________________
वाचकानां प्रतिभावः
नन्दनवनं नन्दयति ।।
नूनं नन्दनवनं नन्दयति हृद्यं कृत्वा हृन्मण्डयति ।। - नूनं - ॥ संस्कृतभावान् पोषयति अभद्रभावान् शोषयति, सतां मनांसि तोषयति नन्दनवनमानन्दयति । – नूनं – । प्रीत्या प्रियं प्रसारयति कार्यं करोति, कारयति, दुःखोद्वेगान् दारयति नन्दनवनमानन्दयति । - नूनं – ।। संस्कृत-शुद्धं स्मारयति, संस्कारान् सन्तोषयति, धर्मामृतमप्यर्पयति नन्दनवनमानन्दयति । – नूनं - ॥ स्वदेशसेवां सूचयति विश्वधर्ममपि धारयति, नयं नु नीत्या प्रेरयति, नन्दनवनमानन्दयति । - नूनं - ॥ चित्ते चिन्त्यं चेतयति नन्दनन्दनं गीतयति, जनमङ्गलं विकासयति नन्दनवनमानन्दयति । - नूनं - ॥
डॉ० वासुदेवः पाठकः 'वागर्थः'
अमदावाद
१. नन्दनवनम्-नन्दनवनकल्पतरुः २. कार्यम् - (१) करणीयं, कर्तव्यं (२) कर्म.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org