर्याप्तं क्रौर्यं तस्य मुखे सान्द्रीभूतम् । धनाशया भोजनाशया बेङ्गलूरुनगरदर्शनाशया चलचित्रनटवीक्षणाशया चाऽऽगताः सहस्रशो जनाः प्रनष्टदिशोऽभवन् । स्त्रियस्तु अतीव भयविह्वलाः हस्तैर्वदनानि घट्टयन्तः दिङ्मूढा आसन् । स्वीयाः पतयः शिशवश्च क्व नष्टा इति, क्व ढौकितव्यं, कथमात्मा रक्षणीय इत्यविदन्त्यः स्थिताः ।
८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org