________________
वाचकानां प्रतिभावः
सम्मान्याः,
सादरं नमो नमः ।
भवद्भिः करुणावरुणालयैः प्रेषितो नन्दनवनकल्पतरोः २८तमोऽङ्कोऽद्यैव सम्प्राप्तः । भृशमनुगृहीतोऽस्मि ।
नूनमयमनेकमनोहरस्तम्भमण्डितदेवप्रासाद इव तत्सेविनां सुमनसां मनांसि सुखयत्याह्लादयति च, तत्र नास्ति मे मनसि शङ्कालेश इति विरमामि ।
- किशोरचन्द्रपाठकः
अमरेली
*
*
*
गुरुपदपद्मे रता मान्या कीर्तित्रयी, नमो नमः ।
'नन्दनवनकल्पतरुः' प्रेरयति नवं नवं सारस्वतं कर्तुम्। आनन्दश्चाऽनुभूयते तेन।
सरस्वत्याः प्रसादेन भवद्भिः क्रियते मुदा । संस्कृतस्य वरा सेवा इत्यतः प्रणता वयम् ॥ अस्तु सातत्यम् । सादरमभिनन्दनानि ॥
डॉ. वासुदेवः पाठकः 'वागर्थः'
अमदावाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org